संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्| अध्याय २ प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ अध्याय २८० अध्याय २८१ अध्याय २८२ अध्याय २८३ अध्याय २८४ अध्याय २८५ अध्याय २८६ अध्याय २८७ अध्याय २८८ अध्याय २८९ अध्याय २९० अध्याय २९१ अध्याय २९२ अध्याय २९३ अध्याय २९४ अध्याय २९५ अध्याय २९६ अध्याय २९७ अध्याय २९८ अध्याय २९९ अध्याय ३०० अध्याय ३०१ अध्याय ३०२ अध्याय ३०३ अध्याय ३०४ अध्याय ३०५ अध्याय ३०६ अध्याय ३०७ अध्याय ३०८ अध्याय ३०९ अध्याय ३१० अध्याय ३११ अध्याय ३१२ अध्याय ३१३ अध्याय ३१४ अध्याय ३१५ अध्याय ३१६ अध्याय ३१७ अध्याय ३१८ अध्याय ३१९ अध्याय ३२० अध्याय ३२१ अध्याय ३२२ अध्याय ३२३ अध्याय ३२४ अध्याय ३२५ अध्याय ३२६ अध्याय ३२७ अध्याय ३२८ अध्याय ३२९ अध्याय ३३० अध्याय ३३१ अध्याय ३३२ अध्याय ३३३ अध्याय ३३४ अध्याय ३३५ अध्याय ३३६ अध्याय ३३७ अध्याय ३३८ अध्याय ३३९ अध्याय ३४० अध्याय ३४१ अध्याय ३४२ अध्याय ३४३ अध्याय ३४४ अध्याय ३४५ अध्याय ३४६ अध्याय ३४७ अध्याय ३४८ अध्याय ३४९ अध्याय ३५० अध्याय ३५१ अध्याय ३५२ अध्याय ३५३ अध्याय ३५४ अध्याय ३५५ अध्याय ३५६ अध्याय ३५७ अध्याय ३५८ अध्याय ३५९ अध्याय ३६० अध्याय ३६१ अध्याय ३६२ अध्याय ३६३ अध्याय ३६४ अध्याय ३६५ अध्याय ३६६ विषयानुक्रमणिका प्रभासक्षेत्र माहात्म्यम् - अध्याय २ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २ Translation - भाषांतर ॥ऋषय ऊचुः॥कथाया लक्षणं ब्रूहि गुणदोषान्सविस्तरान् ॥आर्षेयपौरुषेयाणां काव्यचिह्नपरीक्षणम् ॥कथं ज्ञेयं महाबुद्धे श्रोतुमिच्छामहे वयम् ॥१॥ ॥सूत उवाच॥अथ संक्षेपतो वक्ष्ये पुराणानामनुक्रमम् ॥लक्षणं चैव संख्यां च उक्तभेदांस्तथैव च ॥२॥पुरा तपश्चचारोग्रममराणां पितामहः ॥आविर्भूतास्ततो वेदाः सषडंगपदक्रमाः ॥३॥ततः पुराणमखिलं सर्वशास्त्रमयं ध्रुवम् ॥नित्यशब्दमयं पुण्यं शत कोटिप्रविस्तरम् ॥४॥निर्गतं ब्रह्मणो वक्त्राद्ब्राह्मं वैष्णवमेव च ॥शैवं भागवतं चैव भविष्यं नारदीयकम् ॥५॥मार्कण्डेयमथाग्नेयं ब्रह्मवैवर्तमेव च ॥लैङ्गं तथा च वाराहं स्कांदं वामनमेव च ॥६॥कौर्म्यं मात्स्यं गारुडं च वायवीयमनन्तरम् ॥अष्टादशं समुद्दिष्टं सर्वपातकनाशनम् ॥७॥एकमेव पुरा ह्यासीद्ब्रह्माण्डं शतकोटिधा ॥८॥ततोऽष्टादशधा कृत्वा वेदव्यासो युगेयुगे ॥प्रख्यापयति लोकेऽस्मिन्साक्षान्नारायणांशजः ॥९॥अन्यान्युपपुराणानि मुनिना कथितानि तु ॥तानि वः कथयिष्यामि संक्षेपादवधार्यताम् ॥१०॥आद्यं सनत्कुमारोक्तं नारसिंहमतः परम् ॥तृतीयं स्कान्दमुद्दिष्टं कुमारेणानुभाषितम् ॥११॥चतुर्थं शिवधर्माख्यं साक्षान्नन्दीशभाषितम्॥दुर्वाससोक्तमाश्चर्य्यं नारदोक्तमतः परम् ॥१२॥कापिलं मानवं चैव तथैवोशनसेरितम्॥ब्रह्माण्डं वारुणं चान्यत्कालिकाह्वयमेव च ॥१३॥माहेश्वरं तथा सांबं सौरं सर्वार्थसंचयम्॥।पराशरोक्तं परमं मारीचं भार्गवाह्वयम् ॥१४॥एतान्युपपुराणानि कथितानि द्विजोत्तमाः ॥१५॥ ॥ऋषय ऊचुः॥पुराणसंख्यामाचक्ष्व सूत विस्तरशः क्रमात्॥दानधर्ममशेषज्ञ यथावदनुपूर्वशः ॥१६॥ ॥सूत उवाच॥इदमेव पुराणेऽस्मिन्पुराणपुरुषस्तदा ॥यदुक्तवान्स विश्वात्मा मनवे तन्निबोधत ॥१७॥पुराणं सर्वशास्त्राणां ब्रह्माण्डं प्रथमं स्मृतम् ॥अनन्तरं च वक्त्रेभ्यो वेदास्तस्य विनिर्गताः ॥१८॥पुराणमेकमेवासीत्तस्मिन्कल्पान्तरेतथा॥त्रिवर्गसाधनं पुण्यं शतकोटिप्रविस्तरम् ॥१९॥विनिर्दग्धेषु लोकेषु कृष्णेनानन्तरूपिणा ॥साङ्गांश्च चतुरो वेदान्पुराणन्यायविस्तरम् ॥२०॥।मीमांसां धर्मशास्त्रं च परिगृह्यात्मसात्कृतम् ॥मत्स्यरूपेण च पुनः कल्पादावुदकार्णवे ॥२१॥अशेषमेव कथितं ब्रह्मणे दिव्यचक्षुषे ॥ब्रह्मा जगाद च मुनींस्त्रिकालज्ञानदर्शनः ॥२२॥प्रवृत्तिः सर्वशास्त्राणां पुराणस्याभवत्ततः ॥२३॥ततः कालक्रमेणासौ व्यासरूपधरो हरिः ॥अष्टादशपुराणानि संक्षेप्स्यति युगेयुगे ॥२४॥चतुर्लक्षप्रमाणानि द्वापरेद्वापरे सदा ॥तदाष्टादशधा कृष्णा भूर्लोकेऽस्मिन्प्रभाषते ॥२५॥अद्याऽपि देवलोके तु शतकोटिप्रविस्तरम् ॥तदर्थोऽत्र चतुर्लक्षः संक्षेपेण निवेशितः ॥२६॥पुराणानि दशाष्टौ च सांप्रतं तदिहोच्यते॥नामतस्तानि वक्ष्यामि संख्यां च मुनिसत्तमाः ॥२७॥ब्रह्मणाऽभिहितं पूर्वं यावन्मात्रं मरीचये ॥ब्राह्मं तद्दशसाहस्रं पुराणं तदिहोच्यते ॥२८॥लिखित्वा तच्च यो दद्याज्जलधेनुसमन्वितम् ॥वैशाख्यां पौर्णमास्यां च ब्रह्मलोके महीयते ॥२९॥एतदेव यदा पद्ममभूद्धैरण्मयं जगत् ॥तद्वृत्तांताश्रयांतं तत्पाद्ममित्युच्यते बुधैः ॥३०॥पाद्मं तत्पञ्चपञ्चाशत्सहस्राणीह पठ्यते ॥तत्पुराणं च यो दद्यात्सुवर्णकमलान्वितम् ॥ज्येष्ठे मासि तिलैर्युक्तं सोऽश्वमेधफलं लभेत् ॥३१॥वाराहकल्पवृत्तान्तमधिकृत्य परात्परः ॥यत्राह धर्मानखिलांस्तदुक्तं वैष्णवं विदुः ॥३२॥चरितैरञ्चितं विष्णोस्तल्लोके वैष्णवं विदुः ॥त्रयोविंशतिसाहस्रं पुराणं तत्प्रकीर्तितम् ॥३३॥तदाषाढे च यो दद्याद्घृतधेनुसमन्वितम् ॥पौर्णमास्यां विशुद्धायां सं पदं याति वैष्णवम् ॥३४॥श्रुतकल्पप्रसङ्गेन धर्मान्वायुरथाब्रवीत् ॥यत्र तद्वायवीयं स्याद्रुद्रमाहात्म्यसंयुतम् ॥३५॥चतुर्विंशतिसाहस्रं नाना वृत्तान्तसंयुतम् ॥धर्मार्थकाममोक्षैश्च साधुवृत्तसमन्वितम् ॥३६॥श्रावण्यां श्रावणे मासि गुडधेनुसमन्वितम् ॥यो दद्याद्दधिसंयुक्तं ब्राह्मणाय कुटुम्बिने ॥शिवलोके स पूतात्मा कल्पमेकं वसेन्नरः ॥३७॥पुनः संजायते मर्त्यो ब्राह्मणो वेदवित्तमः ॥वेदविद्यार्थतत्त्वज्ञो व्याख्यातत्त्वार्थवित्तमः ॥३८॥यत्राधिकृत्य गायत्रीं वर्ण्यते धर्मविस्तरः ॥वृत्रासुरवधोपेतं तद्भागवतमुच्यते ॥३९॥सारस्वतस्य कल्पस्य मध्ये ये स्युर्नरामराः॥तद्वृत्तान्तोद्भवं पुण्यं पुण्योद्वाहसमन्वितम् ॥४०॥लिखित्वा तच्च यो दद्याद्धेमसिंहसमन्वितम् ॥पौर्णमास्यां प्रौष्ठपद्यां स याति परमां गतिम्॥४१॥अष्टादशसहस्राणि पुराणं तत्प्रकीर्तितम्॥४२॥यत्राह नारदो धर्मान्बृहत्कल्पाश्रयांस्त्विह ॥पञ्चविंशत्सहस्राणि नारदीयं तदुच्यते ॥४३॥तदिषे पञ्चदश्यां तु यो दद्याद्धेनुसंयुतम्॥उत्तमां सिद्धिमाप्नोति इह लोके परत्र च॥सर्वान्कामानवाप्नोति नात्र कार्या विचारणा ॥४४॥यत्राधिकृत्य शकुनीन्धर्माधर्मविचारणम् ॥पुराणं नवसाहस्रं मार्कण्डेयं तदुच्यते ॥४५॥परिलिख्य च यो दद्यात्सौवर्णकरिसंयुतम् ॥कार्तिक्यां पौण्डरीकस्य यज्ञस्य फलभाग्भवेत् ॥४६॥यत्तदीशानकल्पस्य वृत्तान्तमधिकृत्य च ॥वशिष्ठायाऽग्निना प्रोक्तमाग्नेयं तत्प्रचक्षते ॥४७॥लिखित्वा तच्च यो दद्याद्धेमपद्मसमन्वितम् ॥मार्गशीर्षे विधानेन तिलधेनुयुतं तथा ॥तच्च षोडशसाहस्रं सर्वक्रतुफलप्रदम् ॥४८॥यत्राधिकृत्य माहात्म्यमादित्यस्य चतुर्मुखः ॥अघोरकल्पवृत्तान्तप्रसंगेन जगत्पतिः ॥मनवे कथयामास भूतग्रामस्य लक्षणम् ॥४९॥चतुर्दशसहस्राणि तथा पञ्चशतानि च ॥भविष्यचरितप्रायं भविष्यं तदिहोच्यते ॥५०॥तत्पौषमासि यो दद्यात्पौर्णमास्यां विमत्सरः ॥गुडकुम्भसमायुक्तमग्निष्टोमफलं लभेत् ॥५१॥रथंतरस्य कल्पस्य वृत्तान्तमधिकृत्य च ॥सावर्णिना नारदाय कृष्णमाहात्म्यसंयुतम् ॥प्रोक्तं ब्रह्मवराहस्य चरितं वर्ण्यतेऽत्र च ॥५२॥तदष्टादशसाहस्रं ब्रह्मवैवर्तमुच्यते ॥पुराणं ब्रह्मवैवर्तं यो दद्याद्ब्राह्मणोत्तमे ॥माघमासे पौर्णमास्यां ब्रह्मलोके महीयते ॥५३॥यत्राग्निलिङ्गमध्यस्थः प्राह देवो महेश्वरः ॥धर्मार्थकाममोक्षार्थानाग्नेयमधिकृत्य च ॥५४॥कल्पं तल्लैङ्गमित्युक्तं पुराणं ब्रह्मणा स्वयम् ॥५५॥तदेकादशसाहस्रं फाल्गुन्यां यः प्रयच्छति ॥तिलधेनुसमायुक्तं स याति शिवसात्म्यताम् ॥५६॥महावराहस्य पुनर्माहात्म्यमधिकृत्य च ॥विष्णुनाऽभिहितं क्षोण्यै तद्वाराहमिहोच्यते ॥५७॥मानवस्य प्रसंगेन धन्यस्य मुनिसत्तमाः ॥चतुर्विंशत्सहस्राणि तत्पुराणमिहोच्यते ॥५८॥काञ्चनं गरुडं कृत्वा तिलधेनुसमन्वितम्॥पौर्णमास्यामथो दद्याद्ब्राह्मणाय कुटुम्बिने॥वाराहस्यप्रसादेन पदमाप्नोति वैष्णवम्॥५९॥यत्र माहेश्वरान्धर्मानधिकृत्य च षण्मुखम् ॥कल्पे तत्पुरुषे वृत्ते चरितैरुपबृंहितम् ॥६॥।स्कांदं नाम पुराणं तदेकाशीति निगद्यते॥सहस्राणि शतं चैकमिति मर्त्येषु पठ्यते॥६१॥परिलेख्य च यो दद्याद्धेमशूलसमन्वितम् ॥शैवं स पदमाप्नोति मकरोपगमे रवेः ॥६२॥त्रिविक्रमस्य माहात्म्यमधिकृत्य चतुर्मुखः ॥त्रिवर्गमभ्यधात्तत्तु वामनं परिकीर्तितम् ॥६३॥पुराणं दशसाहस्रं कौर्मकल्पानुगं शिवम् ॥६४॥यः शरद्विषुवे दद्याद्धेमवस्त्रसमन्वितम्॥क्षौमावृतं युतं धेन्वा स पदं याति वैष्णवम् ॥६५॥यच्च धर्मार्थकामानां मोक्षस्य च रसातले ॥माहात्म्यं कथयामास कूर्मरूपी जनार्दनः ॥६६॥इन्द्रद्युम्नप्रसंगेन ऋषीणां शक्रसन्निधौ ॥सप्तदशसहस्राणि लक्ष्मीकल्पानुषङ्गिकम् ॥६७॥यो दद्यादयने कौर्मं हेमकूर्मसमन्वितम्॥गोसहस्रप्रदानस्य स फलं प्राप्नुयान्नरः॥६८॥श्रुतीनां यत्र कल्पादौ प्रवृत्त्यर्थं जनार्दनः॥मत्स्यरूपी च मनवे नरसिंहोपवर्णनम् ॥६९॥अधिकृत्याब्रवीत्सप्तकल्पवृत्तं मुनिव्रताः॥।तन्मात्स्यमिति जानीध्वं सहस्राणि चतुदर्श ॥७०॥विषुवे हैममत्स्येन धेन्वा क्षौमयुगान्वितम् ॥यो दद्यात्पृथिवी तेन दत्ता भवति चाखिला॥७१॥यदा वा गरुडे कल्पे विश्वाण्डाद्गरुडोऽभवत् ॥अधिकृत्याब्रवीत्कृष्णो गारुडं तदिहोच्यते ॥७२॥तदष्टादश चैकं च सहस्राणीह पठ्यते ॥।स्वर्णहंससमायुक्तं यो दद्यादयने परे ॥स सिद्धिं लभते मुख्यां शिवलोके च संस्थितिम् ॥७३॥ब्रह्मा ब्रह्माण्डमाहात्म्यमधिकृत्याब्रवीत्पुनः ॥तच्च द्वादशसाहस्रं ब्रह्माण्डं द्विशताधिकम् ॥७४॥भविष्याणां च कल्पानां श्रूयते यत्र विस्तरः ॥तद्ब्रह्माण्डं पुराणं तु ब्रह्मणा समुदाहृतम् ॥७९॥यो दद्यात्तु व्यतीपात ऊर्णायुगसमन्वितम् ॥राजसूयसहस्रस्य फलमाप्नोति मानवः ॥७६॥हेमधेन्वायुतं तच्च ब्रह्मलोकफलप्रदम्॥चतुर्लक्षमिदं प्रोक्तं व्यासेनाद्भुतकर्मणा ॥७७॥इदं लोकहितार्थाय संक्षिप्तं द्वापरे द्विजाः ॥७८॥इदमद्यापि देवेषु शतकोटिप्रविस्तरम् ॥उपभेदान्प्रवक्ष्यामि लोके ये संप्रतिष्ठिताः ॥७९॥पाद्मे पुराणे यत्प्रोक्तं नारसिंहोपवर्णनम् ॥तच्चाष्टादशसाहस्रं नारसिंहमिहोच्यते ॥८०॥नन्दिने यत्र माहात्म्यं कार्तिकेयेन वर्णितम् ॥लोके नन्दिपुराणं वै ख्यातमेतद्द्विजोत्तमाः ॥८१॥यत्र साम्बं पुरस्कृत्य भविष्यति कथानकम् ॥प्रोच्यते तत्पुनर्लोके सांबमेव मुनिव्रताः ॥८२॥एवमादित्यसंज्ञं तु तत्रैव परिपठ्यते ॥अष्टादशभ्यस्तु पृथक्पुराणं यच्च दृश्यते ॥विजानीध्वं द्विजश्रेष्ठास्तदेतेभ्यो विनिर्गतम् ॥८३॥पञ्चाङ्गानि पुराणस्य चाख्यानमितरत्स्मृतम् ॥सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ॥वंशानुवंशचरितं पुराणं पञ्चलक्षणम् ॥८४॥ब्रह्मविष्ण्वर्करुद्राणां माहात्म्यं भुवनस्य च ॥संहारश्च प्रदृश्येत पुराणं पञ्चलक्षणम् ॥८५॥धर्मश्चार्थश्च कामश्च मोक्षश्च परिकीर्त्यते ॥सर्वेष्वपि पुराणेषु तद्विरूढे च यत्फलम् ॥८६॥सात्विकेषु च कल्पेषु माहात्म्यमधिकं हरेः ॥राजसेषु च माहात्म्यमधिकं ब्रह्मणो विदुः ॥८७॥तद्वदग्रे च माहात्म्यं तामसेषु शिवस्य हि ॥संकीर्णे च सरस्वत्याः पितॄणां च निगद्यते ॥८८॥चतुर्भिर्भगवान्विष्णुर्द्वाभ्यां ब्रह्मा तथा रविः ॥अष्टादशपुराणेषु शेषेषु भगवाञ्छिवः ॥८९॥वेदवन्निश्चलं मन्ये पुराणं वै द्विजोत्तमाः ॥वेदाः प्रतिष्ठिताः सर्वे पुराणे नात्र संशयः ॥९०॥बिभेत्यल्पश्रुताद्वेदो मामयं चालयिष्यति ॥इतिहासपुराणैस्तु निश्चलोऽयं कृतः पुरा ॥९१॥यन्न दृष्टं हि वेदेषु न दृष्टं स्मृतिषु द्विजाः ॥उभयोर्यत्र दृष्टं च तत्पुराणेषु गीयते ॥९२॥यो वेद चतुरो वेदान्सांगोपनिषदो द्विजः ॥पुराणं नैव जानाति न च स स्याद्विचक्षणः ॥९३॥अष्टादशपुराणानि कृत्वा सत्यवतीसुतः ॥भारताख्यानमकरोद्वेदार्थैरुपबृंहितम् ॥९४॥लक्षेणैकेन तत्प्रोक्तं द्वापरान्ते महात्मना ॥वाल्मीकिना च यत्प्रोक्तं रामोपाख्यानमुत्तमम् ॥९५॥ब्रह्मणा विहितं यच्च शतकोटिप्रविस्तरम्॥आह तन्नारदायैव तेन वाल्मीकये पुनः ॥९६॥वाल्मीकिना च लोके तु धर्मकामार्थसाधकम् ॥९७॥एवं सपादाः पञ्चैते लक्षाः पुण्याः प्रकीर्तिताः ॥पुरातनस्य कल्पस्य पुराणे तु विदुर्बुधाः ॥९८॥इतिहासपुराणानि भिद्यन्ते काल गौरवात् ॥स्कान्दं तथा च ब्रह्माण्डं पुराणं लैङ्गमेव च ॥९९॥वाराहकल्पे विप्रेन्द्रास्तेषां भेदः प्रवर्तते ॥अष्टादशप्रकारेण ब्रह्माण्डं भिन्नमेव हि ॥१००॥अष्टादशपुराणानि तेन जातानि भूतले ॥लैङ्गमेकादशविधं प्रभिन्नं द्वापरे शुभम् ॥१०१॥स्कान्दं तु सप्तधा भिन्नं वेद व्यासेनधीमता ॥एकाशीतिसहस्राणि शतं चैकं तु संख्यया ॥१०२॥तस्याऽऽद्यो यो विभागस्तु स्कन्दमाहात्म्यसंयुतः ॥माहेश्वरः समाख्यातो द्वितीयो वैष्णवः स्मृतः ॥१०३॥तृतीयो ब्रह्मणः प्रोक्तः सृष्टिसंक्षेपसूचकः ॥काशीमाहात्म्यसंयुक्तश्चतुर्थः परिपठ्यते ॥१०४॥रेवायाः पञ्चमो भागः सोज्जयिन्याः प्रकीर्तितः ॥षष्ठः कल्पो नागरश्च तीर्थमाहात्म्यसूचकः ॥१०५॥सप्तमो यो विभागोऽयं स्मृतः प्राभासिको द्विजाः॥सर्वे द्वादशसाहस्रा विभागाः संप्रकीर्तिताः ॥१०६॥अस्मिन्प्राभासिकः सर्वो वर्ण्यते क्षेत्रविस्तरः ॥तीर्थानां चैव माहात्म्यं माहात्म्यं शंकरस्य च ॥१०७॥अन्येषां चैव देवानां माहात्म्यं च प्रकीर्त्यते ॥इति भेदः पुराणानां संक्षेपात्कथितो द्विजाः ॥१०८॥इममष्टादशानां तु पुराणानामनुक्रमम्॥यः पठेद्धव्यकव्येषु स याति भवनं हरेः ॥१०९॥इदं पवित्रं हि यशोनिधानमिदं पितॄणामपि वल्लभं च॥इदं च देवेष्वमृताय नित्यमिदं महापातकहृच्च पुंसाम् ॥११॥।इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये ससंख्याकाष्टादशमहापुराणोपपुराणवर्णनपूर्वक पुराणपुस्तकदानफलवर्णनं नाम द्वितीयोऽध्यायः ॥२॥ N/A References : N/A Last Updated : January 07, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP