संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय २४१

प्रभासक्षेत्र माहात्म्यम् - अध्याय २४१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
तत्रैव संस्थितं पश्येद्बलभद्रकलेवरम् ॥
शेषरूपेण यत्रासौ प्रात्यजत्स्वकलेवरम् ॥१॥
गतस्त्रैसंगमे तीर्थे तत्र पातालवर्त्मना ॥
अस्मिन्मित्रवने देवि गव्यूतिद्वयविस्तृते ॥२॥
कलेवरं स्थितं देवि लिंगाकारं महाप्रभम् ॥
रेवत्या सहितं तत्र शेषनामेति विश्रुतम् ॥३॥
यत्र सिद्धः पुरा देवि जरानामा तु कौलिकः ॥
विष्णुहंता भल्लतीर्थे सोऽस्मिन्स्थाने लयं गतः ॥४॥
तत्प्रभृत्येव सकले शेष इत्यभिविश्रुतः ॥
चैत्रे शुक्लत्रयोदश्यां यस्तं पूजयते नरः ॥
स पुत्रपौत्रपशुमान्वर्षं क्षेमेण गच्छति ॥५॥
मसूरिकादिरोगेभ्यः शिशूनां न भयं भवेत् ॥
विस्फोटकादिरोगेभ्यो न भयं जायते क्वचित् ॥६॥
अस्मिन्क्षेत्रे महासिद्धे सिद्धयज्ञस्तु यः स्मृतः ॥
वर्णानां सांतरालानां सर्वेषां चातिवल्लभः ॥७॥
पशुपुष्पोपहारैश्च बलिदानैः पृथग्विधैः ॥
संतुष्टिं शीघ्रमायाति शेषोऽशेषाघनाशनः ॥८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शेषमाहात्म्यवर्णनंनामैकचत्वारिंश दुत्तरद्विशततमोऽध्यायः ॥२४१॥॥

N/A

References : N/A
Last Updated : January 12, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP