संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय २९८

प्रभासक्षेत्र माहात्म्यम् - अध्याय २९८

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


ईश्वर उवाच॥
ऋषितोयापश्चिमे तु तत्र गव्यूतिमात्रतः ॥
संगालेश्वरनामास्ति सर्वपातकनाशनः ॥१॥
गुप्तस्तत्र प्रयागश्च देवो वै माधवस्तथा ॥
जाह्नवी यमुना चैव देवी तत्र सरस्वती ॥२॥
अन्यानि तत्र तीर्थानि बहूनि च वरानने ॥
स्नात्वा दृष्ट्वा पूजयित्वा मुक्तः स्यात्सर्वकिल्बिषैः ॥३॥
 ॥पार्वत्युवाच॥
कथय त्वं महेशान सर्वदेवनमस्कृत ॥
तीर्थराजः प्रयागस्तु कथं विष्णुः सनातनः ॥४॥
कथं गंगा च यमुना तथा देवी सरस्वती ॥
अन्यान्यपि बहून्येव तीर्थानि वृषभध्वज ॥५॥
समायातानि तत्रैव संगालेश्वरसंनिधौ ॥
संगालेशेति किं नाम ह्येतन्मे वद कौतुकम् ॥६॥
 ॥ईश्वर उवाच॥
पुरा वै लिंगपतने सर्वदेवसमागमे ॥
सार्धत्रितयकोटीनि पुण्यानि सुरसुन्दरि ॥७॥
तीर्थानि तीर्थराजोऽयं प्रयागः समुपस्थितः ॥
आत्मानं गोपयामास तीर्थकोटिभिरावृतम् ॥८॥
ततस्तत्र समायाता ब्रह्मविष्णुपुरोगमाः ॥
विबुधास्तीर्थराजं तं ददृशुर्दिव्यचक्षुषा ॥९॥
तीर्थकोटिभिराकीर्णं पवित्रं पापनाशनम् ॥
लिंगस्य पतनं श्रुत्वा महादुःखेन संवृताः ॥१०॥
स्थिताः सर्वे तदा देवि ब्रह्माद्याः सुरसत्तमाः ॥११॥
एतस्मिन्नेव काले तु देवो रुद्रः सनातनः ॥
निरानंदः समायातो वाक्यमेतदुवाच ह ॥१२॥
शृणुध्वं वचनं देवा ब्रह्मविष्णुपुरोगमाः ॥
ऋषिशापान्निपतितं मम लिंगमनुत्तमम् ॥
तस्माल्लिंगं पूजयत सर्व कामार्थसिद्धये ॥१३॥
एवमुक्त्वा महादेवो देशे तस्मिन्स्थितः प्रिये ॥
ब्राह्मं च वैष्णवं रौद्रं तत्र कुण्डत्रयं स्मृतम् ॥१४॥
चतुर्थं त्रिसंगमाख्यं नदीनां यत्र संगमः ॥
गंगायाश्च सरस्वत्याः सूर्यपुत्र्यास्तथैव च ॥१५॥
कोटिरेका च तीर्थानां ब्रह्मकुण्डे व्यवस्थिता ॥
तथा च वैष्णवे कुण्डे कोटिरेका प्रकीर्तिता ॥१६॥
सार्धकोटिस्तु संप्रोक्ता शिवकुण्डे प्रकीर्तिता ॥
पश्चिमे ब्रह्मकुण्डं च पूर्वे वै वैष्णवं स्मृतम् ॥१७॥
मध्यभागे स्थितं यच्च रुद्रकुण्डं प्रकीर्तितम् ॥
कुण्डमध्याद्विनिर्गत्य यत्र गंगा वरानने ॥१८॥
सूर्यपुत्र्या समेता च तत्त्रिसंगम उच्यते ॥
अनयोरंतरे सूक्ष्मे तत्र गुप्ता सरस्वती ॥१९॥
एषु सन्निहितो नित्यं प्रयागस्तीर्थनायकः ॥
अत्रागत्य नरो यस्तु माघमासे वरानने ॥२०॥
स्नायात्प्रभातसमये मकरस्थे रवौ प्रिये ॥
किञ्चिदभ्युदिते सूर्ये शृणु तस्य च यत्फलम् ॥२१॥
आद्येनैकेन स्नानेन पापं यन्मनसा कृतम्॥
व्यपोहति नरः सम्यक्छ्रद्धायुक्तो जितेन्द्रियः ॥२२॥
वाचिकं तु द्वितीयेन कायिकं तु तृतीयकात् ॥
संसर्गजं चतुर्थेन रहस्यं पञ्चमेन तु ॥२३॥
उपपातकानि षष्ठेन स्नानेनैव व्यपोहति ॥२४॥
अभिषेकेण कुण्डानां सप्तकृत्वो वरानने॥
महांति चैव पापानि क्षाल्यंते पुरुषैः सदा ॥२५॥
यः स्नाति सकलं मासं प्रयागे गुप्तसंज्ञके ॥
ब्रह्मादिभिर्न तद्वक्तुं शक्यते कल्पकोटिभिः ॥२६॥
यानि कानि च तीर्थानि प्रभासे संति भामिनि ॥
तेभ्योऽतिवल्लभं तीर्थं सर्वपापप्रणाशनम् ॥२७॥
एषां संरक्षणार्थाय मया वै तत्र मातरः ॥
पूजनीयाः प्रयत्नेन नैवेद्यैर्विविधैः शुभैः ॥२८॥
कृष्णपक्षे चतुर्दश्यां श्रद्धायुक्तेन चेतसा ॥
तासामनुचरा देवि भूतप्रेताश्च कोटिशः ॥२९॥
तेषां भयविनाशाय ता मातॄश्च प्रपूजयेत् ॥
अस्मिंस्तीर्थे नरः स्नात्वा ब्रह्महत्यां व्यपोहति ॥३०॥
यः कश्चित्कुरुते श्राद्धं पितॄनुद्दिश्य भक्तितः ॥
उद्धरेच्च पितुर्वर्गं मातुर्वर्गं नरोत्तमः ॥३१॥
वृषभस्तत्र दातव्यः सम्यग्यात्राफलेप्सुभिः ॥
एवं यः कुरुते यात्रां तस्य फलमनन्तकम् ॥३२॥
एवं गुप्तप्रयागस्य माहात्म्यं कथितं तव ॥
श्रुत्वाभिनन्द्य पुरुषः प्राप्नुयाच्छंकरालयम् ॥३३॥
इति श्रीस्कांदेमहापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गुप्तप्रया गमाहात्म्यवर्णनंनामाष्टनवत्युत्तरद्विशततमोऽध्यायः ॥२९८॥

N/A

References : N/A
Last Updated : January 13, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP