संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय २४२

प्रभासक्षेत्र माहात्म्यम् - अध्याय २४२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि यत्र देवीकुमारिका ॥
तस्यैव पूर्वदिग्भागे स्थिता रक्षार्थमेव हि ॥१॥
पुरा रथंतरे कल्पे रुरुर्नाम महासुरः ॥
उत्पन्नः स महाकायः सर्वलोकभयावहः ॥२॥
तेन देवाः सगन्धर्वास्त्रासितास्त्रिदशा लयात् ॥
तस्य भीत्या ततः सर्वे ब्रह्मलोकमधिस्थिताः ॥३॥
तथा भूमितले विप्रान्यज्वनोऽथ तपस्विनः ॥
निजघान स दुष्टात्मा ये चान्ये धर्मचारिणः ॥४॥
निःस्वाध्यायवषट्कारं तदाऽऽसीद्धरणीतलम्॥
नष्टयज्ञोत्सवं सर्वं रुरोर्भयनिपीडितम् ॥५॥
ततः प्रव्यथिता देवास्तथा सर्वे महर्षयः ॥
समेत्यामंत्रयन्मंत्रं वधार्थं तस्य दुर्मतेः ॥६॥
ततः कायोद्भवः स्वेदः सर्वेषां समजायत ॥
तेषां चिंतयतां देवि निरोधाज्जगृहुश्च तम्॥७॥
तत्र कन्या समुत्पन्ना दिव्या कमललोचना ॥
व्यापयंती दिशः सर्वाः सर्वेषां पुरतः स्थिता ॥८॥
सर्वान्देवांस्ततः प्राह किमर्थं निर्मितास्म्य हम् ॥
तद्वः कार्यं करिष्यामि श्रुत्वा तस्यास्तदा गिरम् ॥९॥
आचख्युः संकटं तस्यास्ते देवा रुरुचेष्टितम् ॥
श्रुत्वा जहास सा देवी देवानां कार्य सिद्धये ॥१०॥
तस्या हसंत्या निश्चेरुर्वरांगाः कन्यकाः पुनः ॥
पाशांकुशधराः सर्वाः पीनश्रोणिपयोधराः ॥११॥
फेत्कारारावमात्रेण त्रास यंत्यश्चराचरम् ॥
अन्वगात्सा रुरुर्यत्र ताभिः सार्द्धं यशस्विनी ॥१२॥
अथाभूत्तुमुलं तासां युद्धं घोरं तु तैः सह ॥
शस्त्रास्त्रैर्विविधैर्घोरैः शत्रुपक्ष क्षयंकरैः ॥१३॥
ताभिस्तदनुगाः सर्वे प्रहारैर्जर्जरीकृताः॥
पराङ्मुखाः क्षणेनैव जाताः केचिन्निपातिताः ॥१४॥
ततो हतं बलं दृष्ट्वा रुरुर्मायामथाऽसृजत् ॥
तामसींनाम देवेशि तयामुह्यत नैव सा ॥१५॥
तमोभूते ततस्तत्र देवी दैत्यं तदा रुरुम् ॥
शक्त्या बिभेद हृदये ततो मूर्छां जगाम ह ॥१६॥
मुहूर्त्ताल्लब्धसंज्ञोऽथ ज्ञात्वा तस्याः पराक्रमम् ॥
पलायनकृतोत्साहः समुद्राभिमुखो ययौ ॥१७॥
साऽपि देवी जगामाथ पृष्ठतोऽस्य दुरात्मनः ॥
स्तूयमाना सुरगणैः किंनरैः समहोरगैः ॥१८॥
ततः प्रविश्य जलधिं तं दृष्ट्वा दानवं रुषा ॥
खङ्गाग्रेण शिरश्छित्त्वा चर्ममुण्डधरा ततः ॥१९॥
निश्चक्राम पुनस्तस्मात्प्रभासं क्षेत्रमागता ॥
कन्या सैन्येन संयुक्ता बहुरूपेण भास्वता ॥२०॥
देवैः सुविस्मितैर्दृष्टा चर्ममुण्डधरा वरा ॥
ततो देवाः स्तुतिं चक्रुः कृतांजलिपुटाः स्थिताः ॥२१॥
 ॥देवा ऊचुः॥
जय त्वं देवि चामुंडे जय भूतापहारिणि ॥
जय सर्वगते देवि कालरात्रि नमोऽस्तु ते ॥२२॥
भीमरूपे शिवे विद्ये महामाये महोदये ॥
महाभागे जये जृम्भे भीमाक्षि भीमदर्शने ॥२३॥
महामाये विचित्रांगि गेयनृत्यप्रिये शुभे ॥
विकरालि महाकालि कालिके कालरूपिणि ॥२४॥
प्रासहस्ते दण्डहस्ते भीमहस्ते भयानने ॥
चामुण्डे ज्वलमानास्ये तीक्ष्णदंष्ट्रे महाबले ॥
शवयानस्थिते देवि प्रेतसंघनिषेविते ॥२५॥
एवं स्तुता तदा देवी सर्वैः शक्रपुरोगमैः ॥
प्रहृष्टवदना भूत्वा वाक्यमेतदुवाच ह ॥२६॥
वरं वृणुध्वं भद्रं वो नित्यं यन्मनसि स्थितम् ॥
अहं दास्यामि तत्सर्वं यद्यपि स्यात्सुदुर्ल्लभम् ॥२७॥
 ॥देवा ऊचुः॥
कृतकृत्यास्त्वया भद्रे दानवस्य निषूदनात् ॥२८॥
स्तोत्रेणानेन यो देवि त्वां वै स्तौति वरानने ॥
तस्य त्वं वरदा देवि भव सर्वगता सती ॥२९॥
यश्चेदं शृणुयाद्भक्त्या तव देवि समुद्भवम् ॥
सर्वपापविनिर्मुक्तः स प्राप्नोतु परां गतिम् ॥३०॥
अस्मिन्क्षेत्रे त्वया देवि स्थितिः कार्या सदा शुभे ॥३१॥
अत्र त्वां पूजयेद्यस्तु शुक्लपक्षे समाहितः ॥
नवम्यामाश्विने मासि तस्य कार्यं सदा शुभम् ॥३२॥॥
 ॥ईश्वर उवाच॥
एवमुक्ता महादेवी तत्रैव निरताऽभवत् ॥
देवास्त्रिविष्टपं जग्मुः प्रहृष्टा हतशत्रवः ॥३३॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां सहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये कुमारीमाहात्म्यवर्णनंनाम द्विचत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥२४२॥

N/A

References : N/A
Last Updated : January 12, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP