संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
विषयानुक्रमणिका

प्रभासक्षेत्र माहात्म्यम् - विषयानुक्रमणिका

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


अथ प्रभासखण्डे प्रथमं प्रभासक्षेत्रमाहात्म्यम् ॥ ( ७-१) ॥

विषयानुक्रमणिका

१ मंगलाचरणम् , सूतशौनकसंवादप्रसंगवर्णनम् , कथाश्रवणेऽधिकार्यनधिकारिवर्गवर्ण- नम्, शौनकादिभिः सूतं प्रति प्रश्नकरणम् ॥

२ कथालक्षणं कथागुणदोषवर्णनं च, आर्षपौरुषेयकाव्यचिह्नपरीक्षणवर्णनम्, अष्टाद- शपुराणनामानुक्रमवर्णनम्, उपपुराणनामानुक्रमवर्णनम्, महापुराणस्थश्लोकसं- ख्यावर्णनम्, अष्टादशमहापुराणपुस्तकदानविधिमाहात्म्यवर्णनम् ॥

३ कैलासपर्वतवर्णनम्, तत्र शिवसभावर्णनपूर्वकशिवसिंहासनवर्णनम्, ततो देव्या शिवस्तवनम् , शिवपार्वतीसंवादः, ततः श्रीशिवेन पार्वतीं प्रति विभूतियोग- वर्णनम् , ततस्तीर्थमाहात्म्यवर्णनम् , तत्र विशेषतः प्रभासक्षेत्रमाहात्म्यवर्णनम्, प्रभासक्षेत्रस्थतीर्थमाहात्म्यश्रवणेच्छया पार्वत्या शंकरं प्रति प्रश्नकरणम्. ॥

४ पार्वतीपृष्टेन शंकरेण पार्वत्यै प्रभासक्षेत्रसीमाक्षेत्रप्रमाणक्षेत्रमहत्त्वप्रमाणकथनम्,
प्रभासक्षेत्रयात्रानुक्रमवर्णनम्, माहेश्वरवैष्णवब्राह्माख्यभेदत्रयेण यात्रावर्णनम्, तत्र त्रिशक्तीनामपि वर्णनम्, मृत्युंजयादिजपफलवर्णनम् , प्रभासक्षेत्रे निवसतां महापापिनामपि मोक्षप्राप्तिवर्णनम, प्रभासक्षेत्ररक्षाणकारिणां शैवगणानां माहा- त्म्यवर्णनम् ॥

5 मरीच्यादिमहर्षीणा देवानां देवर्षीणां सर्वतीर्थानां गंगादिपुण्यसरितां च प्रभासक्षेत्रे वास्तव्यवर्णनम्, प्रभासक्षेत्रे पिण्डदानप्रशंसायाः समासेन वर्णनम्, प्रभास- क्षेत्रे नानाविधदानमाहात्म्यवर्णनम्, क्षेत्रस्थर्षिदेवगणवर्णनम् ॥

६ सोमेश्वरमाहात्म्यवर्णने सोमेशस्य पञ्चवक्त्रादिचिह्नितस्वरूपवर्णनम्, सोमेशस्तवनम्, पूर्वाह्णाद्यष्टकालेषु .भिन्नत्वेन सोमेशस्यर्गादिमयत्वेन वास्तवस्वरूपवर्णनम्, सोमेशमाहात्म्यवर्णनम् ॥

७ सोमेशोत्पत्तिवर्णने सप्तमे ब्रह्मणि वतर्माने समुत्पन्नस्य लिंगस्य सोमनाथेतिलिंगनाम्नि कथिते पार्वतीवचनाच्छंकरेण तत्कालीनानां सर्वेषां ब्रह्मप्रजापतीनां नामतोऽनुक्र मेण वर्णनम्, तथैव सोमेशस्य तत्प्रसंगे भिन्नत्वेन नामवर्णनम्, शंकरेण पार्वतीं प्रति प्रतिकल्पसंभूतावतारवर्णनपूर्वक तत्तत्कल्पगतपार्वतीनामनिर्देशकथनम्, ततः शतानन्दाख्ये सप्तमे ब्रह्मणि चन्द्रेण शिवमाराध्य प्रभासे शिवतो वरं लब्ध्वा स्वनाम्ना सोमेश्वरलिंगस्थापनम्, प्रभासस्थलस्थितिविस्तारकथनम्, तत्र देविका- न्यंकुमती क्षेत्रपीठ गर्भगृह गोमुखाश्वमेधकादि शिवगृहस्थानवर्णनम्, सोमेशस्यासमंततः सर्वतीर्थानां माहात्म्यवर्णनम् , सोमनाथप्रादुर्भाववृत्तान्तवर्णनम् ॥

८ पुनः सोमेशमाहात्म्यकथने सोमेशलिंगत ऋद्ध्याद्यष्टसिद्धीनां गारुडादिमन्त्रविद्या नामुत्पत्तिवर्णनम्, अस्य सोमेशस्याराधनेन मुक्तिं गतानां गुण्डमुण्डादीनां यथा- नुक्रमेण वर्णनम्, सोमेश्वरैश्वर्यवर्णनम् ॥

९ शिवेन स्वेन मुण्डमालाधारणस्य कारणकथनम्, ब्रह्मविष्ण्वादीनां प्रतिकल्पे मत्तो जननमिति शिवेन कथनम्, कोटिकल्पे व्यतीतेऽपि शिवस्य प्रभासाख्यपुण्य क्षेत्रे नित्यत्वेन वासकरणम्, तच्छिववचः श्रुत्वा विस्मितया देव्या शिवस्तवन करणम्, तत्स्तवनेन संतुष्टेन शिवेन प्रभासक्षेत्रस्थानां लिंगानां साद्यन्तं माहात्म्यं कथयिष्यामि इति पार्वत्यै वरदानम् , पार्वत्या विष्णोर्मत्स्यादिदशावतारविषयक प्रश्नकरणम्, ततः शंकरेण प्रभासे ब्रह्मादीनामावासवर्णनम्, हरिस्थितिवर्णनम् ॥

१० पञ्चमहाभूतेषु पञ्चदेवतानां स्थानवर्णनम्, छागलण्डादिप्रभासक्षेत्रस्थविष्णुदेव ताकेश्वरलिंगतीर्थानामनुक्रमेण वर्णनम्, प्रभासस्थानेकलिंगतीर्थमाहात्म्यवर्णनम्, प्रभासक्षेत्रस्य सर्वक्षेत्रोत्तमत्ववर्णनम् ॥

११ जम्बूद्वीपवर्णने तदासमन्तादष्टकुलपर्वतानां वर्णनम्, जम्बूद्वीपविस्तारसीमा-
नवधाभेदाख्यानवर्णनम्, तत्र भारतवर्षस्य कर्मपुण्यभूमित्वेन श्रेष्ठत्ववर्णनम्, कूर्मरूपेण स्थितस्य भारतस्योपरि नक्षत्रग्रहविन्यासवर्णनम्, भारतस्य नवमे प्राभासिकाख्ये द्विशतयोजनपरिमिते भागे शिवावासवणर्नम्, प्रभासक्षेत्र- चिह्नानां वर्णनम्, प्रभासक्षेत्रस्य व्युत्पत्तिबलादीश्वरपरशब्दार्थकरणम्, तत्स्था- नस्य प्रभासेति नामकरणे हेतुवर्णनम् , तत्र आदिक्षेत्रमाहात्म्यवर्णनम्, स्वायंभुवे मनौ वर्तमाने भगवतः सूर्यस्य कान्त्या सह ब्रह्मणो लोचनादुत्पत्तिवर्णनम्, सूर्य- भूमिसंगमाज्जलस्योत्पत्तिवर्णनम्, ततः सस्यानामुत्पत्तिस्ततो मनुष्यादीनामुत्पत्ति- स्ततः स्वाहास्वधाकारैस्तृप्तैर्देवैरोषधीनां समुत्पादनम्, मरीच्यादिब्राह्मणानां हिर- ण्यकशिप्वादिदैत्यानां चोत्पत्तिवर्णनम्, हिरण्यकशिपोः सकाशात्प्रह्लादस्य जन- नम्, प्रह्लादपुत्रस्य विरोचनस्य भगिन्यां विश्वकर्मणः सकाशात्सुरेणुनामककन्याया उत्पत्तिवर्णनम् , सूर्यतेजोऽसहमानया संज्ञया छायायाः सूर्यसमीपे स्थापनानंतरं तपोऽर्थं गमनम्, रविदर्शनेन सुरेण्वा नेत्रनिमीलने कृते क्रुद्धेन सूर्येण सुरेणु- नाम्न्यै पत्न्यै शापदानम्, ततः सुरेणोः स्वपितुर्गृहे गमनम्, ततः स्वागमनका- रणकथनोत्तरं पित्राज्ञया पुनः सुरेण्वाः सूर्यसमीपे गमनम्, ततो यमयमुनाशनैश्चर-श्राद्धदेवानामुत्पत्तिवर्णनम्, केनचित्कारणान्तरेण स्वश्वश्रूं शप्तुं सूर्यस्य विश्व- कर्मगृहे आगमनम्, विश्वकर्मणा सूर्यस्य सानन्दमातिथ्यादिकं विधाय सांत्वन- करणम्, ततो विश्वकर्मणा सूर्यं प्रार्थ्य तस्य तेजशातनं कर्तुं समारंभे क्रियमाणे सप्तर्षिभिः सूर्यस्य स्तवकरणम्, विश्वकर्मणा सूर्यस्तोत्रकरणम्, हाहाहूहूनारदतुं- बर्वादिभिर्गायनकरणम् , मेनकाद्यप्सरोभिः सूर्यस्य स्तोत्ररूपेण गायनारंभकरणम्, नानाविधवाद्यवादनम्, तपः कर्तुं गतायां वडवारूपधारिण्यां संज्ञायां घोटक- रूपधारिणः सूर्यादश्ववक्त्रयोरश्विनीकुमारयोर्जन्मवर्णनम्, राजभट्टारिकोत्पत्ति- वर्णनं च ॥

१२ यमस्योत्पत्तिवर्णनम्, मात्रा शप्तस्य पंगुत्वं गतस्य यमस्य प्रभासक्षेत्रे गमनम्, तत्र शिवमाराध्य शिवप्रसादेन पंगुत्वं निरस्य शिवाज्ञया तत्र लिंगस्थापनम्, यमे- श्वरलिंगमाहात्म्यवर्णनम् ॥

१३ शाकद्वीपे भ्रमिस्थस्य रवेर्विश्वकर्मणा तक्षणे कृते सत्यनन्तरं विभावसोर्हिरण्यगर्भ- नाम्ना भूम्यामवतरणम्, कृतत्रेताद्वापरकलिषु सूर्यसवितृभास्करार्कस्थलेति नामभिस्तस्य प्रसिद्धिः, अर्कमाहात्म्यवर्णनप्रसङ्गेन अर्कपत्रभक्षणनिषेधकथनम्, अर्कस्थलतीर्थे महिष्यादिदानमाहात्म्यवर्णनम्, प्रभासपवित्रनामकरणार्कस्थलोत्पत्तिवृत्तान्तवर्णनम् ॥

१४ अर्कस्थलपूजनमन्त्रकथनपूर्वकपूजनकालादिवर्णनम्, सिद्धेश्वर जैगीषव्येश्वर माहाम्यकथने जैगीषव्यस्य प्रभासे तपःकरणम् , निराहारादिकृच्छ्रचान्द्रायणादीनि विदधतस्तस्य दीर्घतपसा तुष्टेन स्थाणुना तस्मै जैगीषव्याय ज्ञानयोगप्रापकवर- प्रदानम्, जैगीषव्येश्वरसिद्धेश्वरलिंगयोर्जैगीषव्येन स्थापनाकरणम्, जैगीषव्येश्वर-सिद्धेश्वरमाहात्म्यवर्णनम् ॥

१५ पापनाशनोत्पत्तिमाहात्म्यवर्णनम् ॥

१६ पातालस्थितै राक्षसैस्तेजसा ग्रस्त त्रैलोक्यं दृष्ट्वा प्रभाकरेण भगवच्चिन्तनं कृत्वा क्रोधाध्मातेन चक्षुषा दृष्टानां राक्षसानां भूमावाकाशतः पतनम्, ततस्तेषां राक्षसानां पाताले गमनम्, ततस्तत्पातालबिलद्वारे लिंगस्थापनम् , त्रिसंगमे स्नानदानफलमाहात्म्यवर्णनम् , तस्य श्रीमुखद्वारेतिनाम्ना प्रसिद्धिकरणम्, पातालविवरसुनन्दादिमातृगणोत्पत्तिवर्णनम्, सुनन्दादीनां पूजाविधानमाहात्म्यकथनम् ॥

१७ अथार्कस्थलपूजाविधिकथनम् , तत्रादित्यस्य त्रयीमयत्ववर्णनम्, प्रथमं दन्तधावने ग्राह्याग्राह्यकाष्ठनिर्णयः, दन्तधावनप्रकारकथनम्, मुखशुद्धिमकृत्वा भास्करस्पर्शन-दर्शनेन कुष्ठत्वप्राप्तिवर्णनम् , अर्कस्थले स्नानादिविधानकथनम्, सूर्यस्य महा-मन्त्रकथनपूर्वकं जपफलकथनम्, उदुत्यमित्युपस्थानकथनम्, अग्निंदूतमाकृष्णेनेत्यादिभिः षोडशोपचारैरादित्यार्चाविधानकथनम् , समन्ततः शृंगपीठ-देवतादिपूजाकथनम्, नानाविधमण्डलदानादिकथनम्, अर्कस्थलस्तवनपूर्वकमाहात्म्यवर्णनम् ॥

१८ शिवशिरोभूषणचन्द्रोत्पत्तिवृत्तान्तवर्णनप्रसंगेन वाराहकल्पवृत्तान्तवर्णनम्, तत्र चतुर्दशरत्नोत्पादनाय समुद्रे मथ्यमाने ततो हिमांशोरुत्पत्तिवर्णनम्, तस्य चंद्रस्य शिवेन शिरसा धारणकरणम्, चन्द्रस्य मस्तके धारणकरणाच्छशिभूषणेति शिवस्य नामप्रसिद्धिः ॥

१९ षोडशतिथ्यनुक्रमेण चन्द्रषोडशकलानां वर्णनम्, त्रुट्यादिब्रह्माण्डान्तकालचक्र-वर्णनम् , ब्रह्मणः प्रथमे परार्धे ब्रह्मविष्ण्वीशानां समासेन चरित्रवर्णनम्, ततो द्वितीये परार्धे दक्षादीनामुत्पत्त्यादिवर्णनपूर्वकं सप्तर्ष्यादीनामुत्पत्तिकथनम्, चंद्र-दत्तात्रेयाद्यवतारकथनम्, विष्णोर्दशावतारादीनां युगपर्यायेण वर्णनम्, कृतयु-गारंभसूचकशुभशकुनवर्णनम्, व्यासाद्यवतारवर्णनम् ॥

२० दैत्यावताराणां क्रमकथने हिरण्यकशिपुना शक्रादिलोकाञ्जेतुं गर्ते स्थित्वा तपःकर-णम्, तेन त्रैलोक्यजयित्वसंपादनम्, ततो बलेर्जन्मादिकं कथयित्वा बलिप्रभाव-वर्णनम्, प्रह्लादजन्मवृत्तान्तवर्णनम्, कार्तवीर्यस्य जन्मकर्मवर्णनम्, विश्रवस उत्पत्तिः, कुबेररावणादीनामुत्पत्तिकथनम्, श्रीरामकृतरावणनाशकथनम्, शिशु-पालजन्मकथनम्, नवपौलस्त्यनामवर्णनम्, पुलहर्षेर्मृगादिसंततिवर्णनम्, अत्रेर्द-शपत्नीनां भद्राश्वस्य घृताच्यंतदशाप्सरसां भद्रादीनां भास्करपत्नीनां च कथनम, प्रभाकरस्य भद्रापत्न्यां सोमरससमुत्पादनवर्णनम्, ततोऽत्रिणा तत्सोमरसं पीत्वा तपसि क्रियमाणे तन्नेत्राभ्यां प्राशितसोमरसस्रावेण सोममयसोमोत्पत्तिवर्णनम्, तं सोमं दिग्भिर्गृहीत्वा सर्वत्रशीतत्वेन प्रकाशकरणम् , ओषधीनामुत्पत्तिवर्णनम्, कुलत्थश्यामाकादिधान्यानामुत्पत्तिकथनम्, सप्तविंशतिनक्षत्राणामुत्पत्तिवर्णनम्, चन्द्र्स्य नक्षत्रौषध्यादीनामाधिपत्यप्रदानवृत्तान्तवर्णनम्, चन्द्रेण राजसूययज्ञ-मारभ्य तत्रोद्गातृत्वे ब्रह्माणं सदस्यत्वे विष्णुं सनत्कुमारादिकांश्चान्यर्त्वक्स्थानेषु संस्थाप्य यज्ञारंभं कृत्वा तत्समाप्तौ सर्वद्विजर्षभान्दक्षिणादिना संतोषितान्कृत्वाऽ- वभृथस्नानादिकरणवर्णनम् ॥

२१ अथ दक्षोत्पत्तिवृत्तान्तकथनम्, ब्रह्माज्ञया दक्षेण षष्टिकन्यानामुत्पादनम् , तत्र तासां कन्यानां धर्मादिभ्यः पत्नीत्वेन दानम्, सप्तविंशतिकन्यानां च सोमाय प्रदानम् , दशधर्मपत्नीनां नामवर्णनम्, कश्यपस्य त्रयोदशपत्नीनां सप्तविंशतिसं-ख्याकानां सोमपत्नीनां भृगुपुत्रस्य द्वयोः पत्न्योः कृशाश्वस्य द्वयोः पत्न्योस्त-थांऽगिरसपत्न्योर्नामादिवर्णनपूर्वकं तासां सन्ततिवर्णनम्, चन्द्रेण रोहिणी विनाऽन्यासां प्रेमाऽकरणेन ताभिरन्याभिश्चन्द्रपत्नीभिर्दक्षं प्रति सर्ववृत्तान्तश्रावणम्, ततो दक्षेण तच्छ्रुत्वा चन्द्रस्यान्यासु कन्यासु विषमभावं समालोक्य क्रुधा चन्द्राय यक्ष्मरोगप्राप्तिरूपशापदानम् , ततो दक्षवचनाच्चन्द्रेण यक्ष्मकुष्ठरोगनिवृत्तये शिवाराधनकरणार्थं दक्षिणसागरसमीपे गमनम् ॥

२२ चन्द्रेण प्रभासक्षेत्रमेत्य कृतस्मरनामानं पर्वतं दृष्ट्वा तथैव तस्मिन्पर्वते नानोपवासादिकारिमरीच्यादिमुनीनां दर्शनं गृहीत्वा तान्प्रति सप्तप्रदक्षिणा कृत्वा ततः शिवाराधनेन शिवं प्रसाद्य प्रादुर्भूतस्य शिवस्य स्तुतिकरणम् , चन्द्रवर्णितामात्मस्तुतिं श्रुत्वा प्रसन्नस्यान्तेन शिवेन चन्द्राय दक्षदत्तशापव्यवस्थाकरणपूर्वकवर- प्रदानम्, शिवेन देवद्विजप्रभाववर्णनम्, अनिन्द्यवस्तुकथनम् , ब्राह्मणगुण- वर्णनम् ॥

२३ चन्द्रेण शिवदत्तं लिंगं गृहीत्वा विश्वकर्मणे लिंगस्थापनायाज्ञाकरणम्, ततः स्वलोकं गत्वा प्रभासे यज्ञं कर्तुं यज्ञसंभारानानेतुं हेमगर्भमन्त्रिणे चन्द्रेणाज्ञापनम्, चन्द्रवचनाद्धेमगर्भमन्त्रिणा यज्ञसंभारान्संपाद्य प्रभासक्षेत्रे गमनम्, विश्वकर्मणा यज्ञशालापत्नीशालादिनिर्माणम्, ततश्चन्द्रेण ब्रह्मादिभिः सह यज्ञकुण्डान्निर्माय चतुर्दशभूतग्रामान्साध्यान्विश्वेदेवान्वस्वादींश्च स्वस्वस्थानेषु स्थापयित्वा यज्ञकर्मणि प्रारब्धे सर्ववस्तूनामन्यूनतया सर्वेषां तृप्तिकरणम्, ऋत्विगादीन्संस्थाप्य रोहिणी- सहितं चन्द्रं दीक्षितं कृत्वा सावित्र्या सहितेन ब्रह्मणा सर्वर्त्विग्वरणं कृत्वा बृहस्पतये होतृत्वं वसिष्ठायाध्वर्युत्वं मरीचय उद्गातृत्वं नारदाय ब्रह्मत्वं दत्त्वा सनत्कुमारान्सदस्यस्थानेषु नियोज्य सर्वेषां पूजनं कृत्वा वस्त्रालंकारान्दत्त्वा यज्ञारंभकरणम्, अवभृथादिभिर्यज्ञं समाप्य सोमेश्वरलिंगस्थापनम् ॥

२४ वैवस्वतस्य मनोर्दशमे त्रेतायुगे रोहिणीनाथेन शिवमाराध्य शंकरं प्रत्यक्षीकृत्य स्तुतिकरणम्, ततस्तुष्टेन शिवेन लिंगसांनिध्यप्रापकवरप्रदानम्, शिवेन चन्द्रमसे सोमेश्वरलिंगप्रभावकथनम्, सोमेश्वरपूजनक्रमवर्णनम्, सोमेश्वरयात्राफलकथ- नम्, चन्द्रमसो यक्ष्मतो निवृत्तिवर्णनम्, सोमेश्वरस्य प्रियाणां पुष्पाणां कथनम्, चन्द्रब्रह्मादीनां विप्राज्ञया स्वस्वस्थानेषु गमनम्, दुष्टजनेभ्यो वरप्रदानकारणे शंकरं प्रति पार्वत्या पृष्टे सति शंकरेण सात्त्विकराजसतामसभक्तानां वर्णनम्, हरिहराभेदकथनम्, भगवद्धृतनृसिंहाद्यवतारवर्णनम्, सारूप्यादिमुक्तिवर्णनम्, सोमेश्वरसंतोपकोपवासादिविधानवर्णनम्, सोमवारव्रतमाहात्म्यवर्णने स्वयंप्रभा- नगर्या स्थितेत सुशीलापत्नीसहितेन घननामकगंधर्वेण बहुकाले गते गंधर्वसेना- नामककन्याया उत्पादनम्, गंधर्वसेनायाः पाणिग्राहविधिं विधातुं घननामक-गंधर्वेण सेवकद्वारा वरशोधनकरणम्, शिखंडिगणनायके वियन्मार्गेण गच्छति मत्सदृशरूपवान्नैव कोऽपि इत्यादि गंधर्वसेनानामकगंधर्वकन्याया वाक्यं श्रुत्वा शिखंडिगणेन रूपगर्वितां गंधर्वकन्यां दृष्ट्वा तस्यै कुष्ठप्रापकशापप्रदानम्, गंधर्वसेनया शिखण्डिगणस्य प्रार्थनां कृत्वोच्छापग्रहणम् , शिखण्डिवचनात्स पितृकाया गंधर्वसेनायाः कुष्ठनिरसनार्थं हिमालयपर्वते गोशृंगमुनेराश्रमे गमनम् , घननामकेन गंधर्वोण तस्मै गोशृंगमुनये स्वदुहितुः सर्ववृत्तान्तकथनम्, गोशृंगेण तत्सर्वं श्रुत्वा कुष्ठनिरसनकारकोपायकथनम्, घननामकगंधर्वस्य गंधर्वसेनायाश्च गोशृंगर्षेर्वचनात्सोमेश्वरे गमनम्, तत्र सोमवारव्रतादिभिः शिवाराधनां विधाय शिवप्रसादं गृहीत्वा गंधर्वसेनायाः कुष्ठनिरसनपूर्वकं शिवतो वरप्राप्तिः, शिवस्य तत्रैवान्तर्धानम् , घननामकगंधर्वस्य गंधर्वसेनायाश्च स्वगृहे गमनम्, सोमवार-व्रतमाहात्म्यवर्णनम् ॥

२५ घननामकगंधर्वेण गोशृंगर्षिं प्रति सोमवारव्रतविधिपरिज्ञानार्थं प्रश्नकरणम्, ततो गोशृंगर्षिणा सोमवारव्रतमाहात्म्यद्योतनाय दक्षशापेन कुष्ठित्वंगतेन सोमेन सोम-व्रतादिकं कृत्वा शिवप्रसादतः कुष्ठनिरसनकरणादिकथनम्, ततस्तेनैवर्षिणा घननामगन्धर्वाय सोमवारव्रतकरणे मुखमार्जनशौचादिस्नानान्तविधिकथनपुरः-सरमीश्वरपूजनसंभारादि कथयित्वा समंत्रकशिवपूजाविधिकथनम् , नवमसोम-वार उद्यापनादिकरणविधिकथनम्, पौराणिकद्विजगुरुदेवादिकसंतोषाय वस्त्रा-दिभोजनान्तदानादिकथनम्, ततो गोशृंगकथितविधिना सोमवारव्रतं समाप्य प्रसन्नेन शिवेन गंधर्वसेनायाः कुष्ठनिरासकरणम्  ॥

२६ सोमेश्वरादुत्तरे भागे घनवाहनामकगंधर्वेण गन्धर्वेश्वरेतिनाम्ना लिंगस्थापनम् गन्धर्वेश्वरमाहात्म्यवर्णनम् ॥

२७ घनवाहगन्धर्वकन्यया गंधर्वसेनानाम्न्या गंधर्वसेनेश्वरेतिनाम्ना लिंगस्थापनम्, गंधर्वसेनेश्वरलिंगमाहात्म्यवर्णनम् ॥

२८ प्रथमतः सोमनाथस्य दर्शने विधिकथनम्, सोमनाथयात्राविधिवर्णनम् , यात्राफलस्याधिकारिवर्गनिरूपणम्, तीर्थयात्रां कर्तुमुद्युक्तेन पुरुषेण केन विधिना त्याज्या- त्याज्यादिकं विचार्य वर्तितव्यमित्यादिकथनम्, महादानकरणे पुण्यकथनम्, कलौ प्रभासक्षेत्रस्य सर्वक्षेत्राग्रेसरत्ववर्णनम् ,हिताहितनियमकथनम् ,षोडशतिथिषु भिन्नत्वेन षोडशवस्तुदानकरणफलवर्णनम्, प्रभासक्षेत्रसंजातमरणफलवर्णनम्, शिवलोके गमनायाधिकारित्वकथनम् , तीर्थस्नाने मंत्रकथनम्, तीर्थयात्राविधान-वर्णनम् ॥

२९ अग्नितीर्थमाहात्म्यवर्णनप्रस्तावे प्रथमं पद्मकतीर्थे स्नात्वा वपनादिकं विधाय पुनः स्नानादिकरणेन सोमेश्वरतीर्थस्नानतोऽपि द्विगुणफलकथनम्, स्त्रीणां क्षुरकर्म-वपननिषेधवर्णनम्, स्त्रीणां सर्वान्केशानुद्धृत्यांगुलद्वयविच्छेदकरणवर्णनम्, वपनादिविधायकसप्तस्थानानां वर्णनम्, वपनं विना महोदधिस्पर्शननिषेधवर्णनम्, समंत्रकस्नानोत्तरं तर्पणादिविधिकथनम्, तत्र वृषभादिदानफलमाहात्म्यवर्णनम्, द्विजशापप्रदानेन सागरस्यास्पृश्यत्वदोषवृत्तान्तवर्णनम् , तत्र देवैर्दीर्घसत्रे समारब्धे द्विजाज्ञाभङ्गभयात्तैः शरण्यं सागरं मत्वा तत्राब्धौ स्वस्वदेहानां गोपनकरणम्, समुद्रेण मांसादिना ब्राह्मणेभ्यो भोजनदानात्तेषां मांसभक्षणदोषेणाकाशगतिनिरोधे जाते सति तैर्ब्राह्मणैः 'अपेयत्वं ते भूयात् इति समुद्रस्य शापदानकथनम् , समुद्रेण ब्राह्मणप्रार्थनाकरणम्, वडवानलसंज्ञकतीर्थस्थापनवृत्तान्तवर्णनम् ॥

३० अग्नितीर्थयात्राविधानवर्णनम् , तत्र स्नानादिकरणोत्तरं स्नानांगतर्पणं कृत्वा कपर्दिनं गणपतिं पूजयित्वा सोमेश्वरे गमनम्, तत्र सोमेश्वरस्य षोडशोपचारपूजा विधिवर्णनम् , सोमेश्वरपूजामाहात्म्यवर्णनम् ॥

३१ सोमकारणाद्देवासुरयुद्धे प्रवृत्ते दैत्यपराजितैर्देवैर्दधीच्याश्रमं प्रति गमनम्, ततो दधीचिमहर्षये सर्वदेवकृतस्वस्वशस्त्रसमर्पणवर्णनम् ॥

३२ देवैः स्थापितानामस्त्राणां सारं जलेन सह पीत्वा दधीचेरुत्तरां दिशं सुभद्राख्यया निजपत्न्या सह गमनम्, ततस्तत्राश्रमे स्थितस्य दधीचे रेतसा व्याप्तं वस्त्रं परिधाय ऋतुस्नातायाः सुभद्राया नद्यां गमनम्, तत्र नद्यां स्नानं कुर्वत्याः सुभद्राया उदरे रेतःप्रवेशेन गर्भधारणम्, ततो लज्जयाऽश्वत्थवृक्षमूले स्थित्वा गर्भं त्यक्त्वा येन दुष्टेन पतिव्रताया ममोदरे ज्ञानेनाज्ञानेन वा गर्भाधानं कृतं स मरिष्यति इति शापदानम्, ततस्तत्रास्त्रग्रहणं चिकीर्षूणां देवानामागमनम्, दधीचिनाऽस्त्रप्राशनं कृतमिति ज्ञात्वाऽस्थिग्रहणाय देवैः समुद्योगकरणम्, वज्रादिशस्त्रनिर्माणार्थं दधीचिना देहत्यागकरणम्, ततो दधीच्यस्थीनि गृहीत्वेन्द्रादिभिर्देवैः स्वस्ववज्रदण्डपाशादिनिर्माणकरणम्, ततो दधीचिमरणाच्छोकाकुलायाः सुभद्राया देवैः समाधानकरणम्, सुभद्रया 'दधीचेर्वीर्यादयं पुत्र उत्पन्नः इति श्रुत्वाऽऽह्लादकरणम्, सुभद्रया दधीचेरौर्ध्वदेहिकादिकरणम्, जरायुजाण्डजस्वेदजोद्भिज्जानामुत्पत्तिवर्णनम्, सुभद्रया स्वपुत्रस्य पिप्पलादेति नाम कृत्वा वेदोक्तसंस्कारकरणम्, ततः पिप्पलादेन पितृहन्तॄन्देवान्हन्तुं प्रतिज्ञां कृत्वा हिमालये शिवाराधना कर्तुं गमनम् , कृत्याया निर्माणार्थं पिप्पलादेनोरुं निर्मथ्य बाडवयुक्तवडवोत्पादनम्, ततो वाडववडवाभ्यां वडवानलनरस्योत्पत्ति-वर्णनम्, देवान्भक्षितुं पिप्पलादवचनाद्वडवानलस्य स्वर्गे गमनम्, ततो देव-स्तुतमहाविष्णुकृतवडवानलवञ्चनवृत्तान्तवर्णनम् ॥

३३ समुद्रं प्रति वडवानलस्य यापनार्थं कुमार्याः सरस्वत्या विष्णुनाऽऽज्ञाकरणम्, ततो ब्रह्मणा सान्त्वितया सरस्वत्या वडवानलमादाय समुद्रे गमनम् ॥

३४ वडवानलात्सरस्वत्या वरग्रहणम्, सरस्वत्या वडवानलसमुद्रयोः स्तुतिकरणम्, वड-वानलेन समुद्रोदकस्य भक्षणे क्रियमाणे जलचरैः कृष्णं प्रति शरणगमनम् कृष्णेन तेभ्योऽभयवचनदानम्, ततोऽक्षयतोययुक्तं समुद्रं दृष्ट्वा देवैर्विष्णुपूजा-करणम्, प्रभासक्षेत्रे सरस्वत्यवतारमाहात्म्यवर्णनम् ॥

३५ सरस्वत्याः पिप्पलमूलतो निर्गत्य प्राचीं दिशं प्रति गमनम्, ततस्तस्याः सिद्धेश्वर- पर्यंतं पूर्वाभिमूखीभूत्वा तत ऊर्ध्वं पश्चिमाभिमुखीभवनम, ततः सरस्वतीतीर- स्थानेकतीर्थवर्णनम, हरिण्यादिपञ्चस्रोतसां वर्णनम्, सरस्वत्यब्धिधसमागमाग्नि- तीर्थमाहात्म्यवर्णनम् ॥

३६ प्राचीसरस्वतीमाहात्म्यवर्णने पांडवानां कौरवविनाशोत्तरं हस्तिनापुरे कृष्णेन सह गमनम्, ततो युधिष्ठिरभीमनकुलसहदेवानां गजपुरे गमनसमये नरनारायणौ निषेध्यौ इति द्वारपालान्प्रति युधिष्ठिरेण कथनम्, अर्जुनेन द्वारपालान्प्रति निषेधकारणजिज्ञासयाप्रश्ने कृते सति तैस्तयोः 'भीष्मादिपूज्यजनदुर्योधनादिबांध- वहननेन दोषभाजनान्निषेध_ इति कथितेऽर्जुनेन पापक्षालनार्थोपायादिप्रायश्चित्तार्थ श्रीकृष्णं प्रति प्रश्नकरणम्, ततः श्रीकृष्णेन प्राचीसरस्वतीतीर्थस्नानेन पापनिवृत्ति- कथनम्, तदनन्तरं सकृष्णेनार्जुनेन प्राचीसरस्वतीं प्रति गमनम्, तत्रार्जुनेन त्रिरात्रोपोषणत्रिरात्रस्नानादिनियमेन स्वपापनिवृत्तिकरणम्, प्राचीसरस्वतीप्रभावं ज्ञात्वा धर्मभीमनकुलसहदेवादिकानामपि तत्रागमनम्, अर्जुनवत्तेषां स्नानादिना पापनिवृत्तिः, प्राचीसरस्वतीमाहात्म्यवर्णनम् ॥

३७ पार्वत्या स्नानकाले किमर्थं जले कंकणप्रक्षेपणं कार्यमिति पृष्टेन शिवेनेन्दुमतीवृत्तान्तकथनम् ,तत्र बृहद्रथभूपं प्रति कण्वमहर्षेरागमनम् , बृहद्रथेन कण्वस्यातिथ्यादि- कं विधाय मिथो धर्मविषयककथाकरणम्, तत इन्दुमत्या निजैश्वर्यप्राप्तिकारण- जिज्ञासया कण्वाय प्रश्नकरणम्, कण्वेन तस्या इन्दुमत्या पूर्वजन्मवृत्तान्तकथ- नम्, तत्र पूर्वजन्मनि महाशूद्र्यास्तस्याश्चरित्रकथनम्, सोमेश्वरर्तार्थे स्नानकर- णसमये तस्या महाशूद्र्या हस्ततो जले कङ्कणपतनम्, तीर्थे तस्य कङ्कणस्य पत- नस्य प्रभावेण जन्मान्तरे राजकुले जननकथनम्, तत्कण्ववाक्यं श्रुत्वेन्दुमत्यास्त्र- पयाऽधोमुखीभूत्वा तूष्णींभवनम्, ततः कण्वस्य स्वस्थाने गमनम्, ततो बृहद्रथे-नेन्दुमत्या सह प्रतिवर्षं सरस्वतीतीरे गत्वा कंकणनिक्षेपणम्, तेन तयोर्बृहद्र-थेन्दुमत्योर्देवत्वप्राप्तिवर्णनम् कंकणप्रक्षेपणमाहात्म्यवर्णनम् ॥

३८ कपर्दीश्वरमाहात्म्यवर्णने दैत्यत्रासितैर्देवैः पार्वत्याः स्तोत्रकरणम्, ततो भगवती-वाक्योपरि विश्वस्य देवैः सोमेश्वरादितीर्थे गत्वा स्नानादिकं विधाय कपर्दीश्वर-पूजनेन पुनः राज्यकरणम्, कपर्दिविनायकमाहात्म्यवर्णनम् ॥

३९ प्रभासयात्रावर्णने कपर्द्दीश्वरदर्शनोत्तरं केदारेश्वरतीर्थे गमनम्, ततो भीमेश्वरसमीपस्थवृद्धिलिंगपूजनम्, केदारेश्वरमाहात्म्यवर्णने शशबिंदुसंज्ञकस्य राज्ञः पत्न्या सह यात्रां कर्तुं केदारेश्वरे गमनम्, तत्र राज्ञा रैभ्याद्यृषिगणान्दृष्ट्वा जागरादिकरणम्, ततो रैभ्यादिभिः शशबिंदोः प्राग्जन्मगतवृत्तान्तज्ञानाय सोमेश्वरं त्यक्त्वा केदारेश्वरागमनकारणज्ञानाय च प्रश्नकरणम्, ततो राज्ञा स्वप्राग्जन्मवृत्तान्तवर्णने ब्राह्मणपूजकसेवाधर्मविशिष्टाधिकारिशूद्रजन्मकथनम्, ततोऽनावृष्टिसमये क्षुत्तृषाभ्यां पीडितस्य सपत्नीकस्य स्वस्य प्रभासक्षेत्रे गमनकथनम्, तत्र सर्वतीथेंषु स्नात्वा नानालिंगपूजनादिकं विधाय ततो रामसरसि गत्वा प्रतिदिनं रामसरोगतानि सरसिजानि समादाय विक्रीय तेनैवोदरपोषणम् , ततः कस्मिंश्चित्समये कंचित्प्रासादमवलंब्य निशि स्वपत्न्या सह स्थितेन शूद्रेणाकस्माद्गीतध्वनिं श्रुत्वा कस्मिंश्चित्स्थले जागरणं प्रचलितमिति विज्ञाय तत्र कमलानि विक्रेतुं निजभार्यया सह गमनम्, तत्र केदारेश्वरापरनामकवृद्धिलिंगदर्शनम् ,तत्रानंगवतीवेश्याया दर्शनम् , तेन शूद्रेण जागरकारणे पृष्टे केनाप्यन्यपुरुषेण तं प्रति शिवरात्रिजागरणफलकथनम्, ततः सपत्नीकेन शूद्रेण शिवरात्रिजागरणोपवासादिकरणेन जन्मांतरे राजकुले जन्मप्राप्तिवर्णनम्, केदारेश्वर (रुद्रेश्वर) लिंगमाहात्म्यवर्णनम् ॥

४० भीमेश्वरमाहात्म्यवर्णने श्वेतकेतुना प्रभासे तपस्तप्त्वा श्वेतकेत्वीश्वरनाम्ना लिंगस्थापनम्, ततो द्वापरे यात्रां कर्तुमुद्युक्तेन भीमसेनेन तल्लिंगपूजनेन भीमेश्वरेतिनामकरणम्, भीमेश्वरमाहात्म्यवर्णनम् ॥

४१ देवमाताभैरवेश्वरमाहात्म्यवर्णनम् ॥

४२ चण्ड्या स्थापितेन चण्डगणेनाराधितस्य चण्डीशस्य पूजाविधिवर्णनपुरःसरं माहात्म्यवर्णनम् ॥
 
४३ आदित्येश्वरमाहात्म्यवर्णनम् ॥

४४ सोमेश्वरमाहात्म्यवर्णनम् ॥
 
४५ त्रिपुरं दग्धुकामस्य शिवस्य नेत्रतो भूम्यामश्रुपतनेनागांरकोत्पत्तिवृत्तान्तवर्णनम्, अंगारकेश्वरमाहात्म्यवर्णनम् ॥

४६ बुधस्थापितबुधेश्वरलिंगमाहात्म्यवर्णनम् ॥

४७ गुरुस्थापितबृहस्पतीश्वरलिंगमाहात्म्यवर्णनम् ॥

४८ शुक्रेण रुद्रमाराध्य रुद्रसाहाय्येन सञ्जीवनीमन्त्रं समालभ्य ग्रहत्वं प्राप्य स्वनाम्ना लिंगस्थापनम्, शुक्रेश्वरलिंगमाहात्म्यवर्णनम् ॥

४९ शनैश्चरेश्वरलिंगमाहात्म्यवर्णने शनैश्चरेण मन्दवारे ग्रहत्वप्राप्तिकरणाय शिवाराधनाकरणम्, ततः शनैश्चरेण शिवानुज्ञया लिंगस्थापनाकरणम्, सौरीश्वरपूजनेन शनिपीडानिरसनादिफलकथनम, कस्मिंश्चित्समये यदा शने रोहिणीशकटं भित्त्वा गमनं तदा द्वादशवार्षिकं दुर्भिक्षं स्यात् इति वसिष्ठमुखाच्छ्रुत्वा दशरथेन तत्सङ्कटनिरसनाय रथमारुह्याकाशमार्गेण शनैश्चरसमीपं गत्वा युद्धकरणम्, शनैश्चरेण तद्दशरथस्य शौर्यं दृष्ट्वा दशरथप्रेरितसर्वसंहारास्त्रं दृष्ट्वा भयात् वरं वृणुष्व, इति कथनम्, ततो दशरथेन शनैश्चरतो रोहिणीशकटभेदनिषेधकवरग्रहणम्, ततो दशरथेन शनैश्चरस्तोत्रकरणम्, शनैश्चरेण स्वस्य स्तोत्रपठनेन पीडाऽकरणकथनम्, शनैश्चरेश्वरमाहात्म्यवर्णनम् ॥

५० राहुप्रतिष्ठापितराह्वीश्वरमाहात्म्यवर्णनम् ॥

५१ ग्रहाधिपत्यप्राप्त्यर्थं केतुना शिवमाराध्य तदाज्ञया राह्वीशादुत्तरे केत्वीश्वरलिंगस्थापनम्, केत्वीश्वरलिंगमाहात्म्यवर्णनम ॥

५२ पञ्चानां सिद्धादिलिंगानां माहात्म्यवर्णने प्रथममणिमाद्यष्टसिद्धिप्रदसिद्धेश्वरलिंग माहात्म्यवर्णनम् ॥

५३ कपिलराजर्षिणा तपस्तप्त्वा स्थापितस्य कपिलेश्वरस्य लिंगस्य माहात्म्यवर्णनम् ॥

५४ शिखण्डिगणेन शप्ताया गन्धर्वसेनायाः शापनिवारणार्थं घनवाहनामकगन्धर्व-सेनापित्रा गोशृंगर्षिवचनात्सोमवारव्रतं कृत्वा सुतां शापतो मोचयित्वा शिव- प्रसादेन तदाज्ञया गन्धर्वेश्वरनाम्ना लिंगस्थापनम्, गन्धर्वेश्वरलिंगमाहात्म्य- वर्णनम् ॥

५५ गन्धर्वसेनाविमलत्वकारिविमलेश्वरमाहात्म्यवर्णनम् ॥

५६ अलकाधिपतित्वप्राप्त्यर्थं धनदेन शिवमाराध्य लिंगस्थापनम्, धनदेश्वरमाहात्म्यवर्णनम् ॥

 ५७ सोमस्य सप्तविंशतिभिः स्त्रीभिः स्वासु सोमस्य प्रसन्नतायै प्रभासे सोमेश्वर- माराध्य सोमेश्वरसमीपे वरारोहेश्वरेतिनाम्ना लिंगस्थापनम्, वरारोहेश्वरलिंग- माहात्म्यवर्णनम् ॥

५८ व्याधिग्रस्तेनाजापालेन राज्ञा तद्व्याधिनिरसनाय भैरवीदेवीपूजनकरणम्, तेनाजारूपेण तत्पातकानां निर्गमनम्, ततोऽजापालेश्वरीतिनामकरणम्, अजापालेश्वरी- माहात्म्यवर्णनम् ॥
५९ पार्वत्या शकंराय तव षष्ठवक्त्राभावात्कथं षष्ठाद्वक्त्रादजादेव्या उत्पत्तिः इति पृष्टे शंकरेण पार्वत्यै सद्योजातादिपिच्वन्तानां स्वस्य सप्तमुखानां वर्णनम, अजादेवीभयाद्दैत्यानां दशदिक्षु पलायनम्, अजादेवीमाहात्म्यवर्णनम्, इति रुद्रशक्तित्रय संकेतः ॥

६० ब्राह्मीमंगलादेवीमाहात्म्यवर्णनम् ॥

६१ वैष्णवीललितोमाविशालाक्षीमाहात्म्यवर्णनम् ॥

६२ रौद्रीचत्वरादेवीमाहात्म्यवर्णनम् ॥

६३ भैरवेश्वरमाहात्म्यवर्णनम् ॥
 
६४ लक्ष्मीश्वरमाहात्म्यवर्णनम् ॥

६५ वाडवेश्वरलिंगमाहात्म्यवर्णनम् ॥

६६ वडवानलधारिण्या सरस्वत्या देव्या प्रभासक्षेत्रमेत्य समुद्रे स्नानादिकं कृत्वाऽर्घ्यं दत्त्वा लिंगस्थापनम्, अर्घ्येश्वरलिंगमाहात्म्यवर्णनम् ॥

६७ कामेश्वरमाहात्म्यवर्णनम् ॥

६८ पार्वत्या शिवस्योपरि रुष्टया महता क्रोधेनारण्ये तपःकरणवर्णनम्, ततस्तुष्टेन शिवेन पार्वत्यै वरप्रदानम्, तत्तपोवनदर्शनेन सर्वकार्यार्थसिद्धिफलकथनम्, तत्र लिंगस्थापनम्, गौरीतपोवनमाहात्म्यवर्णनम् ॥

६९ गौरीश्वरलिंगमाहात्म्यवर्णनम् ॥

७० वरुणस्थापितवरुणेश्वरलिंगमाहात्म्यवर्णनम् ॥

७१ भर्तृदुःखप्रपीडितयोषया भार्यया स्थापितस्योषेश्वरस्य माहात्म्यवर्णनम् ॥

७२ जलवासगणपतिमाहात्म्यवर्णनम् ॥

७३ षण्मुखस्थापितकुमारेश्वरलिंगमाहात्म्यवर्णनम् ॥

७४ शाकल्येन (साकल्येन) राजर्षिणा शिवमाराध्य प्रभासे लिंगस्थापनम्, तस्य लिंगस्य कृतत्रेताद्वापरकलिषु भैरवेश्वरसावर्णिकेश्वरगालवेश्वरशाकल्येश्वरनामकर-णम्, शाकल्येश्वरलिंगमाहात्म्यवर्णनम् ॥

७५ कलकलेश्वरस्य चतुर्युगेषु भिन्नत्वेन कामेश्वर पुलहेश्वर नारदेश्वर कलकलेश्वरेत्यादि नामकथनम्, कलिद्वापरयोः संधावेकदा नारदेन वर्षशतं प्रभासे लिंगाराधनाकरणम्, ततो गांधर्वं प्राप्य नारदेन पौण्डरीकनामकमहायज्ञकरणम्, तत्र विप्राणां सर्वत आगमनम्, दक्षिणार्थं विप्राणां मिथो वादकरणम्, तेन कोलाहलेन कलकलेश्वरेति लिंगस्य नारदेन नामकरणम्, कलकलेश्वरमाहात्म्यवर्णनम् ७५ १

७६ कलकलेश्वरसमीपवर्तिलकुलीशमाहात्म्यवर्णनम् ॥

७७ उत्तंकस्थापितोत्तंकेश्वरलिंगमाहात्म्यवर्णनम ॥

७८ वह्नीशमाहात्म्यवर्णने केनचिच्छुकेन स्वभार्यया सार्धमेकस्मिन्वृक्षे नीडं कृत्वा वासकरणम्, ततो नीडरक्षार्थं समंततो भार्यया सहितेन शुकेन भ्रमणम् , वैश्वानरेश्वरस्याप्यनायासेन प्रदक्षिणाकरणप्रभावादपरजन्मनि तयोर्द्वयोर्लोपामुद्राऽगस्त्यत्वेन जन्मप्राप्तिवर्णनम्, पूर्वजन्म स्मरताऽगस्तिना वैश्वानरेश्वरप्रदक्षिणाफलकथनम्, वैश्वानरेश्वरमाहात्म्यवर्णनम ॥

७९ लकुलीश्वरमाहात्म्यवर्णनम् ॥

८० गौतमेश्वरलिंगमाहात्म्यवर्णनम् ॥

८१ दैत्यसूदनमाहात्म्यवर्णने प्रथमं सप्तकल्पे वामनादिदैत्यसूदनान्तनाम्नां वर्णनम्, तत्र दैत्यजितैर्देवैर्विष्णुस्तवने विष्णोर्दशावतारकथनम् , ततो विष्णुहस्तेन चक्रसाहाय्येन दैत्याञ्जित्वा देवैर्दैत्यसूदननाम्ना भगवत्स्थापनाकरणम्, दैत्यसूदनमाहात्म्यवर्णनम् ॥

८२ चक्रतीर्थोत्पत्तिवृत्तान्तमाहात्म्यवर्णनम् ॥

८३ ब्रह्मदत्तवरेणोन्मत्तीभूतस्य महिषासुरस्य मर्द्दनाय देवैरेकीभूय स्त्रीनिर्माणकरणम्, नारदेन पत्नीत्वेन तां स्त्रियं स्वीकर्तुं महिषासुरे प्रत्याज्ञाकरणम्, तन्नारदवचनं श्रुत्वा ससैन्यस्य महिषासुरस्य तस्याः स्त्रियाः समीपे गमनम्, महिषासुरस्य मतमभिसमीक्ष्य देव्या स्वशरीरतः शतशः स्त्रीनिर्माणकरणम्, ततस्तया देव्या महिषासुरनाशकरणम्, तस्या देव्या देवैः स्तुतिकरणम, ततो देवैस्तस्या देव्यास्तत्रैव स्थापनाकरणम्, देवीपूजनविधिकथनम्, खङ्गमंत्रकथनम, दुर्गादेवीस्तु-तिप्रकारकथनम्, योगीश्वरीमाहात्म्यवर्णनम् ॥

८४ मेघवाहननामकदैत्यैः पीडितैर्ऋषिभिर्विष्णुस्तवनकरणम्, तत्स्तवनं श्रुत्वा दयया
विष्णुना पादाघातेन मेघवाहनदैत्यं समुद्रे पातयित्वा तत्रैवादिनारायणेतिनाम्नाऽवस्थानकरणम्, आदिनारायणमाहात्म्यवर्णनम्  ॥

८५ अथ संनिहिताख्यानद्युत्पत्तिवृत्तान्तवर्णनम्, तत्र जरासंधभयाद्विष्णोः सपरिवारस्य मथुरां त्यक्त्वा प्रभासे प्रयाणम् , ततस्तेषां विष्ण्वादीनां ग्रहणकाले समुद्रतीरे कृष्णेन ध्यानमात्रेणानीतायां संनिहितायां स्नानकरणेन पुण्यफलंप्राप्तिवर्णनम् , तत्र दानादिकरणप्रभाववर्णनम्, संनिहित्यामाहात्म्यवर्णनम् ॥

८६ पाण्डवैरज्ञातवाससमये प्रभासमेत्य पंचभिरपि स्वस्वनाम्ना लिंगस्थापनम्, पाण्डवेश्वरलिंगमाहात्म्यवर्णनम् ॥

८७ एकादशरुद्राणां नामवर्णनम्, तत्र प्रथमं भूतेशरुद्रमाहात्म्यवर्णनम् ॥

८८ नीलरुद्रमाहात्म्यवर्णनम् ॥

८९ कपालीश्वररुद्रमाहात्म्यवर्णनम् ॥

९० वृषभेश्वरस्य प्रतिकल्पगतनामवर्णनम् , वृषभेण स्थापितस्य वृषभेश्वराख्यलिंगस्य माहात्म्यवर्णनपूर्वकम् इक्ष्वाकोरुपवासादिपूजनफलप्राप्तिवृत्तान्तवर्णनम् ॥

९१ त्र्यंबकेश्वरमाहात्म्यवर्णने प्रतियुगेषु नामाभिधानकथनम, त्र्यंबकेश्वरे स्नानदानादि फलकथनम्, त्र्यंबकेश्वरमाहात्म्यवर्णनम् ॥

९२ अघोरेश्वरमाहात्म्यवर्णनम् ॥

९३ महाकालेश्वरलिंगवर्णने कृतयुगे चित्राङ्गदेश्वरेतिनाम्ना प्रसिद्धिवर्णनम्, चित्रांगदेश्वरस्यैव महाकालेश्वरेतिनाम्ना प्रसिद्धिः, महाकालेश्वरलिंगमाहात्म्यवर्णनम् ॥

९४ भैरवेश्वरमाहात्म्यवर्णनम् ॥

९५ मृत्युञ्जयमाहात्म्यवर्णनम् ॥

९६ कामेश्वरलिंगमाहात्म्यवर्णनम् ॥

९७ योगेश्वरलिंगमाहात्म्यवर्णनम् ॥

९८ दैत्यभारपीडितया पृथ्व्या प्रभासे गमनम् , तत्र पृथ्व्या लिंगं स्थापयित्वा रुद्रमा-राध्य रुद्रप्रसादप्राप्तिवर्णनम्, पृथ्वीश्वर ( चन्द्रेश्वर) माहात्म्यवर्णनम् ॥२

९९ दण्डपाणिचक्रधरमाहात्म्यवर्णने वाराणस्यां स्थितेन पौण्ड्रकेण वासुदेवचिह्नानि धृत्वा वासुदेवेन सह कलहं कृत्वा युद्धकरणम्, तत्र वासुदेवेन पौंड्रके हते पौंड्रकपुत्रेण वासुदेवनाशार्थं कृत्यानिर्माणकरणम्, वासुदेवेन सुदर्शनेन तस्याः कृत्यायाः पराजयकरणम् , पराभूतया तया कृत्यया शिवं प्रति शरणगमनम्, ततः शंकरेण कृत्यासंरक्षणार्थ विष्णुप्रेरितसुदर्शनस्य स्वबाणैस्ताडनम्, शिवसाय-कमिश्रितं कार्यमकृत्वागतं सुदर्शनं दृष्वा क्रुधा भगवता शिवसायकसहितं चक्रं हस्ते धृत्वा कालभैरवनिर्मितकृत्याविनाशार्थं स्वस्य काश्यां गमनम् , तत्र काश्यां संरक्षणार्थं स्थितानां दण्डपाणीनां गणानां वचनाच्चक्रधरनाम्ना कृष्णस्यावस्थानम् , दण्डपाणिचक्रधरमाहात्म्यवर्णनम् ॥

१०० सांबादित्येश्वरमाहात्म्यवर्णनम्, तत्र कृष्णाज्जांबवत्यां समुत्पन्नेन रूपगर्वितेन सांबेन दुर्वाससोऽवमानकरणम्, ततः क्रोधेन दुर्वाससा सांबाय कुष्ठी भव इति शापदानम् ॥

१०१ तथैव द्वारकां प्रति कृष्णदर्शनं ग्रहीतुमागतस्य नारदस्य रूपगर्वितेन सांबेनाऽवज्ञा-करणम्, तद्वैरं साधयित्वा कस्मिंश्चित्समये सस्त्रीके कृष्णे जलक्रीडां कर्तुं प्रवृत्ते सांबस्याकस्मान्नारदवचनात्तत्र गमनम्, सांबमागतं दृष्ट्वा तस्मिन्मानसिकविकृतिं प्राप्ताः स्वस्त्रीर्दृष्ट्वा श्रीकृष्णेन ताः प्रति चौरहस्तगता भविष्यथ, इति शाप-दानम् , सांबाय च कुष्ठप्रापकशापदानम्, ततः सांबेन पूर्वं दुर्वासऋषिणा दत्तं शापं स्मृत्वा बहुदुःखितेन सता प्रभासक्षेत्रं गत्वाऽऽदित्याराधनाकरणम्, सांबे-नादित्यस्तुतिकरणम्, स्तोत्रान्ते तुष्टेनादित्येन सांबस्येच्छितवरप्रदानं कुष्ठ- निरासकरणं च, द्वादशादित्यनामकथनम्, तत्रैव सांबेन स्वनाम्ना लिंगस्थापनम्, सांबादित्येश्वरमाहात्म्यवर्णनम् ॥

१०२ सांबादित्येश्वरसमीपवर्तिकंटकशोधिनीदेवीमाहात्म्यवर्णनम् ॥

१०३ दक्षयज्ञे कपालं गृहीत्वा जाल्मवेषधारिणः शंकरस्यागमनं यज्ञमण्डपमध्ये कपाल-प्रक्षेपणं च, तत्र कपालं क्षिप्तं दृष्ट्वा सर्वैर्हाहाकारकरणम् , ततो महर्षिस्तुत्या महेश्वरेण स्वस्वरूपप्रकटनम्, तत्रैव कपालेश्वरेतिनाम्ना लिंगस्थापनम् , कपालेश्वरमाहात्म्यवर्णनम् ॥

१०४ कोटिसंख्याकैर्ब्राह्मणैः कपालेश्वरे तपस्तप्त्वा लिंगस्थापनात्कोटीश्वरेति नाम्ना प्रसिद्धि-करणम्, कोटीश्वरलिंगमाहात्म्यवर्णनम् ॥

१०५ ब्रह्ममाहात्म्यवर्णने बालरूपिवृद्धरूपिपितामहमाहात्म्यवर्णनम्, ततो ब्रह्मणो द्विप-रार्द्धपर्यन्तमायुःकालपरिगणनम्, सप्तविंशतिकल्पानां चतुर्दशेन्द्राणां चतुर्दशमनूनां पृथक्त्वेन नामनिर्देशकरणम्, ब्रह्मणस्तपःकरणे प्रभासे लिंगस्थापने च हेतुं दर्श-यित्वा ब्रह्मेश्वरेतिलिंगस्थापनवर्णनम्, मध्ययात्रायां ब्रह्ममाहात्म्यवर्णनम् ॥

१०६ ब्रह्मपूजाविधानवर्णनप्रसंगेन ब्राह्मणस्य विशिष्टत्वेन पूज्यत्वादिगौरवगुणवर्णनम्, चतुर्दशेन्द्राणां ब्राह्मणनिन्दाकराणां यमेन शासनकरणवर्णनम् , द्विजरक्षणफल-कथनम्, ब्राह्मणानां प्राजापत्यादिवृत्तिभेदकथनम्, चातुर्वर्ण्यधर्मकृच्छ्रचान्द्रायणादिव्रतविधानवर्णनम् , ब्राह्मणप्रशंसावर्णनम् ॥

१०७ ब्रह्मपूजावर्णने बहुविधाया भक्तेर्वर्णनम्, पञ्चगव्यविधिकथनम्, गायत्रीन्यास-कथनम्, षोडशोपचारसमन्त्रकपूजाविधिवर्णनम्, ब्रह्मयात्रावर्णनम् , ब्रह्मणो वासस्थाननिर्देशकरणम्, बालरूपिब्रह्मणो माहात्म्यवर्णनम् ॥

१०८ प्रत्यूषेश्वरलिंगमाहात्म्यवर्णने दक्षस्य धर्माय दत्तानां षष्टिकन्यानां मध्ये विश्वानाम्न्यां कन्यकायामष्टवसुपरिगणितप्रत्यूषवसुनामकपुत्रस्य जननम्, तेन प्रत्यूषनामक-वसुना प्रभासक्षेत्रे स्वनाम्ना लिंगस्थापनम्, प्रत्यूषेश्वरमाहात्म्यवर्णनम् ॥

१०९ अनिलस्थापितानिलेश्वरमाहात्म्यवर्णनम् ॥

११० अष्टमेन प्रभासनामकेन वसुना लिंगस्थापनम्, प्रभासेश्वरमाहात्म्यवर्णनम् ॥

१११ रामेश्वरतीर्थवर्णने ससीतालक्ष्मणस्य रामस्य वने प्रयाणम्, ततो यात्रां कर्तुं प्रवृत्तस्य रामस्य प्रभासे गमनम्, तत्र निशि सुप्तस्य रामस्य स्वप्ने पितुर्दशर-थस्य दर्शनम्, ततो रामेण ब्राह्मणेभ्यः स्वप्नगतवृत्तनिवेदनम्, ततो ब्राह्मणवचना-द्रामेण बदरादिबहुस्वादुफलान्यादाय श्राद्धकरणम्, रामेश्वरेतिनाम्ना लिंगस्थाप-नम्, रामेश्वरक्षेत्रमाहात्म्यवर्णनम् ॥

११२ लक्ष्मणस्थापितलक्ष्मणेश्वरमाहात्म्यवर्णनम् ॥

११३ सीतास्थापितजानकीश्वरमाहात्म्यवर्णनम् ॥

११४ वामनस्वामिमाहात्म्यवर्णने विष्णुना बलेः पादत्रयभूमियाचनेन पाताले नयनम्, ब्रह्माण्डे द्वितीयपादस्थापनेन विष्णुपदीगंगोत्पत्तिवर्णनम्, वामनस्वामिमाहा-त्म्यम्, विष्णुपदीगंगामाहात्म्यम्, विष्णुपदीगंगायाः पुष्करे गमनात्पुष्कर-माहात्म्यवर्णनम् ॥

११५ पुष्करेश्वरमाहात्म्यवर्णनम् ॥

११६ शंखोदककुण्डेश्वरीगौरीमाहात्म्यवर्णनम् ॥

११७ भूतनाथेश्वरमाहात्म्यवर्णनम् ॥

११८ गोप्यादित्यतीर्थमाहात्म्ये ससुतगोपीसहितस्य कृष्णस्य प्रभासे गमनम्, तत्र यादवैः रैवतकं गिरिमेत्य सर्वत्र ध्वजचक्राङ्कितभूमिकरणम्, तथैव शिवलिंगपूरितभूमिदर्शनम् , ततो हस्तप्रमाणां भूभिकां मध्ये मध्ये विसृज्य तदन्तरेण सर्वत्र प्रासादादिकरणम्, कृष्णकलाभूतानां षोडशगोपीनां नामकथनम्, तत्रैव गोपीभिः षोडशसहस्रसंख्याकरम्यगृहनिर्माणकरणम् , तत्र रविस्थापनम्, तस्य गोप्या-दित्येति नाम दत्त्वा सर्वेषां तेषां सर्वासां तासां च द्वारकां प्रत्यागमनम्, गोप्या-
दित्येश्वरमाहात्म्यवर्णनम ॥

११९ बलातिबलदैत्यघ्नीदेव्युत्पत्तिमाहात्म्यवर्णने बलातिबलदैत्यजन्मकथनम्, ताभ्यां ससैनिकाभ्यां बलातिबलदैत्याभ्यां देवान्पराजित्य त्रैलोक्यस्याधिपत्यकरणम्, तदा दैत्यपीडितैर्देवैर्हिमवन्तमेत्य पार्वतीस्तवनकरणम्, तद्देवकृतस्तोत्रं श्रुत्वा देव्या बह्वद्भुतरूपं धृत्वा बहुहस्तेषु बह्वस्त्राणि धृत्वा ससैनिकाभ्यां बलातिबलदैत्याभ्यां युद्धकरणम्, तत्र देव्या बलातिबलदैत्यनाशकरणम् ,चतुःषष्टियोगिनीभिः समं तस्या बलातिबलदैत्यघ्न्या देव्याः प्रभासे वासकरणम्, चतुःषष्टियोगिनीनामावलिकथनम्, बलातिबलदैत्यघ्नीमाहात्म्यवर्णनम् ॥

१२० गोपीसंप्रतिष्ठापितगोपीश्वरमाहात्म्यवर्णनम् ॥

१२१ जमदग्निसुतेन रामेण मातृवधदोषनिबर्हणार्थं प्रभासे शिवलिंगस्थापनम् , जामदग्न्येश्वरमाहात्म्यवर्णनम् ॥

१२२ गंधर्वपतिना चित्राङ्गदेन देवमाराध्य लिंगस्थापनाकरणम्, चित्राङ्गदेश्वरलिंगमाहात्म्यवर्णनम् ॥

१२३ दिग्विजयार्थं पुष्पकेण विमानेन गच्छतो रावणस्य प्रभासे कुण्ठितं विमानं दृष्ट्वा नीचैः किमस्ति तद्दृष्ट्वाऽऽगच्छ इति निजमन्त्रिणं प्रत्याज्ञाकरणम् ,प्रहस्तमंत्रिणा नीचै-र्गत्वा प्रभासक्षेत्रं दृष्ट्वोपर्यागत्य रावणाय प्रभासक्षेत्रमाहात्म्यकथनम्, ततः प्रभासक्षेत्रे तेन रावणेन विमानावतरणम्, सर्वनागारैकवचनात्तत्र स्वनाम्ना लिंगस्थापनम्, रावणेश्वरमाहात्म्यवर्णनम् ॥२

१२४ अरुंधत्या सौभाग्यवर्धनाय तपस्तप्त्वा तत्र सौभाग्यरूपां सिद्धिं प्राप्य देवीं संस्थाप्य सौभाग्येश्वरीतिनामकरणम्, सौभाग्येश्वरीमाहात्म्यवर्णनम् ॥

१२५ तारकेण ध्वस्तानिन्द्रादिदेवान्दृष्ट्वेन्द्रपत्न्या पौलोम्या तारकविनाशाय तपस्तप्त्वा लिंगस्थापनम्, पौलोमीश्वरमाहात्म्यवर्णनम् ॥

१२६ शाण्डिल्यर्षिसंस्थापितशाण्डिल्येश्वरमाहात्म्यवर्णनम् ॥

१२७ क्षेमंकरेश्वरमाहात्म्यवर्णनम् ॥

१२८ सागरादित्यमाहात्म्यवर्णनम् ॥

१२९ अक्षमालेश्वरोग्रसेनेश्वरलिंगमाहात्म्यवर्णनम् ॥

१३० पाशुपतादिभिश्चतुर्भिः सिद्धैः प्रभासे देवमाराध्य पाशुपतेश्वरेतिनाम्ना लिंगस्थापनम्, पाशुपतेश्वरमाहात्म्यवर्णनम् ॥

१३१ ध्रुवेश्वरोत्पत्तिवर्णने उत्तानपादपुत्रेण ध्रुवेण प्रभासे नालेश्वरमाराध्य शिवस्तवन-करणम्, ध्रुवेश्वरेतिनाम्ना लिंगस्थापनं च, ध्रुवेश्वरलिंगमाहात्म्यवर्णनम् ॥

१३२ सिद्धलक्ष्मीतिनाम्नीवैष्णवीशक्तिमाहात्म्ये प्रभासाद्यनेकपीठस्थानवर्णनम्, तत्राद्य-प्रभासक्षेत्रस्थसिद्धलक्ष्मीपीठमाहात्म्यवर्णनम् ॥

१३३ महाकालीपीठमाहात्म्यवर्णनम् ॥

१३४ सोमस्य यज्ञे प्रवर्तमाने ब्रह्मणो देवैः सह प्रभासे गमनम्, सोमनाथप्रतिष्ठापनार्थं चंद्रेण ब्रह्मणो निमंत्रणकरणम्, ततो लिंगप्रतिष्ठापनलग्नकाल उपस्थिते पितामहेन मनसा पुष्करस्मरणकरणम्, तत्स्मरणेन तत्र पुष्कराणामागमनम, तत-स्तत्रैवावर्तसंभवात्तस्य तीर्थस्य पुष्करावर्तेतिनामकरणम, पुष्करावर्तकानदीमाहात्म्यवर्णनम् ॥

१३५ दुःखान्तकारिणीशीतलागौरीमाहात्म्यवर्णनम् ॥

१३६ लोमशस्थापितलोमशेश्वरमाहात्म्यवर्णनम् ॥

१३७ कङ्कालभैरवक्षेत्रपालमाहात्म्यवर्णनम् ॥

१३८ तृणबिन्दुना प्रभासे मासि मासि कुशाग्रेण जलबिंदुं पीत्वा सहस्रसंवत्सरपर्यंतं तपः कृत्वा लिंगस्थापनम्, तृणबिन्द्वीश्वरमाहात्म्यवर्णनम् ॥

१३९ मित्रनामककायस्थस्य चित्रनामकपुत्रेण पितर्युपरते प्रभासमेत्यादित्याराधनां कृत्वाऽ-नेकप्रकारेणादित्यं स्तुत्वा स्वेष्टवरप्राप्तिकरणम्, ततः स्नानार्थं सरसि निमज्यन्तं चित्रं प्रति यमाज्ञया यमकिंकरैः सदेहेन यमलोके नयनम्, तत्र यमेन प्राणि चरित्रलेखककर्मणि चित्रगुप्तेतिनाम्ना संस्थापनाकरणम्, प्रभासे चित्रेश्वरेति लिंगस्थापनम् , चित्रादित्यलिंगमाहात्म्यवर्णनम् ॥

१४० चित्रपथानदीमाहात्म्यवर्णने सदेहस्य चित्रस्य यमेन स्वलोके नयने कृते चित्रस्य चित्रानामकभगिन्या स्वभ्रातुरन्वेषणाय नदीरूपेणावस्थानम् , चित्रपथानदीमाहा-त्म्यवर्णनम् ॥

१४१ कपर्दिचिन्तामणिमाहात्म्यवर्णनम् ॥

१४२ चित्रेश्वरमाहात्म्यवर्णनम् ॥

१४३ विचित्रेश्वरमाहात्म्यवर्णनम् ॥

१४४ पुष्करकुण्डमाहात्म्यवर्णनम् ॥

१४५ गजकुम्भोदरमाहात्म्यवर्णनम् ॥

१४६ छायाशप्तेन धर्मराजेन प्रभासे तपस्तप्त्वा लिंगस्थापनम्, यमेश्वरलिंगमाहात्म्य-वर्णनम् ॥

१४७ ब्रह्मनिर्मितब्रह्मकुण्डमाहात्म्यवर्णनम् ॥

१४८ कुण्डलकूपमाहात्म्ये सुदर्शनराजेन गांधारराजकन्यां सुनंदां परिणीय सुनंदाभार्यानु-मोदनं गृहीत्वा तया सार्धं शिवरात्र्युपोषणादिव्रतकरणम्, तत्र शिवरात्रिमा-हात्म्यवर्णने धननाम्रा वणिक्पुत्रेण शिवरात्र्युपोषणकरणम्, तस्याः शिवरात्रिव्रत कारिण्या धननामकवणिग्भार्यायाश्छिद्रमन्वेषयितुं स्थितेन कुण्डलिनेन वणिजा निशि धननामकवणिग्भार्यायाः कर्णौ त्रोटयित्वा पलायनकरणम्, तदा तद्रक्षकैः कर्णत्रोटनवार्तां श्रुत्वा कोलाहलं कृत्वा कुण्डलिनस्य कपालच्छेदकरणम्, सप-त्नीकस्य सुर्दशनस्य तत्कपालं द्रष्टुं गमनम्, सुदर्शनसुनंदयोस्तत्र प्रभासे गत्वा कुण्डलिनकपालं दृष्ट्वा कुण्डकूपदर्शनकरणम्, कुण्डकूपमाहात्म्यवर्णनम् ॥

१४९ भैरवेश्वरमाहात्म्यवर्णनम् ॥

१५० ब्रह्मस्थापितब्रह्मेश्वरमाहात्म्यवर्णनम् ॥

१५१ सावित्रीस्थापितसावित्रीश्वरभैरवमाहात्म्यवर्णनम् ॥

१५२ कस्मिंश्चित्समये तंत्रीवादनेन भूम्यां ब्राह्मणपतनं दृष्ट्वा नारदेन ब्रह्मदेवं प्रति किमेत-दिति प्रश्नकरणम्, ब्रह्मदेवाज्ञया नारदेन सप्तब्राह्मणविध्वंसजनितपातकक्षालनार्थं प्रभासक्षेत्रे तपस्तप्त्वा शिवं प्रसाद्य तदाज्ञया भैरवस्थापनम्, नारदेश्वरभै-रवमाहात्म्यवर्णनम् ॥

१५३ ब्रह्मणा यज्ञे समारब्धे द्रव्याभावाद्यज्ञसमाप्तिर्नैवेति मत्वा द्रव्यप्राप्त्यर्थं प्रभासे शिवाराधनाकरणम् । ततः शिवाज्ञया द्रव्यरूपेण सरस्वत्याः प्रवहणम्, तस्यां सर-स्वत्यां समुत्पन्नं काञ्चनपद्मरूपं बहुधनं लब्ध्वा ब्रह्मणा यज्ञसमाप्तिकरणम्, तत्रैव हिरण्येश्वरेतिनाम्ना लिंगस्थापनम्, हिरण्येश्वरमाहात्म्यवर्णनम् ॥

१५४ गायत्रीसंप्रतिष्ठापितगायत्रीश्वरमाहात्म्यवणर्नम् ॥

१५५ विष्णुना प्रभासे तपस्तप्त्वा रत्नेश्वरलिंगकुण्डस्थापनकरणम्. रत्नेश्वरलिंगमाहा-त्म्यवर्णनम् ॥

१५६ गरुडेश्वरमाहात्म्यवर्णनम् ॥

१५७ सत्यभामेश्वरमाहात्म्यवर्णनम् ॥

१५८ अनङ्गस्थापितानङ्गेश्वरमाहात्म्यवर्णनम् ॥

१९थ रत्नकुण्डमाहात्म्यवर्णनम् ॥

१६० रैवंतकराजभट्टारकमाहात्म्यवर्णनम् ॥

१६१ अनन्तेश्वरमाहात्म्यवर्णनम् ॥

१६२ अष्टकुलेश्वरलिंगमाहात्म्यवर्णनम् ॥

१६३ नासत्येश्वरलिंगमाहात्म्यवर्णनम् ॥

१६४ अश्विनेश्वरलिंगमाहात्म्यवर्णनम् ॥

१६५ सावित्रीमाहात्म्यवर्णने प्रथमं शंकरेण वेदोत्पत्तिसृष्ट्युत्पत्त्यादिवर्णनम्, ततो ब्रहणा यज्ञकर्म प्रचलितुं समुद्योगकरणम्, ततो ब्रह्मणा पुष्करतीर्थमेत्य यज्ञभूमिकाशु-द्धिकरणम्, अध्त्रर्युणा सावित्रीं प्रति यज्ञार्थं निमन्त्रणे कृते सत्यपि सावित्र्या एकाकिनी नाहमेष्यामि इति तं प्रति शंसित्वा स्वगृहकर्मण्यासक्तिकरणम्, ततस्तेनाध्वर्युणा 'सावित्री नायाति इति ब्रह्मणे कथनम् , ततः क्रोधाविष्टेन ब्रह्मणा शक्रायान्यपत्न्यानयनार्थमाज्ञाकरणम्, ततः शक्रेण कांचिद्गोपकन्यां गृहीत्वा ब्रह्मसमीप आनयनम्, ततो ब्रह्मणा तां गोपकन्यकां परिणीय यज्ञारंभकरणम, ततो देवस्त्रीभिः परिवृतायाः सावित्र्यास्तत्र यज्ञे गमनम्, तत्र ब्रह्मणाऽन्यपत्नी परिणीयारब्धं यज्ञं दृष्ट्वा कोपाविष्टया सावित्र्या ब्रह्मदेवस्य निर्भर्त्सनाकरणम्, सावित्रीवचनं श्रुत्वा ब्रह्मणान्यपत्नीवरणकारणे कथितेऽपि सावित्र्या ब्रह्मणेऽपूज्य तारूपशापप्रदानम्, शक्रेण ब्रह्मविवाहार्थमाभीरीनियोजनेन शक्राय युद्धे शत्रुभिः पराजयप्रापकशापप्रदानम्, तथा च सावित्र्या विष्णवे भार्याविरहजनकत्वशाप- दानम्, सावित्र्या तथैवान्यान्देवान्प्रत्यपि शापदानम्, विष्णुना सावित्र्याः स्तुतिकरणम, गायत्र्या सावित्रीदत्तशापनिरासाय सर्वेभ्यो वरप्रदानम्, गायत्रीजपविधिकथनम्, सावित्र्याः प्रभासे गमनम्, प्रभासक्षेत्रस्थायाः सावित्र्या माहात्म्यवर्णनम् ॥

१६६ अथ वटसावित्रीव्रतमाहात्म्यवर्णनम्, तत्राश्वपतिना राज्ञाऽनपत्यत्वनिरासाय सावित्रीपूजाराधनाकरणम् तुष्टया सावित्र्या दत्तेन वरेणाश्वपते राज्ञः सावित्रीनाम्न्याः कन्याया जननम्, तयाश्वपतिपुत्र्या सावित्र्या सत्यवन्तमेव पतित्वेन परिणेष्यामीति निश्चयकरणम्, तत्र नारदेनाश्वपतिं प्रति सत्यवतः सर्ववृत्तान्तकथनम्, सावित्रीसत्यवद्विवाहवर्णनम, ततः कस्मिंश्चित्समये समित्कुशाद्याहरणार्थं सावित्र्या सह सत्यवतो वने गमनम्, काष्ठपाटने शिरोवेदनायां जातायां सत्यवता तत्रैव काष्ठानि त्यक्त्वा सावित्रीसमीपमेत्य सावित्र्यङ्के निद्राकरणम्, तावद्यमस्यागमनम्, यमसावित्रीसंबादवर्णनम्, यमेन सत्यवच्छरीरतो जीवं निष्कास्य गमनम् ,सावित्र्या यमस्यानुगमनम्, यमेन बहुधा सावित्रीं प्रति स्वानुगमननिवारणे कृतेऽपि सावित्र्या दृढनिश्चयं दृष्ट्वा तस्यै वरदानम्, यमप्रसादेन स्वभर्तारमुज्जीव्य त्रिरा-त्रवटसावित्रीव्रतसमाप्तिं कृत्वा भर्त्रा सह सावित्र्या स्वाश्रमे गमनम्, सावित्री- व्रतविधिपूजादानादिमाहात्म्यवर्णनम्, सावित्रीव्रतोद्यापनादिकथनम् ॥

१६७ भूतमातृकामाहात्म्यवर्णने चाक्षुषमन्वन्तरे दक्षशापात्पर्वतकुले पार्वतीजन्मवर्णनम्, पार्वतीशंकरविवाहोत्तरं दिव्यवर्षसहस्रपर्यन्तं तयोः क्रीडमानयोः पार्वत्या रजसः सकाशादेकस्या नार्या उत्पत्तिवर्णनम्, तस्या नार्याः स्वरूपवर्णनम्, तस्या अन्यासां सखीनां नामवर्णनम्, तथैव शिववीर्यत एकस्य पुरुषस्योत्पत्तिवर्णनम्, शंकरेण तयोः शिवपुत्रयोः प्रभासे गन्तुमाज्ञाकरणम् , तयोर्वासे स्थानदान- करणम्, प्रतिपत्प्रभृतिदेव्युत्सववर्णनम्, तस्या भूतमातुः शरीरतः पञ्चकोटि- संख्याकपिशाचोत्पत्तिवर्णनम् , भूतमातृकामाहात्म्यवर्णनम् ॥

१६८ शालकटंकटामाहात्म्यवर्णनम् ॥

१६९ वैवस्वतेश्वरलिंगमाहात्म्यवर्णनम् ॥
 
१७० मातृगणबलदेवीमाहात्म्यवर्णनम् ॥

१७१ दशरथेन तपस्तप्त्वा दशरथेश्वरनाम्ना लिंगसंस्थापनम्, दशरथेश्वरमाहात्म्य- वर्णनम ॥१

१७२ भरतेश्वरलिंगमाहात्म्य आग्नीध्रपुत्रेण भरतेन नवधा द्वीपविभागं कृत्वा स्वस्य नव- पुत्राणामाधिपत्ये प्रकल्पनम् , तत्र नवमे कौमारिकाद्वीपे प्रभासे भरतेन भरतेश्वर-स्थापनम्, भरतेश्वरमाहात्म्यवर्णनम् ॥

१७३ कुशकेश्वरगर्गेश्वरपुष्करेश्वरमैत्रेयेश्वरमाहात्म्यवर्णनम् ॥

१७४ प्रभासे कुन्तीसमन्वितपाण्डवागमनसमये कुन्तीस्थापितकुन्तीश्वरमाहात्म्यवर्णनम् ॥

१७५ अर्कस्थलमाहात्म्यवर्णनम् ॥

१७६ सिद्धेश्वरमाहात्म्यवर्णनम् ॥

१७७ लकुलीशमाहात्म्यवर्णनम् ॥

१७८ भार्गवेश्वरमाहात्म्यवर्णनम् ॥

१७९ माण्डव्येश्वरलिंगमाहात्म्यवर्णनम् ॥

१८० पुष्पदन्तेश्वरलिंगमाहात्म्यवर्णनम् ॥

१८१ क्षेत्रपालेश्वरमाहात्म्यवर्णनम् ॥

१८२ वसुनन्दामातृगणश्रीमुखविवरमाहात्म्यवर्णनम् ॥

१८३ त्रिसंगममाहात्म्यवर्णनम् ॥

१८४ मंकीश्वरमाहात्म्यवर्णनम् ॥

१८५ देवमातृगौरीमाहात्म्यवर्णनम् ॥

१८६ यादवक्षयं विधाय पञ्चतां गतं कृष्णं श्रुत्वा बलभद्रस्य प्रभासे गमनम्, तत्र लिंग-स्थापनम्, ततो नागरूपं धृत्वा बलभद्रस्य पाताले बिलद्वारेण गमनात्तस्य लिंगस्य नागेश्वरेति नामस्थापनम्, नागेश्वरलिंगमाहात्म्यवर्णनम् ॥

१८७ प्रभासपञ्चक माहात्म्यवर्णनम्, तत्र भिक्षार्थं शिवस्य दारुकवने गमनम्, दारुक-वने भ्राम्यतः शिवस्य रूपं दृष्ट्वा तत्रत्यानां नारीणां कामोद्दीपनवर्णनम्, ततः कोपयुक्तैस्तत्पतिभिर्नग्नं शिवं दृष्ट्वा शिवाय शापदानम्, तेन शापेन तत्रैव शिवलिंगपतनम्, तल्लिंगपतनेन भूम्याः कंपनवर्णनम्, ततो महार्णवप्लाव-नादिसर्वब्रह्माण्डक्षयं दृष्ट्वा भीतैर्देवैर्विष्णुसमीपे गमनम्, ततो विष्णुवचनात्सर्वदेवानां प्रभासे गमनम्, तत्रैव तस्य लिंगस्य स्थापनम्; प्रभासपञ्चकमाहात्म्य-वर्णनम् ॥

१८८ रुद्रेश्वरमाहात्म्यवर्णनम् ॥

१८९ कर्ममोटीमाहात्म्यवर्णनम् ॥

१९० मोक्षस्वामिमाहात्म्यवर्णनम् ॥

१९१ अजीगर्तेश्वरमाहात्म्यवर्णनम् ॥

१९२ विश्वकर्मेश्वरमाहात्म्यवर्णनम् ॥

१९३ यमेश्वरमाहात्म्यवर्णनम् ॥


१९४ अमेरश्वरमाहात्म्यवर्णनम् ॥

१९५ वृद्धप्रभासमाहात्म्यवर्णनप्रस्ताव ऋषीणां देवदर्शनार्थं प्रभासे गमनम्. तत्र वज्रेणाच्छादितं देवं दृष्ट्वा ऋषिभिर्विषादकरणम् , ऋषिभिर्लिंगदर्शनविषयकनश्चयं कृत्वा तपःकरणम्, तपः कुर्वतामृषीणां जराप्राप्तिः, ततस्तुष्टेन देवेन तेभ्यो लिंग-दर्शनदानम्, ऋषीणां लिंगदर्शनोत्तरं स्वस्वस्थानेषु प्रयाणम् , ऋषीणां वृद्धभावेनतपसा लिंगदर्शनाद्वृद्धप्रभासेतिनामकरणम् , वृद्धप्रभासलिंगमाहात्म्यवर्णनम् ॥

१९६ परशुरामेण तपस्तप्त्वा लिंगस्थापनाकरणम्, जलप्रभासलिंगमाहात्म्यवर्णनम् ॥

१९७ जमदग्नीश्वरलिंगमाहात्म्यवर्णनम् ॥

१९८ पञ्चप्रभासक्षेत्रमाहात्म्यवर्णनम् ॥

१९९ कृतस्मरमाहात्म्यवर्णने प्रथमं दक्षस्य शतसंख्याकानां सुतानां व्यवस्थाकरणवर्ण-नम्, ततो दक्षेण यज्ञ आरब्धे पार्वत्या स्वापमानं दृष्ट्वा स्वदेहत्यागकरणम्, ततः क्रुद्धेन शिवेन वीरभद्रं समुत्पाद्य सैन्यैः सह तस्य वीरभद्रस्य दक्षयज्ञविध्वंसाय प्रेषणम्, तत्र युद्धे प्रवृत्ते वीरभद्रेण पराजितानां देवानां विष्णुसमीपे क्षीराब्धौ गमनम्, ततो विष्णुना वीरभद्रेण सह युद्धकरणम्, तत्र किञ्चिद्वीरभद्रपराजयं दृष्ट्वा क्रुद्धस्य शिवस्य तत्रागमनम्, आगतं शिवं दृष्ट्वा विष्ण्वादिदेवैः पलायन-करणम्, ततः शिवेन दक्षयज्ञविध्वंसकरणम् ॥

२०० ततस्तारकपीडितैर्देवैर्ब्रह्मणः समीपे गमनम्, ब्रह्माज्ञया शिवमनसि कामोद्दीपनं कर्तुं कामदेवस्य देवैः प्रेषणम्, स्वोपाधिकारिणं कामं दृष्ट्वा शिवेन भस्मीकरणम्, ततः पतिविरहशोकाकुलाया रत्या नभोवाण्या सान्त्वनकरणम्, तत्र लिंगस्थापनम् , कामकुण्डापरनामककृतस्मरमाहात्म्यवर्णनम् ॥

२०१ कालभैरवश्मशानमाहात्म्यवर्णनम् ॥

२०२ कस्मिंश्चित्समये कौरवपाण्डवीये युद्धे प्रवृत्ते बलभद्रस्य यात्रार्थं सुरापानं पीत्वा वने गमनम्, तत्र ऋष्याश्रमे बहून्स्थितानृषीन्सूतं च दृष्ट्वा तथैव स्वमनादृत्य सूतपूजनकरणे प्रवृत्ताञ्जनान्दृष्ट्वा स्वापमान्मसहमानेन बलभद्रेण सूतवधकरणम्, तत उत्तरं बलभद्रे पश्चात्तापेन शोकं कुर्वति नभोगतवाण्या कृतां सूचनां समाकर्ण्य प्रभासमेत्य दोषदूरीकरणार्थं तपस्तप्त्वा स्वनाम्ना लिंगस्थापनम्, रामे-श्वरलिंगमाहात्म्यवर्णनम् ॥

२०३ मंकीश्वरमाहत्म्यवर्णनप्रस्तावे मंकिना कुब्जत्वनिरासाय प्रभासे लिंगस्थापनम् , मंकीश्वरलिंगमाहात्म्यवर्णनम् ॥

२०४ सरस्वतीसागरसंगममाहात्म्यवर्णनम् ॥

२०५ श्राद्धविधिकथने श्राद्धकालकथनम्, सप्तविधद्रव्यशुद्धिवर्णनम्, श्राद्धार्हदिनवर्णनम्, पार्वणार्दानां व्याख्याकरणम्, श्राद्धार्हानर्हब्राह्मणवर्णनम्, श्राद्धीय-ब्राह्मणपरीक्षणकथनम् ॥

२०६ श्राद्धविधिवर्णने मौनविधिप्राशस्त्यवर्णनम् , श्राद्धीयान्नवर्णनम्, श्राद्धीयमासादिग्रहणकालीनिर्णयवर्णनम्, श्राद्धकर्मणि साहित्यवर्णनम्, श्राद्धविधिवर्णनम् ॥

२०७ श्राद्धे वस्त्रान्नादिदानफलमाहात्म्यवर्णनम्, दानकर्मणि पात्रापात्रविचारकरणम्, वर्णाश्रमधर्मकथनम्, आपत्तिकालिकधर्माचरणकथनम्, श्राद्धदिने मैथुनादिकरणे दोषकथनम् ॥

२०८शस्ताशस्तदानविचारकरणम्, एकादशीव्रतविधानकथनम् ,षट्पिण्डादिनिर्णयकरणम् ॥

२०९ मार्कण्डेयेश्वरमाहात्म्यवर्णनम् ॥

२१० पुलस्त्येश्वरमाहात्म्यवर्णनम् ॥

२११ पुलहेश्वरमाहात्म्यवर्णनम् ॥

२१२ क्रत्वीश्वरमाहात्म्यवर्णनम् ॥

२१३ कश्यपेश्वरमाहात्म्यवर्णनम् ॥

२१४ कौशिकेश्वरमाहात्म्यवर्णनम् ॥

२१५ कुमारेश्वरमाहात्म्यवर्णनम् ॥

२१६ गौतमेश्वरमाहात्म्यवर्णनम् ॥

२१७ देवराजेश्वरमाहात्म्यवर्णनम् ॥

२१८ मानवेश्वरमाहात्म्यवर्णनम् ॥

२१९ मार्कण्डेयसमीपस्थनीलकण्ठेश्वरमाहात्म्यवर्णनम ॥

२२० वृषभध्वजेश्वरलिंगमाहात्म्यवर्णनम् ॥

२२१ ऋणमोचनेश्वरमाहात्म्यवर्णनम् ॥

२२२ रुक्मवतीश्वरमाहात्म्यवर्णनम् ॥

२२३ बलभद्रेण तत्र स्वगात्रत्यागाद्गात्रोत्सर्गेति नाम्ना प्रकटीभवनम्, गात्रोत्सर्गलिंगमा-हात्म्यवर्णनम्, गात्रोत्सर्गतीर्थे श्राद्धादिकरणमाहात्म्यवर्णनम्, तत्र प्रेततीर्थवर्णने गौतमस्य गात्रोत्सर्गतीथें गमनम्, तत्र पथि वैष्णववनस्य गौतमेन दर्शनकरणम्, तत्र वने पंचप्रेतान्दृष्ट्वा गौतमेन भयकरणम्, गौतमप्रेतसंवादः, गौतमाय प्रेतैः स्वेषां वृत्तान्तकथनम्, प्रेतैः प्रेतत्वापादकस्वकीयकर्मकारणकथनम्, प्रेततो मुक्ति-कारणं श्रुत्वा तदाज्ञया गौतमेन प्रभासे प्रेततीर्थमेत्य तेषांतेषां श्राद्धकरणम्, तेन तेषां प्रेतानां मुक्तिकथनम्, प्रेततीर्थमाहात्म्यवर्णनम् ॥

२२४ इन्द्रेश्वरमाहात्म्यवर्णनम् ॥

२२५ अनरकेश्वरमाहात्म्यवर्णने मथुरावासिनं देवशर्मब्राह्मणमानेतुं यमेन स्वदूतेभ्य आज्ञा-करणम्, ततस्तमानीतं देवशर्माणं दृष्ट्वा नायमानेतुमर्ह इति यमेन पुनः स्वदूता-न्प्रत्याज्ञाकरणम्, तेन ब्राह्मणेन भुवि गन्तुं स्वस्यानिच्छाप्रदर्शनम्, ततस्तेन ब्राह्मणेन पृष्टेन यमेन तस्मै ब्राह्मणाय नरकवर्णनम्, नरकप्रापकपापादिदोष-वर्णनम्, कर्मविपाककथनम्, नरकविनाशकपुण्योपायकथनम्, अनरकेश्वरमाहा-त्म्यवर्णनम् ॥

२२६ मेधेश्वरमाहात्म्यवर्णनम् ॥

२२७ बलभद्रेश्वरमाहात्म्यवर्णनम् ॥

२२८ भैरवेश्वरमातृगणमाहात्म्यवर्णनम् ॥

२२९ गङ्गामाहात्म्यवर्णनम् ॥

२३० गणपतिमाहात्म्यवर्णनम् ॥

२३१ जाम्बवतीनदीमाहात्म्यवर्णनम् ॥

२३२ पाण्डवकूपमाहात्म्यवर्णनम् ॥

२३३ पाण्डवेश्वरमाहात्म्यवर्णनम् ॥

२३४ भरतेन प्रभासे दशसंख्याकानश्वभेधान्कृत्वा लिंगस्थापनम्, दशाश्वमेधिकतीर्थलिंगमाहात्म्यवर्णनम् ॥१

२३५ शतमेधादिलिंगत्रयमाहात्म्यम् ॥

२३६ दुर्वाससा स्थापितस्य दुर्वासेश्वरस्य लिंगस्य माहात्म्यवर्णनम ॥

२३७ स्त्रीस्वरूपधारिसांबद्वारा यादवैर्ऋषिवञ्चनकरणम्, कोपाविष्टैर्ऋषिभिर्यादवा-न्धकेभ्यः कुलनाशजनकशापदानम्, तत एरकाभिर्यादवकुलनाशवर्णनम्, ततो निखिलयादवानां नाशोत्तरमवशिष्टेन वज्रसंज्ञकेन यादवेन तेषां यादवानामुत्तर-क्रियां कृत्वा प्रभासमेत्य लिंगस्थापनम्, वज्रेश्वरलिंगमाहात्म्यवर्णनम् ॥

२३८ हिरण्यानदीमाहात्म्यवर्णनम् ॥

२३९ स्यमन्तकाख्यानवर्णनपूर्वकनागरादित्यमाहात्म्यवर्णनम् ॥

२४० बलभद्रसुभद्राकृष्णमाहात्म्यवर्णनम् ॥

२४१ शेषमाहात्म्यवर्णनम् ॥

२४२ चण्डमुण्डादिवधवर्णनपुरःसरकुमारीमाहात्म्यवर्णनम् ॥२

२४३ मन्त्रावलिक्षेत्रपालमाहात्म्यवर्णनम् ॥

२४४ विचित्रेश्वरमाहात्म्यवर्णनम् ॥

२४५ महेश्वरमाहात्म्यवर्णनम् ॥

२४६ पिंगानदीमाहात्म्यवर्णनम् ॥

२४७ पिंगलादित्यपिंगादेवीशुक्रेश्वरमाहात्म्यवर्णनम् ॥

२४८ ब्रह्मेश्वरमाहात्म्यवर्णनम् ॥

२४९ संगमेश्वरमाहात्म्यवर्णनम् ॥

२५० गंगेश्वरमाहात्म्यवर्णनम् ॥

२५१ शंकरादित्यमाहात्म्यवर्णनम् ॥

२५२ शंकरनाथमाहात्म्यवर्णनम् ॥

२५३ गुफेश्वरमाहात्म्यवर्णनम् ॥

२५४ घटेश्वरमाहात्म्यवर्णनम् ॥

२५५ कस्मिंश्चित्समयेऽवर्षणत्वात्क्षुत्क्षामानृषीन्दृष्ट्वा वृषादर्भिसंज्ञकेन राज्ञा धान्यादिदाने कृतेऽपि तैर्ऋषिभिस्तद्धनधान्यादिकं राजप्रतिग्रहमिति निषिध्य त्यक्त्वा ततो निर्गत्य तीर्थयात्रार्थं गमनम्, किञ्चिद्दूरं गत्वा सरसि बिसानि दृष्ट्वा तान्यादाय तीरे स्थापयित्वा नित्याह्निककरणम, तदा केनापि तानि बिसानि हृतानीति ज्ञात्वा सर्वर्षिभिः सत्यत्वेन शपथकरणम्, तत्र शक्रेण शुनोमुखरूपेणागत्य बिसादिहरणं कृतमिति ज्ञात्वा शक्रेण तेभ्यो वरप्रदानम्, तत्रैव ऋषितीर्थनाम्ना कुण्डस्थापनम, ऋषितीर्थमाहात्म्यवर्णनम् ॥

२५६ कुष्ठव्याप्तेन नंदेन राज्ञा सूर्यमाराध्य स्थापनाकरणम्, नन्दादित्यमाहात्म्यवर्णनम् ॥

२५७ सौराष्ट्रदेशाधिपत्यात्रेयसंज्ञकराजस्यैकतद्वितत्रितेतिपुत्रत्रये पितर्युपरते सर्वविद्या-निष्णातस्य त्रितपुत्रस्य राज्ये स्थापनम, तेन त्रितेन सह मत्सरं कृत्वा एकतद्वि-ताभ्यां त्रितस्य कूपे निक्षेपकरणम्, ततस्त्रितेन तत्र मंत्रैर्देवानावाह्य मंत्रोच्चारै-रेव तेषां संतुष्टिकरणम्, तेन तुष्टैर्देवैस्तस्मात्कूपतस्त्रितस्य बहिर्निःसारणम्, त्रितकूपोत्पत्तिवर्णनम्, त्रितकूपे श्राद्धादिकरणेन पुण्यमाहात्म्यवर्णनम्, त्रितकूप-तीर्थमाहात्म्ययवर्णनम् ॥

२५८ देवासुरैः समुद्रमंथनं कृत्वाऽमृतं निर्माय चंद्रं विना सर्वदेवैरमृतभक्षणोत्तरम् अवशिष्टममृतं शशकेन भक्षितं दृष्ट्वा अमरत्वप्राप्त्यनंतरं चंद्रस्य भयकरणम्, ततश्चन्द्रस्या-, मृतमलब्ध्वा देवाज्ञया ऽमृतमिश्रिततटाकस्थित जलपानं कुर्वतस्तस्य हृदयेऽमृतप्राशनकारि शशकस्य गमनम्, तत्रैव स्थले कूपं खनित्वा शशापानकूपेतिनामकरणम्, शशापानमाहात्म्यवर्णनम् ॥

२५९ पर्णादित्यमाहात्म्यवर्णनम् ॥

२६० सिद्धेश्वरमाहात्म्यवर्णनम् ॥

२६१ न्यंकुमतीमाहात्म्यवर्णनम् ॥

२६२ वाराहस्वामिमाहात्म्यवर्णनम् ॥

२६३ छायालिंगमाहात्म्यवर्णनम् ॥

२६४ नंदिनीगुफामाहात्म्यवर्णनम् ॥

२६५ कनकनंदामाहात्म्यवर्णनम् ॥

२६६ कुम्भीश्वरमाहात्म्यवर्णनम् ॥

२६७ गंगापथगंगेश्वरमाहात्म्यवर्णनम् ॥

२६८ चमसोद्भेदमाहात्म्यवणर्नम् ॥

२६९ विदुराश्रममाहात्म्यवर्णनम् ॥

२७० मङ्कणकेन महर्षिणा प्राचीसरस्वतीमेत्य तपःकरणम्, तपःसिद्धेन तेन कराच्छाक-रसनिर्गनेनाश्चर्यचकितेन नृत्यकरणम्, तस्मिन्मङ्कणके नृत्यति सर्वं ब्रह्माण्डं नृत्यमानं जातमिति मत्वा शंकरेण तत्रागत्य मंकणकं प्रति नृत्यकारणे पृष्टे मंकणकान्नृत्यकारणं ज्ञात्वा स्वहस्ततो भस्मोत्पत्तिकरणम्, तेन मंकणकेन तद्दृष्ट्वा साश्चर्येण सता नृत्यतो विरमणम्, ततः शंकरवचनतो लिंगस्थापन, प्राचीसरस्वतीमंकेश्वरलिंगमाहात्म्यवर्णनम् ॥

२७१ ज्वालेश्वरमाहात्म्यवर्णनम् ॥

२७२ त्रिपुरलिंगत्रयमाहात्म्यवर्णनम ॥

२७३ शंडतीर्थमाहात्म्यवर्णनम् ॥

२७४ सूर्यप्राचीमाहात्म्यवर्णनम् ॥

२७९ त्रिनेत्रेश्वरमाहात्म्यवर्णनम् ॥

२७६ देविकायामुमापतिमाहात्म्यवर्णनम् ॥

२७७ भूधरयज्ञवराहमाहात्म्यवर्णनम् ॥

२७८ वैशाखनामकेन केनचिद्विप्रेण स्वधर्मं त्यक्त्वा व्याधधर्मेण कुटुंबपोषणकरणम्, एकदा मार्गे सप्तर्षीन्दृष्ट्वा तन्नाशनोद्योगकरणम्, ततो मुनिभिस्तं वैशाखं नीति-मार्गेणोपदिश्य तस्मै मंत्रोपदेशकरणम्, तन्मन्त्रप्रभावेण तस्य वाल्मीकिनामप्रा-प्तिवर्णनम्, तेन वाल्मीकिना मुनिवचनाद्देविकापूजनेन सिद्धिप्राप्तिवर्णनम्, देवि-कामाहात्म्यवर्णनम्, मूलस्थानमाहात्म्यवर्णनम् ॥

२७९ सूर्याष्टोत्तरशतनामावलिवर्णनम्, च्यवनादित्यमाहात्म्ये सूर्याष्टोत्तरशतनामपठनफ-लश्रुतिवर्णनम् ॥

२८० च्यवनेश्वरमाहात्म्यवर्णनम् ॥

२८१ अश्विभ्यां सुकन्यायै प्रश्नकरणम्, सुकन्यया स्वपतेः सुरूपतारुण्यप्राप्तये तयोः प्रार्थनाकरणम्, ततोऽश्विनोर्वचनाच्च्यवनस्याश्विभ्यां सह कुण्डे स्नानकरणेन सुस्वरूपत्वप्राप्तिवर्णनम्, च्यवनेश्वरमाहात्म्यवर्णनम् ॥

२८२ च्यवनमहर्षिणा स्वोपकारकरयोरश्विनीकुमारयोर्यज्ञभागाधिकारसंपादनार्थं शर्या-तिद्वारा यज्ञकरणम्, तत्र यज्ञे च्यवनेन नासत्ययज्ञभागप्रतिरोधकवज्रमोचनोद्य तशक्रनाशाय कृत्योद्भवमदनामकमहासुरोत्पादनवृत्तान्तवर्णनम् ॥

२८३ स्वोपरि प्राप्तं मददैत्य दृष्ट्वा शक्रेण च्यवनर्षेः प्रार्थनाकरणम्, ततश्च्यवनेन शक्रो-परि दयां विधाय शक्रापराधक्षमापणम्, च्यवनेश्वरमाहात्म्यवर्णनम् ॥

२८४ सुकन्यासरोमाहात्म्यवर्णनम ॥

२८५ कपटेन मेषरूपधारिणो वातापेरगस्तिना भक्षणकरणादिवृत्तान्तकथनम्, अगस्त्या-श्रमगंगेश्वरमाहात्म्यवर्णनम् ॥

२८६ अगस्त्येश्वरोत्तरस्थबालार्कमाहात्म्यवर्णनम् ॥

२८७ अजापालेश्वरीमाहात्म्यवर्णनम् ॥

२८८ अगस्त्याश्रमपूर्वस्थबालार्कमाहात्म्यवर्णनम् ॥

२८९ पातालगंगेश्वरविश्वामित्रेश्वरबालेश्वराभिधलिंगत्रयमाहात्म्यवर्णनम् ॥

२९० कुबेरनगरोत्पत्तिकुबेरस्थापितसोमनाथमाहात्म्यवर्णनम् ॥

२९१ भद्रकालीमाहात्म्यवर्णनम् ॥

२९२ भद्रकालीबालार्कमाहात्म्यवर्णनम् ॥

२९३ कुबेरस्थानोत्पत्तिकुबेरमाहात्म्यवर्णनम् ॥

२९४ पुष्पेश्वरमाहात्म्यवर्णनपूर्वकमजोगन्धेश्वरमाहात्म्यवर्णनम् ॥

२९५ चन्द्रोदकतीर्थमाहात्म्यवर्णनपूर्वकमिन्द्रेश्वरमाहात्म्यवर्णनम ॥

२९६ ऋषितोयानदीमाहात्म्यवर्णनम् ॥

२९७ सर्वर्षिभिर्ब्रह्मणः स्तुतिकरणम्, ततस्तुष्टेन ब्रह्मणा देवदारुवने रस्वतीप्रेषणम्, तत्रैवर्षिभिस्तपःकरणम्, ऋषितोयोत्पत्तिवर्णनम्, ऋषितोयामाहात्म्यवर्णनम् ॥

२९८ ब्राह्मवैष्णवरौद्रेतिकुण्डत्रयवर्णनम्, गुप्तप्रयागमाहात्म्यवणर्नम् ॥

२९९ माधवमाहात्म्यवर्णनम् ॥

३०० सङ्गालेश्वरमाहात्म्यवर्णनम् ॥

३०१ सिद्धेश्वरमाहात्म्यवर्णनम् ॥

३०२ गन्धर्वेश्वरमाहात्म्यवर्णनम् ॥

३०३ उत्तरेश्वरमाहात्म्यवर्णनम् ॥

३०४ संगालेश्वरसमीपवर्तिगंगामाहात्म्यवर्णनम् ॥

३०५ नारदेन सांबेनानादृतमात्मानं दृष्ट्वा सांबाय शापदानम्, सांबेनापि नारदाय 'जरा-युक्तो भव इति शापप्रदानम्, नारदेन जराविनाशाय आदित्यपूजनकरणम्, तत्रैव प्रभासे लिंगस्थापनम्, नारदादित्यमाहात्म्यवर्णनम् ॥

३०६ तत्र प्रभासे स्वशापदूरीकरणाय सांबेन तपस्तप्त्वा लिंगस्थापनम्, सांबादित्य-माहात्म्यवर्णनम् ॥

३०७ अपरनारायणमाहात्म्यवर्णनम् ॥

३०८ मूलचण्डीशोत्पत्तिमाहात्म्यवर्णनम् ॥

३०९ चतुर्मुखविनायकमाहात्म्यवर्णनम् ॥

३१० कंबलेश्वरमाहात्म्यवर्णनम् ॥

३११ गोपालस्वामिहरिमाहात्म्यवर्णनम् ॥

३१२ बकुलस्वामिमाहात्म्यवर्णनम्. ॥

३१३ उत्तरार्कमाहात्म्यवर्णनम् ॥

३१४ ऋषितीर्थसंगममाहात्म्यवर्णनम ॥

३१५ मरुदार्यादेवीमाहात्म्यवर्णनम् ॥

३१६ क्षेमादित्यमाहात्म्यवर्णनम् ॥

३१७ कंटकशोषणीमाहात्म्यवर्णनम् ॥

३१८ ब्रह्मेश्वरमाहात्म्यवर्णनम् ॥

३१९ उन्नतस्थानमाहात्म्यवर्णनम ॥

३२० लिंगद्वयमाहात्म्यवर्णनम् ॥

३२१ ब्रह्ममाहात्म्यवर्णनम् ॥

३२२ दुर्गादित्यमाहात्म्यवर्णनम् ॥

३२३ क्षेमेश्वरमाहात्म्यवर्णनम् ॥

३२४ गणनाथमाहात्म्यवर्णनम् ॥

३२५ उन्नतस्वामिमाहात्म्यवर्णनम् ॥

३२६ महाकालमाहात्म्यवर्णनम् ॥

३२७ महोदयमाहात्म्यवर्णनम् ॥

३२८ संगमेश्वरमाहात्म्यवणर्नम् ॥

३२९ उन्नतविनायकमाहात्म्यवर्णनम् ॥

३३० तलस्वामिमाहात्म्यवर्णनम् ॥

३३१ कालमेघमाहात्म्यवर्णनम ॥

३३२ रुक्मिणीमाहात्म्यवर्णनम् ॥

३३३ पिंगेश्वरभद्रामाहात्म्यवर्णनम् ॥

३३४ शंकराङ्गत उत्पन्नेन तलाख्यदैत्येन देवपराजयकरणम्, ततो देवैर्विष्णुम् आराध्य स्वदुःखनिवेदनकरणम्, ततो विष्णुना समं तलस्य युद्धम्, तयोर्युद्धे प्रवृत्ते श्रांतस्य विष्णोः श्रमविनाशाय हरेण तप्तोदकुण्डनिर्माणकरणम्, तत्र तप्तोदकुण्डे स्नानकरणेन श्रमरहितेन विष्णुना तलस्य कंधरे समाक्रान्ते तलेन हास्यकरणम्, तद्दृष्ट्वा विष्णुना तलाय वरप्रदानम्, तलवचनात्तलस्वामीतिनाम्ना स्थापनाकरणम्, तलस्वामिमाहात्म्यवर्णनम् ॥

३३५ शंखावर्ततीर्धमाहात्म्यवर्णनम् ॥

३३६ गोष्पदतीर्थमाहात्म्यवर्णने अंगपुत्राद्वेनराजतः पृथोरुत्पत्तिवर्णनम्, पृथुना भक्षितबीजोत्पादनार्थं गोरूपपृथिवीदोहनवर्णनम्, पुत्रवत्पृथुना प्रजापालनकरणम, स्वपितुः पापकर्माणि संस्मृत्यसंस्मृत्य तत्क्षालनाय पृथुना बहुतीर्थक्षेत्रेषु गमनम्, कुत्रापि पितुः पापक्षालनं नैवेति मत्वा पृथुना गोष्पदे गमनम्, पृथुना गोष्पदतीर्थे स्नानादिकरणेन तस्य पितुः सर्वपापं तं विधूय मोक्षप्राप्तिः, गोष्पदतीर्थमाहात्म्यवर्णनम् ॥

३३७ नारायणगृहमाहात्म्यवणर्नम् ॥

३३८ सरस्वत्युदक आपस्तम्बर्षेस्तपःकरणम्, तत्र धीवरैर्जालानि प्रसार्य मत्स्यैः सह जालेनापस्तंबर्षेर्बहिर्निःसारणम्, तदा धीवरैर्भयभीतैरापस्तम्बस्य प्रार्थनाकरणम्, आपस्तम्बमूल्यदानविषये नाभागाम्बरीषसंवादे गोदानमाहात्म्यवर्णनम्, तत्रैव जालेश्वरेतिनाम्ना लिंगस्थापनम्, जालेश्वरलिंगमाहात्म्यवर्णनम् ॥

३३९ हुंकारकूपमाहात्म्यवर्णनम् ॥

३४० चण्डीश्वरमाहात्म्यवर्णनम् ॥

३४१ आशापूरविघ्नराजमाहात्म्यवर्णन्म् ॥

३४२ चन्द्रेश्वरकलाकुण्डतीर्थमाहात्म्यवर्णनम् ॥

३४३ कपिलधाराकपिलेश्वरकपिलाषष्ठीव्रतविधानमाहात्म्यवर्णनम् ॥

३४४ जरद्गवेश्वरमाहात्म्यवर्णनम् ॥

३४५ नलेश्वरमाहात्म्यवर्णनम् ॥

३४६ कर्कोटकार्कमाहात्म्यवर्णनम् ॥

३४६ हाटकेश्वरमाहात्म्यवर्णनं ॥

३४७ नारदेश्वरीमाहात्म्यवर्णनम् ॥

३४८ मंत्रविभूषणागौरीमाहात्म्यवर्णनम् ॥

३४९ दुर्गकूटगणपतिमाहात्म्यवर्णनम् ॥

३५० कौरवेश्वरीमाहात्म्यवर्णनम् ॥

३५१ सुपर्णेलामाहात्म्यवर्णनम् ॥

३५२ भल्लतीर्थमाहात्म्यवर्णनम् ॥

३५३ कर्द्दमालमाहात्म्यवर्णनम् ॥

३५४ गुप्तेश्वरमाहात्म्यवर्णनम् ॥

३५५ बहुसुवर्णेश्वरमाहात्म्यवर्णनम् ॥

३५६ शृंगेश्वरमाहात्म्यवर्णनम् ॥

३५७ कोटीश्वरमाहात्म्यवर्णनम् ॥

३५८ नारायणतीर्थमाहात्म्यवर्णनम ॥

३५९ शृंगारेश्वरमाहात्म्यवर्णनम् ॥

३६० मार्कण्डेश्वरमाहात्म्यवर्णनम् ॥

३६१ कोटिह्रदमण्डूकेश्वरमाहात्म्यवर्णनम् ॥

३६२ एकादशरुद्रलिंगमाहात्म्यवर्णनम् ॥

३६३ हिरण्यातुण्डपुरघर्घरह्रदकन्देश्वरमाहात्म्यवर्णनम् ॥

३६४ संवर्तेश्वरमाहात्म्यवर्णनम् ॥

३६५ प्रकीर्णस्थानलिंगमाहात्म्यवर्णनम् ॥

इति प्रभासखण्डे प्रथमं प्रभासक्षेत्रमाहात्म्यम् ॥

N/A

References : N/A
Last Updated : February 04, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP