संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय २२१

प्रभासक्षेत्र माहात्म्यम् - अध्याय २२१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि देवं च ऋणमोचनम् ॥
तस्मिन्दृष्टे ऋणं न स्यान्मातापितृसमुद्भवम् ॥१॥
पितरस्तु पुरा सर्वे दिव्यक्षेत्रं समागताः ॥
प्रभासे तपसा युक्ताः स्थिता वर्षगणान्बहून् ॥२॥
अग्निष्वात्ता बर्हिषदः सोमपा आज्यपास्तथा ॥
लिंगं संस्थापयामासुः सर्वे भक्तिपरायणाः ॥३॥
ततः कालेन महता तुष्टस्तेषां महेश्वरः ॥
ततः प्रत्यक्षतां गत्वा वाक्यमेतदुवाच ह ॥४॥
परितुष्टोऽस्मि भद्रं वो ब्रूत यन्मनसेप्सितम् ॥५॥
 ॥पितर ऊचुः॥
अस्माकं दीयतां वृत्तिर्जगत्यस्मिन्स्वयं कृते ॥
देवानां च ऋषीणां च मानुषाणां महीतले ॥६॥
भवानेव परो लोके सर्वेषां पद्मसंभव॥
आगत्य वर्णाश्चत्वार इह ये श्रद्धयान्विताः ॥७॥
पैतृकात्तु ऋणान्मुक्ता भवंतु गतकल्मषाः ॥
व्यन्तरत्वं सुरश्रेष्ठ येषां वै पितरो गताः ॥८॥
सर्प्पे वह्नि विषैर्वा ये नाशं नीताः पितामहाः ॥
अपुत्रा वा सपुत्रा वा सपिण्डीकरणं विना ॥९॥
न कृतानि पुरा येषामेकोद्दिष्टानि षोडश ॥
तथा नैव वृषोत्सर्गो गोहताश्चाथ चान्त्यजैः ॥१०॥
अथापरे ये च मृताः शौचेन तु विना कृताः ॥
ते चात्र तर्पिताः सर्वे प्रयान्तु परमां गतिम् ॥११॥॥
 ॥श्रीभगवानुवाच॥
स्नात्वा तु सलिले पुण्ये पितृणां चैव तर्पणम् ॥
ये करिष्यंति मनुजाः पितृभक्तिपरायणाः ॥१२॥
अहं वरप्रदस्तेषां तारयिष्यामि तत्क्षणात् ॥
पितृन्सर्वान्न संदेहो यदि पापशतैर्वृताः ॥१३॥
अस्मिंस्तीर्थे नरः स्नात्वा यो लिंगं पूजयिष्यति ॥
युष्माभिः स्थापितं लिंगं स मुक्तः पैतृकादृणात् ॥१४॥
यस्मादृणात्प्रमुच्येत अस्य लिंगस्य दर्शनात् ॥
तस्मान्मया कृतं नाम ह्येतस्य ऋणमोचनम् ॥। १५॥
 ॥ईश्वर उवाच॥
हिरण्यं मस्तके दत्त्वा यः स्नाति ऋणमोचने ॥
आत्मा वै तारितस्तेन दत्तं भवति गोशतम् ॥१६॥
एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत ॥
तस्मात्सर्वप्रयत्नेन तत्र श्राद्धं समाचरेत् ॥
पूजयेत्तन्महादेवि पितृलिंगं सुरप्रियम् ॥१७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य ऋणमोचनमाहात्म्यवर्णनंनामैकविंशत्युत्तरद्विशततमो ऽध्यायः ॥२२१॥

N/A

References : N/A
Last Updated : January 12, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP