संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ९

प्रभासक्षेत्र माहात्म्यम् - अध्याय ९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥देव्युवाच॥
दिव्यं तेजो नमस्यामि यन्मे दृष्टं पुरातने ॥
कालाग्निरुद्रमध्यस्थं प्रभासे शंकरोद्भवम् ॥१॥
यो वेदसंघैर्ऋषिभिः पुराणैर्वेदोक्तयोगैरपि इज्यमानः ॥
तं देवदेवं शरणं व्रजामि सोमेश्वरं पापविनाशहेतुम् ॥२॥
देवदेव जगन्नाथ भक्तानुग्रहकारक ॥
संशयो हृदि मे कश्चित्तं भवाञ्छेत्तुमर्हति ॥३॥
 ॥ईश्वर उवाच॥
कः संशयः समुत्पन्नस्तव देवि यशस्विनि ॥
तन्मे कथय कल्याणि तत्सर्वं कथयाम्यहम् ॥४॥
 ॥देव्युवाच॥
यदि त्वं च महादेवो मुण्डमाला कथं कृता ॥
अनादि निधनो धाता सृष्टिसंहारकारकः ॥५॥
ततो विहस्य देवेशः शंकरो वाक्यमब्रवीत् ॥
अनेकमुण्डकोटीभिर्या मे माला विराजते ॥६॥
नारायण सहस्राणां ब्रह्मणामयुतस्य च ॥कृता शिरःकरोटीभिरनादिनिधना ततः ॥७॥
अन्यो विष्णुश्च भवति अन्यो ब्रह्मा भवत्यपि ॥
कल्पे कल्पे मया सृष्टः कल्पे विष्णुः प्रजापतिः ॥८॥
अहमेवंविधो देवि क्षेत्रे प्राभासिके स्थितः ॥
कालाग्निलिंगमूले तु मुंडमालाविभूषितः ॥९॥
अक्षसूत्रधरः शान्त आदिमध्यांतवर्जितः ॥
पद्मासनस्थो वरदो हिमकुन्देन्दुसन्निभः ॥१०॥
मम वामे स्थितो विष्णुर्दक्षिणे च पितामहः ॥
जठरे चतुरो वेदाः हृदये ब्रह्म शाश्वतम् ॥११॥
अग्निः सोमश्च सूर्यश्च लोचनेषु व्यवस्थिताः ॥१२॥
एवंविधो महादेवि प्रभासे संव्यवस्थितः ॥
आप्यतत्त्वात्समानीते मा ते भूत्संशयः क्वचित् ॥१३॥
एवमुक्ता तदा देवी हर्षगद्गदया गिरा ॥
तुष्टाव देवदेवेशं भक्त्या परमया युता ॥१४॥॥
देव्युवाच ॥जय देव महादेव सर्वभावन ईश्वर ॥
नमस्तेऽस्तु सुरेशाय परमेशाय वै नमः ॥१५॥
अनादिसृष्टिकर्त्रे च नमः सर्वगताय च ॥
सर्वस्थाय नमस्तुभ्यं धाम्नां धाम्ने नमोऽस्तु ते ॥१६॥
षडंताय नमस्तुभ्यं द्वादशान्ताय ते नमः ॥
हंसभेद नमस्तुभ्यं नमस्तुभ्यं च मोक्षद ॥१७॥
इति स्तुतस्तदा देव्या प्रचलच्चन्द्रशेखरः ॥
ततस्तुष्टस्तु भगवानिदं वचनमब्रवीत् ॥१८॥॥
ईश्वर उवाच॥
साधुसाधु महाप्राज्ञे तुष्टोऽहं व्रियतां वरः ॥१९॥
 ॥देव्युवाच॥
यदि तुष्टोऽसि देवेश वरार्हा यदि वाप्यहम्॥
प्रभास क्षेत्रमाहात्म्यं पुनर्विस्तरतो वद ॥२०॥
भूतेश भगवान्विष्णुर्दैत्यानामन्तकाग्रणीः ॥
स कस्माद्द्वारकां हित्वा प्रभासक्षेत्रमाश्रितः ॥२१॥
षष्टि तीर्थसहस्राणि षष्टिकोटिशतानि च ॥
द्वारकामध्यसंस्थानि कथं न्यक्कृतवान्हरिः ॥२२॥
अमरैरावृतां पुण्यां पुण्यकृद्भिर्निषेविताम् ॥
एवं तां द्वारकां त्यक्त्वा प्रभासं कथमागतः ॥२३॥
देवमानुषयोर्नेता द्योभुवोः प्रभवो हरिः ॥
किमर्थं द्वारकां त्यक्त्वा प्रभासे निधनं गतः ॥२४॥
यश्चक्रं वर्त्तयत्येको मानुषाणां मनोमयम् ॥
प्रभासे स कथं कालं चक्रे चक्रभृतां वरः ॥२५॥
गोपायनं यः कुरुते जगतः सार्वलौकिकम् ॥
स कथं भगवान्विष्णुः प्रभासक्षेत्रमाश्रितः ॥२६॥
योंतकाले जलं पीत्वा कृत्वा तोयमयं वपुः ॥
लोकमेकार्णवं चक्रे दृष्ट्या दृष्टेन चात्मना ॥२७॥
स कथं पञ्चतां प्राप प्रभासे पार्वतीपते ॥
यः पुराणे पुराणात्मा वाराहं वपुरास्थितः ॥२८॥
उद्दधार महीं कृत्स्नां सशैलवनकाननाम्॥
स कथं त्यक्तवान्गात्रं प्रभासे पापनाशने ॥२९॥
येन सिंहं वपुः कृत्वा हिरण्यकशिपुर्हतः ॥
स कथं देवदेवेशः प्रभासं क्षेत्रमाश्रितः ॥३०॥
सहस्रचरणं देवं सहस्राक्षं महाप्रभम्॥
सहस्रशिरसं वेदा यमाहुर्वै युगेयुगे ॥३१॥
तत्याज स कथं देवः प्रभासे स्वं कलेवरम्॥
नाभ्यरण्यां समुद्भूतं यस्य पैतामहं गृहम् ॥३२॥
एकार्णवगते लोके तत्पंकजमपंकजम् ॥
येनोद्धृतं क्षणेनैव प्रभासस्थः स किं हरिः ॥३३॥
उत्तरांशे समुद्रस्य क्षीरोदस्या मृतोदधेः ॥
यः शेते शाश्वतं योगमास्थाय परवीरहा ॥
स कथं त्यक्तवान्देहं प्रभासे परमेश्वरः ॥३४॥
हव्यादान्यः सुरांश्चक्रे कव्यादांश्च पितॄ नपि ॥
स कथं देवदेवेशः प्रभासं क्षेत्रमाश्रितः ॥३५॥
युगानुरूपं यः कृत्वा रूपं लोकहिताय वै ॥
धर्ममुद्धरते देवः स कथं क्षेत्रमाश्रितः ॥३६॥
त्रयो वर्णास्त्रयो लोकास्त्रैविद्यं पाठकास्त्रयः॥
त्रैकाल्यं त्रीणि कर्माणि त्रयो देवास्त्रयो गुणाः॥
सृष्टं येन पुरा देवः स कथं क्षेत्रमाश्रितः ॥३७॥
या गतिर्द्धर्मयुक्तानामगतिः पापकर्मिणाम्॥
चातुर्वर्ण्यस्य प्रभवश्चातुर्वर्ण्यस्य रक्षिता ॥३८॥
चातुर्विद्यस्य यो वेत्ता चातुराश्रम्यसंस्थितः॥
कस्मात्स द्वारकां हित्वा प्रभासे पंचतां गतः ॥३९॥
दिगंतरं नभोभूमिरापो वायुर्विभावसुः॥
चंद्रसूर्यद्वयं ज्योतिर्युगेशः क्षणदातनुः ॥४०॥।
यः परं श्रूयते ज्योतिर्यः परं श्रूयते तपः॥
यः परं परतः प्रोक्तः परं यः परमात्मवान्॥४१॥
आदित्यादिश्च यो दिव्यो यश्च दैत्यांतको विभुः॥
स कथं देवकीसूनुः प्रभासे सिद्धिमीयिवान् ॥४२॥
युगांते चांतको यश्च यश्च लोकांतकांतकः ॥
सेतुर्यो लोकसत्तानां मेध्यो यो मेध्यकर्मणाम् ॥४३॥
वेत्ता यो वेदविदुषां प्रभुर्यः प्रभवात्मनाम्॥
सोमभूतस्तु भूतानामग्निभूतोऽग्निवर्त्मनाम् ॥४४॥
मनुष्याणां मनोभूतस्तपोभूतस्तपस्विनाम् ॥
विनयो नयभूतानां तेजस्तेजस्विनामपि ॥४५॥
विग्रहो विग्रहाणां यो गतिर्गतिमतामपि ॥
स कथं द्वारकां हित्वा प्रभासक्षेत्रमाश्रितः॥४६॥
आकाशप्रभवो वायुर्वायुप्राणो हुताशनः॥
देवा हुताशनप्राणाः प्राणोऽग्नेर्मधुसूदनः ॥
सकथं पद्मजप्राणः प्रभासं क्षेत्रमाश्रितः ॥४७॥
 ॥सूत उवाच॥
इति प्रोक्तस्तदा देव्या शंकरो लोकशंकरः ॥
उवाच प्रहसन्वाक्यं पार्वतीं द्विजसत्तमाः ॥४८॥
 ॥ईश्वर उवाच॥
शृणु देवि प्रवक्ष्यामि प्रभासक्षेत्रविस्तरम् ॥
रहस्यं सर्वपापघ्नं देवानामपि दुर्ल्लभम् ॥४९॥
देवि क्षेत्राण्यनेकानि पृथिव्यां संति भामिनि ॥
तीर्थानि कोटिसंख्यानि प्रभावस्तेषु संख्यया ॥५०॥
असंख्येय प्रभावं हि प्रभासं परिकीर्तितम् ॥
ब्रह्मतत्त्वं विष्णुतत्त्वं रौद्रतत्त्वं तथैव च ॥५१॥
तत्र भूयः समायोगो दुर्ल्लभोऽन्येषु पार्वति॥
प्रभासे देवदेवेशि तत्त्वानां त्रितयं स्थितम् ॥५२॥
चतुर्विंशतितत्त्वैश्च ब्रह्मा लोकपितामहः ॥
बालरूपी च नाम्नां च तत्र स्थाने स्थितः स्वयम् ॥५३॥
पंचविशतितत्त्वानाम धिपो देवताग्रणीः ॥
तस्मिन्स्थाने स्थितः साक्षाद्दैत्यानामंतकः शुभे ॥५४॥
अहं देवि त्वया सार्द्धं षट्त्रिंशत्तत्त्वसंयुतः ॥
निवसामि महाभागे प्रभासे पापनाशने ॥५५॥
एवं तत्त्वमयं क्षेत्रं सर्वतीर्थमयं शुभम् ॥
प्रभासमेव जानीहि मा कार्षीः संशयं क्वचित् ॥५६॥
अपि कीटपतंगा ये म्रियंते तत्र ये नराः ॥
तेऽपि यांति परं स्थानं नात्र कार्या विचारणा ॥५७॥
स्त्रियो म्लेच्छाश्च शूद्राश्च पशवः पक्षिणो मृगाः॥
प्रभासे तु मृता देवि शिवलोकं व्रजंति ते ॥५८॥
कामक्रोधेन ये बद्धा लोभेन च वशीकृताः ॥
अज्ञानतिमिराक्रांता मायातत्त्वे च संस्थिताः ॥५९॥
कालपाशेन ये बद्धास्तृष्णाजालेन मोहिताः ॥
अधर्मनिरता ये च ये च तिष्ठंति पापिनः ॥६०॥
ब्रह्मघ्नाश्च कृतघ्नाश्च ये चान्ये गुरुतल्पगाः ॥
महापातकिनश्चापि ते यान्ति परमां गतिम् ॥६१॥
मातृहंता नरो यस्तु पितृहंता तथैव च ॥
ते सर्वे मुक्तिमायांति किं पुनः शुभकारिणः ॥६२॥
इति ज्ञात्वा महादेवि दैत्यानामंतको हरिः॥
प्रभासक्षेत्रमासाद्य त्यक्तवान्स्वं कलेवरम्॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये प्रभासक्षेत्रे श्रीहरिस्थितिप्रश्नवर्णनं नाम नवमोऽध्यायः ॥९॥

N/A

References : N/A
Last Updated : January 07, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP