संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ३४४

प्रभासक्षेत्र माहात्म्यम् - अध्याय ३४४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि लिंगं पापप्रणाशनम् ॥
कपिलेश्वरस्यैशान्यामुत्तरेण व्यवस्थितम् ॥१॥
जरद्गवेश्वरंनाम जरद्गवप्रतिष्ठितम् ॥
ब्रह्महत्यादि पापानां नाशनं नात्र संशयः ॥२॥
तत्रैव संस्थिता देवि देवी अंशुमती नदी ॥
तत्र स्नात्वा विधानेन पिडदानं तु दापयेत् ॥३॥
वर्षकोटिशतं साग्रं पितॄणां तृप्तिमावहेत् ॥
वृषभस्तत्र दातव्यो ब्राह्मणे वेदपारगे ॥४॥
ततस्तु पूजयेद्देवं गन्धपुष्पैर्जरद्गवम् ॥
पञ्चामृतरसेनैव तथा गुग्गु लुधूपनैः ॥५॥
स्तुतिदण्डनमस्कारैः प्रदक्षिणैरहर्निशम् ॥
ब्राह्मणान्भोजयेत्तत्र भक्ष्यभोज्यैः पृथग्विधैः ॥
एकेन भोजितेनैव कोटिर्भवति भोजिता ॥६॥
कृते सिद्धोदकंनाम तत्तीर्थं परिकीर्त्तितम् ॥
जरद्गवेश्वरं तीर्थं कलौ तु परिकीर्त्यते ॥७॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येंऽशुमतीमाहात्म्ये जरद्गवेश्वरमाहात्म्यवर्णनंनाम चतुश्चत्वारिंशदुत्तरत्रिशततमोऽध्यायः ॥३४४॥

N/A

References : N/A
Last Updated : January 13, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP