संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्| अध्याय २३ प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ अध्याय २८० अध्याय २८१ अध्याय २८२ अध्याय २८३ अध्याय २८४ अध्याय २८५ अध्याय २८६ अध्याय २८७ अध्याय २८८ अध्याय २८९ अध्याय २९० अध्याय २९१ अध्याय २९२ अध्याय २९३ अध्याय २९४ अध्याय २९५ अध्याय २९६ अध्याय २९७ अध्याय २९८ अध्याय २९९ अध्याय ३०० अध्याय ३०१ अध्याय ३०२ अध्याय ३०३ अध्याय ३०४ अध्याय ३०५ अध्याय ३०६ अध्याय ३०७ अध्याय ३०८ अध्याय ३०९ अध्याय ३१० अध्याय ३११ अध्याय ३१२ अध्याय ३१३ अध्याय ३१४ अध्याय ३१५ अध्याय ३१६ अध्याय ३१७ अध्याय ३१८ अध्याय ३१९ अध्याय ३२० अध्याय ३२१ अध्याय ३२२ अध्याय ३२३ अध्याय ३२४ अध्याय ३२५ अध्याय ३२६ अध्याय ३२७ अध्याय ३२८ अध्याय ३२९ अध्याय ३३० अध्याय ३३१ अध्याय ३३२ अध्याय ३३३ अध्याय ३३४ अध्याय ३३५ अध्याय ३३६ अध्याय ३३७ अध्याय ३३८ अध्याय ३३९ अध्याय ३४० अध्याय ३४१ अध्याय ३४२ अध्याय ३४३ अध्याय ३४४ अध्याय ३४५ अध्याय ३४६ अध्याय ३४७ अध्याय ३४८ अध्याय ३४९ अध्याय ३५० अध्याय ३५१ अध्याय ३५२ अध्याय ३५३ अध्याय ३५४ अध्याय ३५५ अध्याय ३५६ अध्याय ३५७ अध्याय ३५८ अध्याय ३५९ अध्याय ३६० अध्याय ३६१ अध्याय ३६२ अध्याय ३६३ अध्याय ३६४ अध्याय ३६५ अध्याय ३६६ विषयानुक्रमणिका प्रभासक्षेत्र माहात्म्यम् - अध्याय २३ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २३ Translation - भाषांतर ॥ईश्वर उवाच॥ततः शांतमना भूत्वा चंद्रमा विस्मयान्वितः ॥शंभुभक्त्या परीतात्मा प्रभासक्षेत्रमास्थितः ॥१॥पूर्वोक्तं यत्तु देवेन स तथा कृतवान्विभुः ॥गत्वा सागरमध्ये तु गृहीत्वा लिंगमुत्तमम् ॥२॥विश्वकर्म्माणमाहूय सहितं परिचारकैः ॥आदिदेश स्वयं सोमस्त्वष्टारं देवशिल्पिनम् ॥३॥ ॥चंद्र उवाच॥विश्वकर्मन्निदं लिंगं मम दत्तं तु शंभुना ॥गृहाण त्वं महाबाहो युक्तस्थाने निवेशय ॥४॥रक्षस्व तावद्गन्तास्मि स्वकीयं भवनं विभो ॥यज्ञार्थमानयिष्यामि यज्ञोपकरणानि च ॥५॥ ॥ईश्वर उवाच॥इत्युक्त्वा च तदा चंद्रश्चंद्र लोकं जगाम ह॥गत्वा तत्र महादेवि चंद्रलोकंमहाप्रभम्॥६॥कोटियोजनविस्तीर्णं सदामृतमयं शुभम्॥तत्राहूय महादेवि प्रतीहारं सुमेधसम् ॥७॥मंत्रिणं हेमगर्भांगं बृहस्पतिसमं धिया ॥यज्ञोपस्करसंभारं सर्वमादाय सत्वराः ॥८॥प्रभासक्षेत्रं गच्छंतु ममादेशपरायणाः ॥साग्निभिर्ब्राह्मणैः सार्द्धं गच्छंतु क्षेत्रमुत्तमम् ॥९॥शीघ्रं संपाद्यतां सर्वं यथा यज्ञः प्रवर्तते ॥सर्वेषामेव विप्राणां चंद्रलोकनिवासिनाम् ॥१०॥पृथक्पृथग्विमानं तु देयं तेषां महाधनम् ॥गवां च दशलक्षाणां सवत्सानां पयोमुचाम् ॥११॥हेमभारैर्भूषितानां कामधेनूपमत्विषाम्॥अश्वानां श्यामकर्णानां सपादं लक्षमेव च ॥१२॥दंतिनामयुतं चैव घंटाभरणशोभितम् ॥सहस्राणि च चत्वारि रथानां वातरंहसाम् ॥१३॥लक्षं तु करभाणां च मणिमाणिक्यसंयुतम् ॥सैन्यानां कोटिरेका तु चतुरंगबलान्विता ॥१४॥अग्निशौचानि वस्त्राणि ब्राह्मणार्थं तथैव च ॥विभूषणानि दिव्यानि ऋत्विगर्थं शुभानि च ॥१५॥नानाभक्ष्याणि भोज्यानि पानानि विविधानि च ॥लक्षं कर्मकराणां तु दासीनां लक्षमेव च ॥ ॥१६॥दारुवंशावधि प्रोक्तं यत्किंचित्स्वं मदाज्ञया ॥अन्यद्यद्ब्राह्मणा ब्रूयुस्तत्सर्वं तत्र नीयताम् ॥१७॥देवानां दानवानां तु यक्षगंधर्वरक्ष साम् ॥सप्तद्वीपक्षितीशानां सप्तपातालवासिनाम् ॥१८॥नानानृपसहस्राणां घोषणा क्रियतां मुहुः ॥सर्वेषां घोषणा कार्या प्रभासागमनं प्रति ॥१९॥इत्युक्त्वा मंत्रिणं तत्र चंद्रमास्त्वरयाऽन्वितः ॥ब्रह्मलोकं स गतवान्यज्ञार्थं ब्रह्मणोंतिकम् ॥२०॥सोऽपि चंद्रमसो मंत्री हेमगर्भो महाप्रभः ॥सोमाज्ञां शिरसा कृत्वा यज्ञसंभारसंभृतः ॥२१॥प्रभासं क्षेत्रमागत्य यज्ञार्थं यत्नवानभूत् ॥तथैव चाह्वयांचक्रे भूर्भुवःस्वर्निवासिनः ॥ ॥२२॥श्रुत्वा तु घोषणां सर्वे शीघ्रं तत्र समाययुः॥रवियोजनपर्यंतं क्षेत्रमालोक्य तत्र तत् ॥२३॥ब्राह्मणांश्च समाहूय सोमाध्यक्षं उवाच तान् ॥यज्ञांगं सर्वमानीतं मया सोमाज्ञया द्विजाः ॥अनंतरं तु यत्कृत्यं भवद्भिस्तद्विधीयताम् ॥२४॥इत्युक्ता ब्राह्मणाः सर्वे तपोनिर्धूतकल्मषाः ॥तत्रैव ददृशुः सर्वे त्वष्टारं देवशिल्पिनम् ॥२५॥तं दृष्ट्वा तु द्विजाः सर्वे लिंगं दृष्ट्वा समीपतः ॥कथमेतदिति प्रोचुर्विश्वकर्मन्ब्रवीहि नः ॥कस्मादत्र स्थितस्त्वं वै शिल्पिकोटिसमन्वितः ॥२६॥ ॥विश्वकर्म्मोवाच॥अहं सोमनियुक्तस्तु युक्तोऽस्मि लिंगरक्षणे ॥तदाज्ञापालने यत्नः क्रियतेऽतो मया द्विजाः ॥२७॥ ॥ईश्वर उवाच॥एवं श्रुत्वा यदा विप्रा ज्ञात्वा सर्वं तु कारणम् ॥चरिता यज्ञकार्यार्थं ततश्चक्रुरुप क्रमम् ॥२८॥तत्र योजनपर्यंतं देवानां यजनं शुभम् ॥तद्देवयजनं कृत्वा पत्नीशालां च चक्रिरे ॥२९॥हविर्द्धानं सदश्चैव उत्तरा वेदिरेव च ॥ब्रह्मणः सदनाग्नीध्रीत्येवं स्थानानि चक्रिरे ॥३०॥तत्र योजनपर्यंतं यज्ञयूपांश्च मंडपान् ॥विश्वकर्मा चकाराशु कुंडानि विविधानि च ॥३१॥सहस्रसंख्यया तत्र कुण्डानां मंडपावधि ॥तत्र ते ब्राह्मणाः सर्वे प्रतिष्ठायज्ञकोविदाः ॥३२॥नानाभरणरत्नैश्च ब्राह्मणाः समलंकृताः ॥चक्रुः सर्वे यथन्यायं शास्त्रं दृष्ट्वा पुनःपुनः ॥३३॥वृक्षांस्तथौषधीर्दिव्या समित्पुष्पकुशादिकान् ॥होमद्रव्यादिकं सर्व माज्यं प्राज्यं नवं पयः ॥३४॥तथान्यदपि यत्किंचिद्यज्ञोपकरणं स्मृतम् ॥वर्द्धनीकलशाद्यं च सर्वं हेममयं शुभम् ॥३५॥चक्रुः सर्वं यथान्यायं प्रतिष्ठामखमादृताः ॥तत्र विप्रगणो हृष्टो भक्ष्यभोज्यादितर्पितः ॥३६॥वेदध्वनितनिर्घोषैर्दिवं भूमिं च संस्पृशन् ॥सुशुभे मंडपस्तत्र पताकाभिरलंकृतः ॥३७॥दिव्यसिंहासनोपेतो मुक्तादामपरिष्कृतः ॥दिव्यचन्दनमालाभिः कल्पपल्लवतोरणैः ॥३८॥दिव्यगन्ध सुगन्धाद्यैः स्वर्गस्थानमिवाभवत् ॥चतुर्दशविधस्तत्र भूतग्रामः समागतः ॥३९॥स्थावरः सर्पजातिश्च पक्षिजातिस्तथैव च ॥मृगसंज्ञश्चतुर्थश्च पश्वाख्यः पञ्चमः स्मृतः ॥४०॥षष्ठश्च मानुषः प्रोक्तः पैशाचः सप्तमः स्मृतः ॥अष्टमो राक्षसः प्रोक्तो नवमो यज्ञ एव च ॥४१॥गांधर्वशाक्रसौम्याश्च प्राजापत्यस्तथैव च ॥ब्राह्मश्चेति समाख्यातश्चतुर्दशविधो गणः ॥४२॥विश्वेदेवास्तथा साध्या मरुतो वसवस्तथा ॥लोकपालास्तथाष्टौ च नक्षत्राणि ग्रहैः सह ॥४३॥ब्रह्माण्डे देवता याश्च ताः सर्वास्तत्र चागताः ॥हृष्टाः प्रभासके क्षेत्रे प्रारब्धे यज्ञकर्म्मणि ॥४४॥घृतक्षीरवहा नद्यो दधिपायसकर्दमाः॥पक्वान्नानां फलानां च राशयः पर्वतोपमाः ॥४५॥दृश्यन्ते विविधाकारास्तस्मिन्यज्ञमहोत्सवे ॥जगु(?)स्तत्रैव गन्धर्वा ननृतुश्चाप्सरोगणाः ॥४६॥भक्ष्यभोज्यैश्च विविधैः कामपानादिभिस्तथा ॥तृप्ता देवाश्च मुनयो भूतग्रामाश्चतुर्दश ॥४७॥एवं संभारसहितं यज्ञांगं सर्वमेव हि ॥प्रगुणीकृत्य सचिवो मुक्त्वा तत्रैव रक्षकान् ॥सोमस्याह्वाननार्थं च ब्रह्मलोकं जगाम ह ॥४८॥ ॥ईश्वर उवाच॥स दृष्ट्वा ब्रह्मणः पार्श्वे स्थितं सोममहाप्रभम् ॥प्रणम्य दण्डवद्भूमौ सोमं ब्रह्माणमेव च ॥४९॥कृतांजलिपुटो भूत्वा उवाच नतकंधरः ॥ ॥हेमगर्भ उवाच॥भगवन्भवदादेशाद्यज्ञांगं सर्वमेव हि ॥५०॥तत्र प्राभासिके क्षेत्रे मया ते प्रगुणीकृतम् ॥तत्र ब्रह्मर्षयः सर्वे तथा राजर्षयोऽपरे ॥५१॥त्वन्मार्गप्रेक्षकाः सर्वे सन्तिष्ठन्ते समाकुलाः ॥अनन्तरं तु यत्कृत्यं तद्भवान्कर्तुमर्हति ॥५२॥॥ईश्वर उवाच॥इत्युक्तस्तु तदा चन्द्रः समुद्रस्य सुतेन वै ॥प्रहस्योवाच ब्रह्माणं चन्द्रमा लोकसाक्षिणम् ॥५३॥भगवन्सर्वदेवेश ममानुग्रहकाम्यया ॥प्रतिष्ठायज्ञकामस्य ममातिथ्यं कुरु प्रभो ॥५४॥अद्य मे सफलं जन्म सफलं च तपः प्रभो ॥देवत्वमद्य मे ब्रह्मंस्त्वत्प्रसादाद्भविष्यति ॥५५॥मया च तपसोग्रेण प्राप्तं लिंगमुमापतेः ॥तत्प्रतिष्ठाविधिं सर्वं तद्भवान्कर्त्तुमर्हति ॥५६॥ ॥ब्रह्मोवाच॥अवश्यं तव कर्त्तास्मि प्रतिष्ठां शंकरात्मिकाम् ॥त्वदाराधनलिंगे तु सोमेशेऽतिविशेषतः ॥५७॥ये केचिद्भवितारो वा अतीता ये निशाकराः ॥तेषां सोमान्वयानां च सर्वेषामाद्यदैवतम् ॥५८॥योऽसौ सोमेश्वरो देव आदौ भैरवनामभृत् ॥मन्वन्तरान्तरेऽतीते प्रतिष्ठेऽहं पुनःपुनः ॥५९॥यदा प्राभासिकं क्षेत्रे गतोऽहं चाष्टवार्षिकः ॥आहूतः पूर्वमिन्द्रेण भैरवस्य प्रतिष्ठिते ॥६०॥।तत्प्रभृत्येव मे नाम बालरूपी निगद्यते ॥अन्येषु सर्वतीर्थेषु वृद्धरूपी वसाम्यहम् ॥६१॥प्रभासे तु पुनश्चंद्र बाल्याप्रभृति संवसे ॥ब्रह्माण्डे यानि तीर्थानि ब्राह्मणास्तेषु ये स्मृताः ॥६२॥तेषामाद्यो निशानाथ प्रभासेऽहं व्यवस्थितः ॥कल्पेकल्पे निशानाथ मम नामांतरं भवेत्॥६३॥स्वयंभूः प्रथमे नाम द्वितीये पद्मभूः स्मृतः॥तृतीये विश्वकर्त्तेति बालरूपी तुरीयके ॥६४॥एषामेव परीवर्तो नाम्नां भावि पुनःपुनः ॥परार्द्धद्वयपर्यंतं प्रभासे संस्थितस्य मे ॥६५॥आदिसोमेन तत्रैव शंभोर्नेत्रोद्भवेन वै ॥प्रभासे तु तपस्तप्त्वा प्रत्यक्षीकृतईश्वरः ॥६६॥ततो ददौ वरं तुष्टः पूर्वचन्द्रस्य शूलधृक् ॥यस्मादाराधितोऽहं ते सोम भक्त्या चिरन्तनम् ॥६७॥तस्मात्सोमेशनामैवमस्मिँल्लिंगे भविष्यति ॥यावद्ब्रह्मा शतानन्दः प्रकृतौ न प्रलीयते ॥६८॥ये केचिद्भवितारो वै रात्रिनाथा निशाकराः ॥ते मदाराधनं चात्र करिष्यंति पुनःपुनः ॥६९॥इत्युक्त्वा भगवाञ्छंभुस्तत्रैवांतरधीयत ॥तस्मिन्काले मया सोम आद्यं लिंगं प्रतिष्ठितम् ॥७॥।तदाप्रभृति सोमानां लक्षाणां द्वितयं गतम् ॥सहस्रद्वितयं चैव शतं चैकं षडुत्तरम्॥७१॥सप्तमस्त्वं महावाहो वर्त्तसे सोम सांप्रतम् ॥एतावन्त्येव लिंगानि प्रतिष्ठां प्रापितानि मे ॥७२॥एष एवाधुना सोऽहं तदाराधनजं फलम् ॥प्रतिष्ठातास्मि भद्रं ते सोम कृत्य ममैव तत् ॥७३॥॥ ॥ईश्वर उवाच॥इत्युक्त्वा भगवान्ब्रह्मा वेदविद्यासमन्वितः ॥सर्वदेवमयो देवैः सहितस्तीर्थसंयुतः ॥७४॥सनत्कुमारप्रमुखै र्योगीन्द्रैर्ऋषिभिः सह ॥बृहस्पतिं समाहूय पुरस्कृत्य पुरोधसम् ॥७५॥हंसयानं समारुह्य कोटिब्रह्मर्षिभिः सह ॥आगतः सोमराजेन तदा ब्रह्मा जगत्पतिः ॥७६॥प्राभासिके महातीर्थे यत्र दारुवनं स्मृतम् ॥ऋषितोया नदी यत्र महापातकनाशिनी ॥७७॥अस्मिंस्तीर्थे प्रभासे तु ब्रह्मभागः स उच्यते ॥त्रिदैवतमिदं क्षेत्रं मया ते कथितं प्रिये ॥७८॥तत्रागत्व चतुर्वक्त्रो ब्राह्मभागेऽतिनिर्मले ॥मुनीनाकारयामास उन्नत स्थानवासिनः ॥७९॥आयांतं वेधसं दृष्ट्वा देवर्षिगुरुसंयुतम् ॥ते सर्वे पूजयामासुः संस्तवैर्वेदसंमितैः ॥८०॥अथोवाच द्विजान्सर्वान्ब्रह्मा लोकपितामहः ॥चिरमाराध्य सोमेन सोमेशं पापनाशनम् ॥८१॥तस्मिन्प्रसन्ने सोमेन लब्धं लिङ्गमनुत्तमम् ॥प्रतिष्ठार्थं तु देवस्य आयाता द्विजसत्तमाः ॥८२॥यथा मया सदा कार्या प्रतिष्ठा शंकरात्मिका ॥भवद्भिः परिकार्या सा मम भागसमाश्रयैः ॥८३॥यतः कोपेन भवतां लिंगं प्रपतितं भुवि ॥प्रतिष्ठा तस्य कर्तव्या युष्माभिर्वै न संशयः ॥८४॥ ॥ईश्वर उवाच॥गृहीत्वाऽथ मुनीन्सर्वान्ब्रह्मा लोकपिता महः ॥आनीतः सोमराजेन तदा ब्रह्मा जगत्पतिः ॥८५॥प्राभासिके महातीर्थे सावित्र्या सहितः प्रभुः ॥कारयामास कुण्डानां मण्डपानां शतंशतम् ॥८६॥एकैके मण्डपे तत्र चक्रे सप्तदशर्त्विजः॥गुरुणा प्रेरितो ब्रह्मा तत्र देवपुरोधसा ॥८७॥पार्श्वे स्थितस्तदा ब्रह्मा विधानैर्वेद भाषितैः ॥दीक्षयामास सोमं तु रोहिण्या सहितं विभुम् ॥८८॥पत्नीं च रोहिणीं कृत्वा सर्वलक्षणसंयुताम् ॥मृगचर्मधरां देवीं क्षौमवस्त्रावगुंठिता म् ॥८९॥पत्नीशालां समानीता ऋत्विग्भिर्वेदपारगैः ॥चंद्रमा दीक्षया युक्त ऋषिगंधर्वसंस्तुतः ॥९०॥औदुंबरेण दंडेन संवृतो मृगचर्मणा ॥अतीव तेजसा युक्तः शुशुभे सदसि स्थितः ॥९१॥ततो ब्रह्मा महादेवि सर्वलोकपितामहः ॥ऋत्विजां वरणं चक्रे वेदोक्तविधिना तदा ॥९२॥गुरुर्होता वृतस्तत्र वसिष्ठोऽध्वर्युरेव च ॥तत्रोद्गाता मरीचिस्तु ब्रह्मत्वे नारदः कृतः ॥९३॥सनत्कुमारसंयुक्ताः सदस्यास्तत्र वै कृताः ॥वस्त्रैराभरणैर्युक्ता मुकुटैरंगुलीयकैः ॥९४॥भूषिता भूषणौघेन तस्मिन्यज्ञे तदर्त्विजः ॥चतुर्षु तज्ज्ञाश्चत्वार एवं ते षोडशर्त्विजः ॥९५॥प्रस्तोता कश्यपस्तत्र प्रतिहर्ता तु गालवः ॥सुब्रह्मण्यस्तथा गर्गः सदस्यः पुलहः कृतः ॥९६॥होता शुक्रः समाख्यातो नेष्टा क्रथ उदाहृतः ॥मैत्रावरुणो दुर्वासा ब्राह्मणाच्छंसी कौशिकः ॥९७॥अच्छावाकश्च शाकल्यो ग्रावस्थः क्रतुरेव च ॥प्रस्थाता प्रतिपूर्वो यः शालंकायन एव च ॥९८॥अग्नीध्रश्च मनुस्तत्र उन्नेता त्वंगिराः कृतः ॥एवमाद्यान्मण्डपेषु कृत्वा तानृत्विजः प्रभुः ॥९९॥अन्येषु मण्डपेष्वेव प्रत्येकमृत्विजः कृताः ॥मण्डपानां शतेष्वेव कृत्वा कुण्डान्यकल्पयत् ॥१००॥एकैको मण्डपस्तत्र विंशहस्तप्रमाणतः ॥अस्त्रेणाशोध्य भूमिं तु पंचगव्येन प्रोक्ष्य च ॥१०१॥चर्मणा चावगुंठ्यैव आलिख्यास्त्रेण पार्वति ॥उल्लिख्य प्रोक्षणं कृत्वा खातं कृत्वा विधानतः ॥१०२॥अष्टौ कुंडानि संकल्प्य तथैकमण्डपे प्रिये ॥लेपनं मण्डपे कृत्वा वज्राकरणमेव च ॥१०३॥चतुरस्रकार्मुकं च वर्तुलं कमलाकृति ॥पूर्वां दिशं समा रभ्य कृत्वा तानि प्रयत्नतः ॥१०४॥चतुःकोणसमायुक्तं पूर्वे कुण्डं निवेश्य तु ॥भगाकृति तथाऽऽग्नेय्यां दक्षिणे धनुराकृति ॥ ॥१०५॥नैर्ऋत्ये तु त्रिकोणं वै वर्तुलं पश्चिमेन तु ॥षट्कोणं चैव वायव्ये पद्माकारं तथोत्तरे ॥१०६॥ऐशान्यामष्टकोणं तु मध्ये चैकं विधा नतः ॥प्रत्येकं मण्डपं शुभ्रं स्तम्भैः षोडशभिर्युतम् ॥१०७॥ध्वजैः सतोरणैर्युक्तं चक्रे ब्रह्मा विधानतः ॥न्यग्रोधं पूर्वतो न्यस्य दक्षे चोदुंबरं तथा ॥१०८॥अश्वत्थं पश्चिमे चैव पलाशं चोत्तरे क्रमात् ॥बाहुदंडप्रमाणेन ध्वजांस्तत्र निवेश्य वै ॥१०९॥ऐन्द्र्यादौ पीतवर्णादि पताका परिकल्पिताः ॥ततो ब्रह्मा ह्यग्निकुंडे चाग्निस्थापनमारभत् ॥११०॥स्वस्थाने ब्राह्मणांश्चैव जाप्ये चैव न्ययोजयत् ॥श्रीसूक्तं पावमानं च सदा चैव च वाजिनम् ॥१११॥वृषाकपिं तथैन्द्रं च बह्वृचः पूर्वतोऽजपन् ॥रुद्रान्पुरुषसूक्तं च क्रोकाध्यायं(?) च वैक्रियम् ॥११२॥ब्राह्मणं पैत्र्यमैंद्रं च जपेरन्यजुषो यमे(?) ॥देवव्रतं वामदेव्यं ज्येष्ठं साम रथंतरम् ॥११३॥भेरुंडानि च सामानि च्छंदोगः पश्चिमेऽजपत् ॥अथर्वाथर्वशिरसं स्कम्भस्तंभमथर्वणम् ॥११४॥नीलरुद्रमथर्वाणमथर्वा चोत्तरेऽजपत् ॥गर्भाधानादिकं सर्वं ततोऽग्नेरकरोद्विभुः ॥११५॥पूर्णाहुतिं ततो दत्त्वा स्नानकर्म तथाऽरभत् ॥पंचपल्लवसंयुक्तं मृत्तिकाभिः समन्वितम् ॥११६॥कषायैः पंचगव्यैश्च पंचामृतफलैस्तथा ॥तीर्थोदकैः समेतं तु मंत्रैः स्नानमथारभत् ॥११७॥नेत्राण्युत्पाद्य देवस्य कृत्वा च तिलकक्रियाम् ॥पृथिव्यां यानि तीर्थानि पाताले च विशेषतः ॥११८॥स्वर्ग लोके च यान्येव तत्र तान्याययुस्तदा ॥एतस्मिन्नन्तरे ब्रह्मा देवानां पश्यतां तदा ॥११९॥भूमिं भित्त्वा विवेशाथ तत्र लिंगमपश्यत ॥स्पर्शाख्यं तं तु संछाद्य मधुना दर्भमूलकैः ॥१२०॥तत्र ब्रह्मशिलां न्यस्य तस्या ऊर्ध्वं महाप्रभम् ॥लिंगं प्रतिष्ठयामास कृत्वा निश्चलमा त्मवान् ॥१२१॥स्थित्वा च परमे तत्त्वे मंत्रन्यासमथाकरोत् ॥एवं लिंगं प्रतिष्ठाप्य तत्र ब्रह्मा जगद्गुरुः ॥पूजयामास विधिना वेदोक्तैर्मंत्र विस्तरैः ॥१२२॥मन्त्रन्यासे कृते तत्र ब्रह्मणा लोककर्तॄणा ॥तत्र विप्रगणो हृष्टो जयशब्दादिमंगलैः ॥निर्धूमश्चाभवद्वह्निः सूर्यकोटिसमप्रभः ॥१२३॥देवदुन्दुभयो नेदुः प्रसन्नाश्च दिगीश्वराः ॥पुष्पवृष्टिः पपातोच्चैस्तस्मिन्यज्ञमहोत्सवे ॥१२४॥प्रतिष्ठाप्य ततो लिंगं श्रीसोमेशं पितामहः ॥दापयामास विप्रेभ्यो भूरिशो यज्ञदक्षिणाम् ॥१२५॥सनत्कुमारप्रमुखैराद्यैर्ब्रह्मर्षिभिर्वृतः ॥दक्षिणामददात्सोमस्त्रीँल्लोकान्ब्रह्मणे पुरा ॥१२६॥तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यस्तथैव च ॥ददौ हिरण्यं रत्नानि कोटिशो भूरिदक्षिणाः ॥१२७॥सोभिषिक्तो महातेजाः सर्वैर्ब्रह्मर्षिभिस्ततः ॥त्रीँल्लोकान्भावयामास स्वभासा भासतां वरः ॥१२८॥तं सिनी च कुहूश्चैव द्युतिः पुष्टिः प्रभा वसुः॥कीर्त्तिर्धृतिश्च लक्ष्मीश्च नव देव्यः सिषेविरे ॥१२९॥प्राप्यावभृथमव्यग्रः कृत्वा माहेश्वरं मखम् ॥कृतार्थः परिपूर्णश्च संबभूव निशापतिः ॥१३०॥ततस्तस्मै ददौ राज्यं प्राज्यं ब्रह्मा पितामहः ॥बीजौषधीनां विप्राणामवन्नानां च वरानने ॥१३१॥तस्मिन्यज्ञे समाजग्मुर्ये केचित्पृथिवीश्वराः ॥तेषां राज्यं धनं भोगान्ददौ स्वर्गं तथाऽक्षयम् ॥१३२॥ब्राह्मणान्भोजयामास स्वयमेवौषधीपतिः ॥ददौ सर्वं तदा तेषां प्रभासक्षेत्रवासिनाम् ॥। ॥। १३३॥हिरण्यादीन्यदाच्चैव महादानानि षोडश ॥यो यदर्थयते तत्र सामान्यः प्राकृतो जनः॥निजकर्मानुसारेण स लेभे च तदेव हि ॥१३४॥एवं समर्थिते यज्ञे सर्वे देवाः सवासवाः ॥स्थापयित्वा तु लिंगानि जग्मुः सर्वे यथागतम् ॥१३६॥चन्द्रमास्तु पुनर्देवि ब्रह्मणा सहितो विभुः ॥लिंगमाराधयामास प्रभासे पापनाशने ॥१३६॥त्रिकालं पूजयामास धूपमाल्यानुलेपनैः ॥तं प्रणम्य च देवेशि स्तौति नित्यं निशापतिः ॥ ॥१३७॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सोमेश्वरप्रतिष्ठामाहात्म्यवर्णनंनाम त्रयोविंशोऽध्यायः ॥२३॥छ ॥ N/A References : N/A Last Updated : January 07, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP