प्रभासक्षेत्र माहात्म्यम् - अध्याय १८३
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि मंकीश्वरमनुत्तमम् ॥
त्रिसंगमसमीपस्थं सर्वपातकनाशनम् ॥१॥
मंकीनाम ऋषिः पूर्वमासीत्स तपतां वरः ॥
स च ज्ञात्वा महाक्षेत्रं प्रभासं शंकरप्रियम् ॥२॥
अतपद्वै तपो घोरं कन्दमूलफलाशनः ॥
वर्षाणामयुतं साग्रं प्रतिष्ठाप्य महेश्वरम् ॥३॥
ततस्तुष्टो महादेवो ददौ प्रीतो वरं तदा ॥
स वव्रे यदि तुष्टोऽसि अस्मिन्स्थाने स्थितो भव ॥४॥
मन्नामांकितलिंगस्तु वस कल्पायुतायुतम् ॥
एवमस्त्वित्यथेत्युक्त्वा तत्रैवान्तरधीयत ॥५॥
तदाप्रभृति तल्लिंगं मंकीश्वरमिति श्रुतम्॥
माघे मासे त्रयोदश्यां चतुर्दश्यामथापि वा ॥६॥
पूज्याः पंचोपचारेण प्राप्नुयादीप्सितं फलम् ॥
गोदानं तत्र वै देयं सम्यग्यात्राफलेप्सुभिः ॥७॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मंकीश्वरमाहात्म्यवर्णनंनाम चतुरशीत्युत्तरशततमोऽध्यायः ॥१८४॥
N/A
References : N/A
Last Updated : January 12, 2025

TOP