संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय २४९

प्रभासक्षेत्र माहात्म्यम् - अध्याय २४९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि देवं वै संगमेश्वरम् ॥
गोलक्षमिति विख्यातं सर्वपातकनाशनम् । १॥
तस्यैव पश्चिमे भागे सर्वकामफलप्रदम् ॥
ऋषिरुद्दालकोनाम पुरा ह्यासीन्महातपाः ॥२॥
स पुरा संगमं प्राप्य सर्वपापप्रणाशनम् ॥
सरस्वत्याश्च पिंगायास्तपस्तेपे सुरेश्वरि ॥३॥
ततस्तपस्यतस्तस्य तपो रौद्रं महात्मनः ॥
पुरतो ह्युत्थितं लिंगं भक्त्या युक्तस्य सुन्दरि ॥४॥
एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥
उद्दालक महाबाहो शृणुष्वैतद्वचो मम ॥५॥
अद्यप्रभृति वासोऽत्र मम नित्यं भविष्यति ॥
यस्मादत्र समुत्पन्नं संगमे लिंगमुत्तमम् ॥
संगमेश्वरमित्येव नाम चास्य भवि ष्यति ॥६॥
येत्र स्नानं नराः कृत्वा संगमे लोकविश्रुते ॥
संगमेश्वरमीक्षन्ते ते यांति परमां गतिम् ॥७॥
 ॥ईश्वर उवाच॥
ततस्तं पूजयामास दिवारात्रमतंद्रितः ॥
ततो देहावसानेऽसौ गतो यत्र महेश्वरः ॥८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे ,प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये संगमेश्वरमाहात्म्यवर्णनंनामैकोनपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥२४९॥

N/A

References : N/A
Last Updated : January 12, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP