संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ४१

प्रभासक्षेत्र माहात्म्यम् - अध्याय ४१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
तस्यैव पूर्वदिग्भागे सरस्वत्या प्रतिष्ठितम् ॥
लिंगं महाप्रभावं तु सोमेशादग्निगोचरे ॥१॥
भैरवेश्वररूपस्तु वाडवः कुम्भसंस्थितः ॥
यत्र देव्या समानीतः सागरस्य समीपतः ॥२॥
विश्रामार्थं क्षणं मुक्त्वा देव्या लिंगं प्रतिष्ठितम् ॥
समभ्यर्च्य विधानेन गृहीत्वा वडवानलम्॥
समुद्रमध्ये चिक्षेप देवानां हितकाम्यया ॥३॥
ततो हृष्टतरा देवाः शंखदुन्दुभिनिःस्वनैः ॥
पूरयन्तोंऽबरं देवीमीडिरे पुष्पवृष्टिभिः ॥४॥
देवमातेति ते नाम कृत्वोचुस्तां तदा सुराः ॥
कृत्वा तु भैरवं कार्यमसाध्यं देवदानवैः ॥५॥
प्रतिष्ठितवती चात्र यस्माल्लिंगं महोदयम् ॥
त्वं सर्वसरितां श्रेष्ठा सर्वपातकनाशिनी ॥
तस्माद्भैरवनामेति लिंगं ख्यातिं गमिष्यति ॥६॥
इत्युक्ता तु तदा देवी भैरवेश्वरनैर्ऋते ॥
सागरस्य स्थिता रम्ये तत्र मूर्त्तिमती सती ॥७॥
पूजयेत्तां विधानेन तं तथा भैरवेश्वरम् ॥
महानवम्यां यत्नेन कृत्वा स्नानं विधानतः ॥
सरस्वतीं पूजयित्वा वाग्दोषान्मुच्यतेऽखिलात् ॥८॥
तस्या लिंगं तु संपूज्य संस्नाप्य पयसा पृथक् ॥
अघोरेणैव विधिवत्सम्यग्यात्राफलं लभेत् ॥९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये भैरवेश्वरमाहात्म्यवर्णनंनामैकचत्वारिंशोऽध्यायः ॥४१॥॥

N/A

References : N/A
Last Updated : January 07, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP