संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ७३

प्रभासक्षेत्र माहात्म्यम् - अध्याय ७३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि कुमारेश्वरमुत्तमम् ॥
लिंगं महाप्रभावं हि महापातकनाशनम् ॥१॥
धनुषां त्रिंशता देवि वरुणान्नैऋते स्थितम् ॥
गौरीतपोवनाद्देवि दक्षिण स्थानसंस्थितम् ॥२॥
षण्मुखेन महादेवि तत्र कृत्वा महत्तपः ॥
प्रतिष्ठितं महालिंगं कुमारेशस्ततोऽभवत् ॥३॥
यस्तं पूजयते भक्त्या मासमेकं निरन्तरम् ॥
षण्मासस्यार्चनेनैव यत्पुण्यमुपजायते ॥४॥
तत्पुण्यं सकलं तस्य कुमारेशार्चनात्सकृत् ॥
लभते दिवसैकेन विधिना यदि पूजयेत् ॥५॥
कामं क्रोधं तथा लोभं रागं त्यक्त्वा तु मत्सरम् ॥
ब्रह्मचारी यतिर्भूत्वा सकृदप्येनमर्चयेत् ॥६॥
एवं संपूजिते देवि सम्यग्यात्रा फलं लभेत् ॥७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये कुमारेश्वरमाहात्म्यवर्णनं नाम त्रिसप्ततितमोऽध्यायः ॥७३॥

N/A

References : N/A
Last Updated : January 08, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP