संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय १२६

प्रभासक्षेत्र माहात्म्यम् - अध्याय १२६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि शांडिल्येश्वरमुत्तमम् ॥
ब्रह्मणः पश्चिमे भागे धनुषां षोडशांतरे ॥१॥
महाप्रभावं लिङ्गं तद्दर्शनात्पापनाशनम् ॥२॥
शांडिल्योनाम ब्रह्मर्षिः सारथिर्ब्रह्मणः स्मृतः ॥
तपस्वी स महातेजा ज्ञाननिष्ठो जितेन्द्रियः ॥३॥
स प्रभासं समासाद्य तपस्तेपे सुदारुणम् ॥
प्रतिष्ठाप्य महालिंगं सोमेशादुत्तरे स्थितम् ॥४॥
स स्वयं पूजयामास दिव्याब्दानां शतं प्रिये ॥
ततोऽभिलषितं प्राप्य कृतकृत्यो बभूव ह ॥५॥
नन्दीश्वरप्रसादेन अणिमादिगुणैर्युतः ॥
तं दृष्ट्वा तु नरः सद्यो विपापः संप्रजायते ॥६॥
बाल्ये वयसि यत्पापं वार्धक्ये यौवनेऽपि वा ॥
अज्ञानाज्ज्ञानतो वाऽपि यः करोति नरः प्रिये ॥
तत्सर्वं नाशमायाति शांडिल्येश्वरदर्शनात् ॥७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभास क्षेत्रमाहात्म्ये शाण्डिल्येश्वरमाहात्म्यवर्णनंनाम षड्विंशत्युत्तरशततमोऽध्यायः ॥१२६॥

N/A

References : N/A
Last Updated : January 10, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP