संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय १५२

प्रभासक्षेत्र माहात्म्यम् - अध्याय १५२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ईश्वर उवाच॥
तृतीयो भैरवः प्रोक्तश्चतुर्थं भैरवं शृणु ॥
ब्रह्मेशात्पश्चिमे भागे धनुषां त्रितये स्थितम् ॥१॥
सर्वपापप्रशमनं सर्व कामप्रदं नृणाम् ॥
नारदेश्वरनामानं स्थापितं नारदेन वै ॥२॥
ब्रह्मलोके स्थितः पूर्वं नारदो भगवानृषिः ॥
तत्र दृष्ट्वा महावीणां दिव्यां तंत्र्ययुतै र्युताम् ॥३॥
सरस्वत्या विनिर्मुक्तां ब्रह्मलोके महाप्रभाम् ॥
तेनासौ कौतुकाविष्टो वादयामास तां तदा ॥४॥
तंत्रीभ्यो वाद्यमानाभ्यो ब्राह्मणाः पतिता भुवि ॥
सप्त स्वरास्ते विख्याता मूर्च्छिताः षड्जकादयः ॥५॥
तान्दृष्ट्वा विस्मयाविष्टो मुक्त्वा वीणां प्रयत्नतः ॥
पप्रच्छ देवं ब्रह्माणं किमिदं कौतुकं विभो ॥६॥
वाद्यमानासु तन्त्रीषु पतिता ब्राह्मणा भुवि ॥
क एते ब्राह्मणा देव किं मृता इव शेरते ॥७॥
 ॥ब्रह्मोवाच॥
एते स्वरा महाभाग मूर्च्छिताः पतिता भुवि ॥
अज्ञानवादनेनैव पापं जातं तवाधुना ॥८॥
सप्तब्राह्मणविध्वंसपातकं ते समा गतम् ॥
तस्माच्छीघ्रं व्रज मुने प्रभासं क्षेत्रमुत्तमम् ॥९॥
समाराधय देवेशं सर्वपापविशुद्धये ॥
इत्युक्तो नारदस्तत्र संतप्य च मुहुर्मुहुः ॥१०॥
कृत्वा विषादं बहुशः प्रभासं क्षेत्रमागतः ॥
तत्रैव ब्रह्मकुण्डं तु समासाद्य प्रयत्नतः ॥११॥
भैरवं पूजयामास दिव्याब्दानां शतं प्रिये ॥
ततो निष्कल्मषो भूत्वा गीतज्ञश्चाभवत्तथा ॥१२॥
ततः प्रभृति तल्लिंगं नारदेश्वरभैरवम् ॥
ख्यातं लोके महादेवि सर्वपातकनाशनम् ॥१३॥
अज्ञानाद्वादयेद्यस्तु वीणां चैव तथा स्वरान् ॥
स तत्पातकशुद्ध्यर्थं तत्र गच्छेन्महेश्वरि ॥१४॥
माघे मासि जिताहारस्त्रिकालं योऽर्चयेत्ततः ॥
नारदेशं भैरवं स स्वर्गरामामनोहरः ॥१५॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये ब्रह्मकुण्डमाहात्म्ये नारदेश्वरभैरवमाहात्म्यवर्णनंनाम द्विपंचाशदुत्तरशततमोऽध्यायः ॥१५२॥

N/A

References : N/A
Last Updated : January 11, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP