संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ५०

प्रभासक्षेत्र माहात्म्यम् - अध्याय ५०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि लिंगं राहुप्रतिष्ठितम् ॥
शनैश्चरेश्वराद्देवि वायव्ये संप्रतिष्ठितम् ॥१॥
अजादेव्याश्चोत्तरतो धनुषां सप्तके स्थितम् ॥
मंगलायाः समीपस्थं नातिदूरे व्यवस्थितम् ॥२॥
लिंगं महाप्रभावं तु सैंहिकेयप्रतिष्ठितम् ॥
तत्र वर्षसहस्रं तु वैप्रचित्तिस्तपोऽकरोत् ॥३॥
स्वर्भानुः स महावीर्यो वक्त्रयोधी महासुराः ॥
समाराध्य महादेवं दिव्येन तपसा प्रभुम् ॥४॥
लिंगेऽवतारयामास जगद्दीपं महेश्वरम् ॥
यश्चैनं पूजयेद्भक्त्या नरः सम्यक्च पश्यति ॥
तस्य पापं क्षयं याति अपि ब्रह्मवधोद्भवम् ॥५॥
नांधो न बधिरो मूको न रोगी न च निर्द्धनः ॥
कदाचिज्जायते मर्त्यस्तेन दृष्टेन भूतले ॥६॥
सुखसौभाग्यसंपन्नस्तदा भवति रूपवान् ॥
सर्वकामसमृद्धात्मा मोदते दिवि देववत् ॥७॥
इति ते कथितं देवि माहात्म्यं राहुदैवतम् ॥
श्रुत्वा तु मोहनिर्यातो नरो निष्कल्मषो भवेत् ॥८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये राह्वीश्वरमाहात्म्यवर्णनंनाम पंचाशोऽध्यायः ॥५०॥

N/A

References : N/A
Last Updated : January 07, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP