संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ५२

प्रभासक्षेत्र माहात्म्यम् - अध्याय ५२

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
पंचाथ सिद्धलिंगानि कथयामि यशस्विनि ॥
येषां दर्शनतो देवि सिद्धा यात्रा भवेन्नृणाम् ॥१॥
सोमेशादीशदिग्भागे वरारोहेति या स्मृता ॥
तस्याश्च पूर्वदिग्भागे देवं सिद्धेश्वरं परम् ॥
अभिगम्य नरो भक्त्या अणिमादिकमाप्नुयात् ॥२॥
सिद्धैः प्रतिष्ठितं लिंगं दृष्ट्वा भक्त्या तु मानवः ॥
मुच्यते पातकैः सर्वैः सिद्धलोकं स गच्छति ॥३॥
विघ्नानि नाशमायांति तत्र क्षेत्रनिवासिनाम् ॥
कामः क्रोधो भय लोभो रागो मत्सर एव च ॥४॥
ईर्ष्या दंभस्तथाऽऽलस्यं निद्रा मोहस्त्वहंकृतिः ॥
एतानि विघ्नरूपाणि सिद्धेर्विघ्नकराणि तु ॥५॥
तानि नाशं समायांति तत्र सिद्धे श्वरार्चनात् ॥
एवं ज्ञात्वा तु यत्नेन तत्र यात्रां समाचरेत् ॥६॥
इत्येवं कथितं देवि सिद्धेश्वरमहोदयम्॥
सर्वकामप्रदं नृणां श्रुतं पातकनाशनम् ॥७॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये सिद्धेश्वरमाहात्म्यवर्णनंनाम द्विपञ्चाशत्तमोऽध्यायः ॥५२॥

N/A

References : N/A
Last Updated : January 08, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP