प्रभासक्षेत्र माहात्म्यम् - अध्याय ३०३
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि उत्तरे देवमुत्तमम् ॥
यस्तमाराधयेद्देवं महापातकनाशनम् ॥ ॥१॥
तस्यैव पश्चिमे भागे धनुषां त्रितये स्थितम् ॥
शेषादिप्रमुखैर्नागैर्महता तपसा युतैः ॥
समाराध्य महादेवं स्थापितं लिंगमुत्तमम् ॥२॥
यस्तमाराधयेद्देवं सर्पैराराधितं पुरा ॥
न विषं क्रमते देहे तस्य जन्मावधि प्रिये ॥३॥
सर्पास्तस्य प्रसीदन्ति न कुंथंति कदाचन ॥
तस्मात्सर्वं प्रयत्नेन तल्लिंगं पूजयेन्नरः ॥४॥
तत्र लिंगान्यनेकानि ऋषिभिः स्थापितानि तु ॥
गंगातीरे महापुण्ये पश्चिमे वरवर्णिनि ॥५॥
तानि दृष्ट्वा पूजयित्वा सर्वपापैः प्रमुच्यते ॥
अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ॥६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये संगालेश्वरमाहात्म्य उत्तरेश्वरमाहात्म्यवर्णनंनाम त्र्युत्तरत्रिशततमोऽध्यायः ॥३०३॥
N/A
References : N/A
Last Updated : January 13, 2025

TOP