संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय १०३

प्रभासक्षेत्र माहात्म्यम् - अध्याय १०३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेद्वरारोहे कपालेश्वरमुत्तमम् ॥
तस्या उत्तरदिग्भागे सुरगंधर्वपूजितम् ॥१॥
पुरा यज्ञे वर्त्तमाने दक्षराजस्य धीमतः ॥
उपविष्टेषु विप्रेषु हूयमाने हुताशने ॥२॥
जाल्मरूपधरो भूत्वा शंकरस्तत्र चागतः ॥२७॥
जीर्णकंथान्वितो देवि मलवान्धूलिधूसरः ॥३॥
अथ ते ब्राह्मणाः क्रुद्धा दृष्ट्वा तं जाल्मरूपिणम् ॥
कपालधारिणं सर्वे धिक्छब्दैस्तं जगर्हिरे ॥४॥
असकृत्पापपापेति गच्छगच्छ नराधम ॥
यज्ञवेदिर्न चार्हा हि मानुषास्थिधरस्य ते ॥५॥
अथ प्रहस्य भगवान्यज्ञवेद्यां सुरेश्वरि ॥
क्षिप्त्वा कपालं नष्टोऽसौ न स ज्ञातो मनीषिभिः ॥६॥
तस्मिन्नष्टे कपालं तत्क्षिप्तं मंडपबाह्यतः ॥
अथान्यत्तत्र संजातं तद्रूपं च वरानने ॥७॥
क्षिप्तंक्षिप्तं पुनस्तत्र जायते च महीतले ॥
एवं शतसहस्राणि प्रयुतान्यर्बुदानि च ॥८॥
तत्र क्षिप्तानि जातानि ततस्ते विस्मयान्विताः ॥
अथोचुर्मुनयः सर्वे निर्विण्णाश्चास्य चेष्टितम् ॥९॥
कोऽन्यो देवान्महादेवाद्गंगाक्षालितशेखरात् ॥
समर्थ ईदृशं कर्त्तुमस्मिन्यज्ञे विशेषतः ॥१०॥
ततस्ते वि विधैः स्तोत्रैः स्तुवंतो वृषभध्वजम् ॥
होमं चक्रुर्मुहुर्वह्नौ मंत्रैस्तैः शतरुद्रियैः ॥११॥
ततः प्रत्यक्षतां प्राप्तस्तेषां देवो महेश्वरः ॥
ततस्ते विविधैः स्तोत्रैस्तुष्टुवुः शूलपाणिनम्॥
वेदोक्तमंत्रैर्विविधैः पुराणोक्तैस्तथैव च ॥१२॥
 ॥ऋषय ऊचुः॥
ॐ नमो मूलप्रकृतये अजिताय महात्मने ॥
अनावृताय देवाय निःस्पृहाय नमोनमः ॥१३॥
नम आद्याय बीजाय आर्षेयाय प्रवर्त्तिने ॥
अनंतराय चैकाय अव्यक्ताय नमोनमः॥। १४॥
नानाविचित्रभुजगांगदभूषणाय सर्वेश्वराय विरजाय नमो वराय ॥
विश्वात्मने परमकारणकारणाय फुल्लारविंदविपुलायतलोचनाय ॥ ॥१५॥
अदृश्यमव्यक्तमनादिमव्ययं यदक्षरं ब्रह्म वदंति सर्वगम् ॥
निशाम्य यं मृत्युमुखात्प्रमुच्यते तमादिदेवं शरणं प्रपद्ये ॥१६॥
एवं स्तुतस्तदा सर्वैर्ऋषिभिर्गतकल्मषैः ॥
ततस्तुष्टो महादेवस्तेषां प्रत्यक्षतां गतः ॥
अब्रवीत्तानृषीन्देवो वृणुध्वं वरमुत्तमम् ॥१७॥
 ॥ब्राह्मणा ऊचुः॥
यदि तुष्टोऽसि नो देव स्थानेऽस्मिन्निरतो भव ॥
असंख्यातानि यस्माच्च कपालानि सुरेश्वर ॥१८॥
पुनः पुनः प्रवृत्तानि व्यपनीतान्यपि प्रभो ॥
अस्मिन्नसंशयं स्थाने कपालेश्वरनामभृत् ॥१९॥
स्वयं तु लिंगं देवेश तिष्ठेन्मन्वंतरांतरम् ॥
कपालेश्वरनाम्ना त्वमस्मिन्स्थाने स्थितिं कुरु ॥२०॥
येत्र त्वां पूजयिष्यंति धूपमाल्यानुलेपनैः ॥
तेषां तु परमं स्थानं यद्देवैरपि दुर्लभम् ॥२१॥
बाढमित्येवमुक्त्वाऽसौ स्थित स्तत्रमहेश्वरः ॥
पुनः प्रवर्तितो यज्ञो निशानाथस्य भामिनि ॥२२॥
तस्मिन्दृष्टे लभेन्मर्त्यो वाजिमेधफलं प्रिये ॥
मुच्यते पातकैः सर्वैः पूर्व जन्मार्ज्जितैरपि ॥२३॥
इदं माहात्म्यमखिलमभूत्स्वायंभुवांतरे ॥
वैवस्वते पुनश्चान्यद्दक्षयज्ञविनाशकृत् ॥२४॥
कपालीति महेशानो दक्षेणोक्तः पुरा हरः ॥
तेन यज्ञस्य विध्वंसं कपाली तमथाकरोत् ॥
कपालेश्वरनामेति स्थितोस्मिन्मानवान्तरे ॥२५॥
अथास्य नाम देवस्य सूर्य सावर्णिकेंऽतरे ॥
भविष्यति वरारोहे नाम तत्त्वेश्वरेति च ॥२६॥
इति संक्षेपतः प्रोक्तं माहात्म्यं रुद्रदैवतम्॥
पापघ्नं सर्वजंतूनां पशुपाशविमोक्षणम् ॥२७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मध्ययात्रायां कपालेश्वरमाहात्म्यवर्णनंनाम त्र्यधिकशततमोऽध्यायः ॥१०३॥

N/A

References : N/A
Last Updated : January 09, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP