प्रभासक्षेत्र माहात्म्यम् - अध्याय २२३
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि लिंगं त्रैलोक्यपूजितम् ॥
गात्रोत्सर्गमिति ख्यातं तस्य दक्षिणतः स्थितम् ॥१॥
यत्र गात्रं परित्यक्तं बलभद्रेण धीमता ॥
अन्यैश्चैव महाभागैर्यादवैस्तत्र संयुगे ॥२॥
यत्र ते यादवाः क्षीणा ब्रह्मशापबलाहिना ॥
एतत्पुरुषोत्तमं क्षेत्रं समन्ताद्धनुषां शतम् ॥३॥
यत्र साक्षात्स्वयं देवि तिष्ठते पुरुषोत्तमः ॥
तदेव वैष्णवं क्षेत्रं कलौ पातकनाशनम् ॥४॥
रहस्यं परमं देवि तीर्थानां प्रवरं हि तत्॥
पूर्वं कृतयुगे देवि प्रेततीर्थं च संस्मृतम् ॥
कलौ युगे तु संप्राप्ते गात्रोत्सर्गमिति त्वभूत् ॥५॥
ऋणमोचनपार्श्वे तु मध्ये तु पापमोचनात्॥
एतन्मध्यं समाश्रित्य मृतः पापैर्विमुच्यते ॥६॥
तस्य किं वर्ण्यते देवि यत्रानन्तफलं महत् ॥
अथमेधसहस्रस्य फलं स्नात्वा ह्यवाप्यते ॥७॥
यत्राश्वत्थं समासाद्य समाधिन्यस्तमानसः ॥
मुमोच दुस्त्यजान्प्राणान्ब्रह्मद्वारेण केशवः ॥८॥
तत्र नारायणं साक्षाद्बलभद्रं च रुक्मिणीम् ॥
पूजयित्वा विधानेन मुच्यते पातकत्रयात् ॥९॥
तत्र स्नात्वा नरो भक्त्या यः संतर्पयते पितॄन् ॥
प्रेतत्वात्पितरो मुक्ता भवन्ति श्राद्धदायिनः ॥१०॥।
गोघ्नः सुरापो दुर्मेधा ब्रह्महा गुरुतल्पगः ॥
तत्र स्नात्वा नरः सद्यो विपापः संप्रपद्यते ॥११॥
बाल्ये वयसि यत्पापं वार्द्धके यौवनेऽपि वा ॥
अज्ञानाज्ज्ञानतो वापि यः करोति नरः प्रिये ॥
तत्र स्नात्वा प्रमुच्येत तीर्थे गात्रप्रमोचने ॥१२॥
तत्र पिण्डप्रदानेन पितॄणां जायते परा ॥
तृप्तिर्वर्षशतं यावदेतदाह पुरा हरिः ॥१३॥
यः पुनश्चान्नदानं तु तत्र कुर्यात्समाहितः ॥
तस्यान्वयेऽपि देवेशि न प्रेतो जायते नरः ॥१४॥
॥श्रीदेव्युवाच॥
प्रेततीर्थमिति प्रोक्तं पश्चाद्गात्रविमोचनम् ॥
वद मे देवदेवेश प्रेततीर्थस्य कारणम् ॥१९॥
॥ईश्वर उवाच॥
शृणु देवि प्रवक्ष्यामि प्रेततीर्थस्य कारणम्॥
यच्छ्रुत्वा मानवो भक्त्या मुक्तः स्यात्सर्वकिल्बिषैः ॥१६॥
पुराऽऽसीद्गौतमोनाम महर्षिः शंसितव्रतः ॥
भृगुकल्पात्समायातः क्षेत्रे प्राभासिके शुभे ॥१७॥
अयने चोत्तरे पुण्ये श्रीसोमेशदिदृक्षया ॥
दृष्ट्वा सोमेश्वरं देवं स्नात्वा तीर्थेषु कृत्स्नशः ॥१८॥
स गच्छंस्तीर्थयात्रायां गात्रोत्सर्गं ततो गतः ॥१९॥
अथासौ ब्राह्मणो देवि यावत्सीमामुपागतः ॥
तावद्विष्णुप्रियं तत्र ददृशे वैष्णवं वनम् ॥२०॥
पुरुषोत्तमनामाढ्यं क्षेत्रं च धनुषां शतम् ॥
तस्मिन्क्षेत्रे स चापश्यत्पंच प्रेतान्सुदारुणान् ॥२१॥
महावृक्षसमारूढान्महाकायान्महोत्कटान्॥
ऊर्ध्वकेशाञ्छंकुकर्णान्स्नायुनद्धकलेवरान् ॥२२॥
विमांसरुधिरान्नग्नानथ कृष्णकलेवरान् ॥
दृष्ट्वाऽसौ भयसंत्रस्तो विनष्टोऽस्मीत्यचिन्तयत् ॥२३॥
ध्यात्वाऽऽह सुचिरं कालं धैर्यमास्थाय यत्नतः ॥
के यूयं विकृताकारा दृष्टाः पूर्वं मया पुरा ॥२४॥
न कदाचिद्यथा यूयं किमर्थं क्षेत्रमध्यतः ॥
धावमानाः सुदुःखार्ता एतन्मे कौतुकं महत् ॥२५॥
॥प्रेता ऊचुः॥
वयं प्रेता महाभाग दूरादिह समागताः ॥
श्रुत्वा तीर्थवरं पुण्यं प्रवेशं न लभामहे ॥२६॥
गणैरंतर्धानगतैः प्रहारैर्जर्जरीकृताः ॥
लेखको रोहकश्चैव सूचकः शीघ्रगस्तथा ॥२७॥
अहं पर्युषितोनाम पञ्चमः पापकृत्तमः ॥२८॥
॥गौतम उवाच॥
प्रेतयोनौ प्रवृत्तानां केन नामानि कृत्स्नशः ॥
युष्माकं निर्मितान्येवमेतन्मे कौतुकं महत् ॥२९॥
॥प्रेता ऊचुः॥
याचमानस्य विप्रस्य लिखत्येष धरातले ॥
नोत्तरं पठते किञ्चित्तेनासौ लेखकः स्मृतः ॥३०॥
द्वितीयो ब्राह्मणभयात्प्रासादमधिरोहति ॥
ततोऽसौ रोहकाख्योऽभूच्छृणु विप्र तृतीयकम् ॥३१॥
सूचिता बहवोऽनेन ब्राह्मणा वित्तसंयुताः ।
राज्ञे पापेन तेनासौ सूचको भुवि विश्रुतः ॥३२॥
ब्राह्मणैः प्रार्थ्यमानस्तु शीघ्रं धावति नित्यशः ॥
न कदाचिद्ददाति स्म तेनासौ शीघ्रगः स्मृतः ॥३३॥
मया कदन्नं दत्तं च पर्युषितं ब्राह्मणोत्तमे ॥
ब्राह्मणेभ्यः सदा दानं मिष्टान्नेन तु पोषणम् ॥
तस्मात्पर्युषितोनाम संजातोऽहं धरातले ॥३४॥
॥गौतम उवाच॥
न विना भोजनेनैव वर्तन्ते प्राणिनो भुवि ॥
किमाहारा भवन्तो वै वदध्वं मम कौतुकात् ॥३५॥
॥प्रेता ऊचुः॥
प्राप्ते भोजनकाले तु यत्र युद्धं प्रवर्तते ॥
तस्यान्नस्य रसं सर्वं भुंजामो द्विजसत्तम ॥३६॥
नानुलिप्ते धरापृष्ठे यत्र भुंजन्ति मानवाः ॥
भ्रष्टशौचा द्विजश्रेष्ठ तदस्माकं तु भोजनम् ॥३७॥
अप्रक्षालितपादस्तु यो भुंक्ते दक्षिणामुखः ॥
यो वेष्टितशिरा भुंक्ते प्रेता भुंजन्ति नित्यशः ॥३८॥
श्राद्धं संपश्यते श्वा चेन्नारी चैव रजस्वला ॥
अन्त्यजः शूकरश्चान्नं तदस्माकं तु भोजनम् ॥३९॥
त्यक्त्वा क्रमागतं विप्रं पूजितं प्रपितामहैः ॥
यो दानं ददतेऽन्यस्मै तस्मै चाऽतुष्टचेतसा ॥४०॥
तस्य दानस्य यत्पुण्यं तदस्माकं प्रजायते ॥
यस्मिन्गृहे सदोच्छिष्टं सदा च कलहो भवेत् ॥
वैश्वदेवविहीने तु तत्र भुंजामहे वयम् ॥४१॥
॥गौतम उवाच॥
युष्माकं कीदृशे गेहे प्रवेशो न च विद्यते ॥
सत्यं वदत माऽसत्यं सत्यं साधुषु संगतम् ॥४२॥
॥प्रेता ऊचुः॥
वैश्वदेवोद्भवा यत्र धूमवर्तिः प्रदृश्यते ॥
तस्मिन्गेहे न चास्माकं प्रवेशो विद्यते द्विज ॥४३॥
यस्मिन्गृहे प्रभाते तु क्रियते चोपलेपनम् ॥
विद्यते वेद निर्घोषस्तत्रास्माकं न किंचन ॥४४॥
॥गौतम उवाच॥
केन कर्मविपाकेन प्रेतत्वं व्रजते नरः ॥
एतन्मे विस्तरेणैव यथावद्वक्तु मर्हथ ॥४५॥
॥प्रेता ऊचुः॥
मृषाऽपहारिणो ये च ये चोच्छिष्टा व्रजन्ति च ॥
गोब्राह्मणहताश्चैव प्रेतत्वं ते व्रजन्ति हि ॥४६॥
पैशुन्यनिरता ये च कूटसाक्ष्यरता नराः ॥
न्यायपक्षे न वर्तंते मृताः प्रेता भवंति ते ॥४७॥
श्लेष्ममूत्रपुरीषाणि ये क्षिपन्ति सरोवरे ॥
प्रेतत्वं ते समासाद्य विचरंति च मानवाः ॥४८॥
दीयमानं तु विप्राणां गोषु विप्रातुरेषु च ॥
मा देहीति प्रजल्पन्तस्ते च प्रेता भवंति च ॥४९॥
शूद्रान्नेनोदरस्थेन यदि विप्रो म्रियेत वै ॥
प्रेतत्वं यात्यसौ नूनं यद्यपि स्यात्षडंगवित् ॥५०॥
यस्त्रीन्हले बलीवर्दान्वाहयेन्मदसंयुतः ॥
अमावास्यां विशेषेण स प्रेतो जायते नरः ॥५१॥
नास्तिको निंदकः क्षुद्रो नित्यनैमित्त्यवर्जितः ॥
ब्राह्मणान्द्वेष्टि यो नूनं स प्रेतो जायते नरः ॥५२॥
विश्वासघातको यस्तु ब्रह्महा स्त्रीवधे रतः ॥
गोघ्नो गुरुघ्रः पितृहा स प्रेतो जायते नरः॥५३॥
यस्य नैव प्रदत्तानि एकोद्दिष्टानि षोडश ॥
मृतस्य न वृषोत्सर्गः स प्रेतो जायते नरः ॥५४॥
एतद्धि सर्वमाख्यातं यत्पृष्टाः स्म द्विजोत्तम ॥
भूयो ब्रूहि द्विजश्रेष्ठ यश्चास्ति तव संशयः ॥५५॥
॥गौतम उवाच॥
येन कर्मविपाकेनन प्रेतो जायते नरः ॥
तन्मे वदत निःशेषं कौतुकं मेऽत्र विद्यते ॥५६॥
॥प्रेता ऊचुः॥
तीर्थयात्रा रतो यस्तु देवार्चनपरायणः ॥
ब्राह्मणेषु सदा भक्तो न प्रेतो जायते नरः ॥५७॥
नित्यं शृणोति शास्त्राणि नित्यं सेवति पंडितान्॥
वृद्धांस्तु पृच्छते नित्यं न स प्रेतो विजायते ॥५८॥
एतस्मात्कारणात्प्राप्ता वयं सर्वे सुदूरतः ॥
शक्नुमो प्रवेष्टुं च पुण्येऽस्मिन्क्षेत्र उत्तमे ॥५९॥
निर्विण्णाः प्रेतरूपेण तस्मात्त्वं द्विजसत्तम ॥
गतिर्भव महाभाग सर्वेषां नः प्रयत्नतः ॥६०॥
॥गौतम उवाच॥
कथं वो जायते मोक्षो वदध्वं कृत्स्नशो मम ॥
कृपयाविष्टचित्तोऽहं यतिष्ये नात्र संशयः ॥६१॥
॥प्रेता ऊचुः॥
प्रभूतकालमस्माकं प्रेतत्वे तिष्ठतां विभो ॥
न त्वभ्येति पुमान्कश्चिदस्माकं यो गतिर्भवेत् ॥६२॥
तस्मात्त्वं देहि नः श्राद्धं गत्वा क्षेत्रं तु वैष्णवम्॥
नामगोत्राणि चादाय मोक्षं यास्यामहे ततः ॥६३॥॥
॥ईश्वर उवाच॥
ततोऽसौ ब्राह्मणो गत्वा दयाविष्टो हरेर्गृहम् ॥
श्राद्धं च प्रददौ तेषामेकैकस्य पृथक्पृथक् ॥६४॥
यस्ययस्य यदा श्राद्धं करोति द्विजसत्तमः ॥
स रात्रौ स्वप्न एत्यैनं दर्शने वाक्यमब्रवीत् ॥६५॥
प्रसादात्तव विप्रेन्द्र मुक्तोऽहं प्रेतयोनितः ॥
स्वस्ति तेऽस्तु गमिष्यामि विमानं मे ह्युपस्थितम् ॥६६॥
एवं संतारितास्तेन चत्वारस्ते द्विजोत्तमाः ॥६७॥
अथासौ ब्राह्मणश्रेष्ठः संप्राप्ते पञ्चमे दिने ॥
प्रददौ विधिपूर्वं तु श्राद्धं पर्युषितस्य च ॥६८॥
अथापश्यत स्वप्नान्ते प्राप्तं पर्युषितं नरम् ॥
दीनवाक्यं परिक्लिष्टं निःश्वसन्तं मुहुर्मुहुः ॥६९॥
॥पर्युषित उवाच॥
न मे जाता गतिर्विप्र मंदभाग्यस्य पापिनः ॥
मया हृतं तडागार्थं यद्वित्तं प्रगुणीकृतम् ॥७०॥
॥गौतम उवाच॥
कथं ते जायते मोक्षो वद शीघ्रमशेषतः ॥
करिष्ये नात्र संदेहो यद्यपि स्यात्सुदुर्लभम् ॥७१॥
॥पर्युषित उवाच॥।
अयने चोत्तरे प्राप्ते गत्वा तीर्थं हरिप्रियम् ॥
श्राद्धं त्वं देहि मे नूनं ततो गतिर्भविष्यति ॥७२॥
॥ईश्वर उवाच॥
एवमुक्तः स विप्रेन्द्रस्तेन प्रेतेन वै मुनिः ॥
अयने चोत्तरे प्राप्ते गत्वा तीर्थं हरिप्रियम् ॥
प्रददौ विधिवच्छ्राद्धं ततः पर्युषिताय च ॥७३॥
ततः पर्युषितो रात्रौ स्वप्नान्ते वाक्यमब्रवीत् ॥
प्रसन्नवदनो भूत्वा दिव्यमाल्यवपुर्धरः ॥७४॥
॥पर्युषित उवाच॥
मुक्तोऽहं त्वत्प्रसादेन प्रेतभावाद्द्विजोत्तम ॥
स्वस्ति तेऽस्तु गमिष्यामि विमानं मे ह्युपस्थितम् ॥७५॥
देवत्वं च मया प्राप्तं समर्थोऽहं द्विजोत्तम ॥
वरं ददामि ते विप्र गृहाण त्वं वरं शुभम् ॥७६॥
ब्रह्मघ्ने च सुरापे च चौरे भग्नव्रते तथा ॥
निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥७७॥
॥गौतम उवाच॥
यदि देयो वरोऽस्माकं समर्थोऽसि वरप्रद ॥
यत्र स्थाने मया दृष्टाः प्रेता यूयं सुदुःखिताः ॥
तत्राहं चाश्रमं कृत्वा करिष्ये चोत्तमं तपः ॥७८॥
निर्गतास्मि गृहं भूयो स्नात्वा तीर्थमिदं महत् ॥
तत्र यो भानवो भक्त्या पितॄनुद्दिश्य भक्तितः ॥७९॥
विधिवद्दास्यति श्राद्धं स्नात्वा संतर्प्य देवताः ॥
युष्मत्प्रसादतस्तस्य ह्यन्वयेऽपि कदाचन ॥
मा भूयात्प्रेतभावो हि अपि पापान्वितस्य भोः ॥८०॥
॥पर्युषित उवाच॥
गच्छ त्वं चाश्रमं तत्र कुरु ब्राह्मणसत्तम ॥
गमिष्यसि परां सिद्धिं लोके ख्यातिं गमिष्यसि ॥८१॥
तत्र ये मानवा भक्त्या श्राद्धं दास्यंति सत्तमाः ॥
पितॄणां ते विमानस्था यास्यंति त्रिदिवालयम् ॥८२॥
न तेषां वंशजः कश्चित्प्रेतत्वं च गमिष्यति ॥
प्राहुः सप्तपदीं मैत्रीं पंडिताः स्थिरबुद्धयः ॥८३॥
मित्रतां तु पुरस्कृत्य किं तद्वक्ष्यामि तच्छृणु ॥
तवाश्रमपदं पुण्यं भविष्यति महीतले ॥८४॥
सर्वपापप्रशमनं सर्वदुःखवि नाशनम् ॥
मन्नाम्ना ख्यातिमायातु प्रेततीर्थमिति प्रभो ॥८५॥
॥ईश्वर उवाच॥
तं तथेति प्रतिज्ञाय गतस्तत्र द्विजोत्तमः ॥
यथा वेदोक्तमार्गेंण सर्वं कृत्यं चकार सः ॥८६॥
सोऽपि स्वर्गमनुप्राप्तो हृष्टः पर्युषितः प्रिये ॥
एतत्सर्वं पुरावृत्तं स्थानेऽस्मिन्गात्रमोचने ॥८७॥
यः शृणोति नरः सम्यक्सर्वपापैः स मुच्यते ॥
शयनोत्थापने योगे यः पश्येत्पुरुषोत्तमम् ॥
गात्रोत्सर्गे तु गत्वाऽसौ यज्ञायुतफलं लभेत् ॥८८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पुरुषोत्तमतीर्थप्रेततीर्थमाहात्म्यवर्णनंनाम त्रयोविंशत्युत्तरद्विशततमोऽध्यायः ॥२२३॥
N/A
References : N/A
Last Updated : January 12, 2025

TOP