संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय १३२

प्रभासक्षेत्र माहात्म्यम् - अध्याय १३२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि वैष्णवीं शक्तिमुत्तमाम् ॥
सोमेशादीशदिग्भागे नातिदूरे व्यवस्थिताम् ॥१॥
सिद्धलक्ष्मीति विख्याता ह्यत्र पीठाधिदेवता ॥२॥
ब्रह्माण्डे प्रथमं पीठं यत्प्रभासं व्यवस्थितम् ॥
तत्र देवि महापीठे योगिन्यो भूचराः खगाः ॥
भैरवेण समे तास्तु क्रीडन्ते स्वेच्छया प्रिये ॥३॥
जालंधरं महापीठं कामरूपं तथैव च ॥
श्रीमद्रुद्रनृसिंहं च चतुर्थं पीठमुत्तमम् ॥४॥
रत्नवीर्यं महापीठं काश्मीरं पीठमेव च ॥
एतानि देवि पीठानि यो वेत्ति स च मन्त्रवित् ॥५॥
सर्वेषां चैव पीठानामाधारं पीठमुत्तमम् ॥
सौराष्ट्रे तु महादेवि नाम्ना ख्यातं महोदयम् ॥
कामरूपधरं ज्ञानं यत्राद्यापि प्रवर्तते ॥६॥
तत्र पीठे स्थिता देवी महालक्ष्मीति विश्रुता ॥
सर्वपापप्रशमनी सर्वकार्यशुभप्रदा ॥७॥
श्रीपञ्चम्यां नरो यस्तु पूजयेत्तां विधानतः ॥
गन्धपुष्पादिभिर्भक्त्या तस्यालक्ष्मीभयं कुतः ॥८॥
उत्तरां दिशमास्थाय महाल क्ष्म्यास्तु सन्निधौ॥
यो जपेन्मन्त्रराज्ञीं तां सिद्धलक्ष्मीति विश्रुताम् ॥९॥
लक्षजाप्यविधानेन दीक्षास्नानादिपूर्वकम् ॥
दशांशहोमसंयुक्तं त्रिमधु- श्रीफलेसुभिः ॥१०॥
एवं प्रत्यक्षतां याति तस्य लक्ष्मीर्न संशयः ॥
ददाति वांछितां सिद्धिमिह लोके परत्र च ॥११॥
तृतीयायामथा ष्टम्यां चतुर्दश्यां विधानतः ॥
यस्तां पूजयते भक्त्या तस्य सिद्धिः करे स्थिता ॥१२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सिद्धलक्ष्मीमाहात्म्यवर्णनंनाम द्वात्रिंशदुत्तरशततमोऽध्यायः ॥१३२॥

N/A

References : N/A
Last Updated : January 10, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP