संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय १८

प्रभासक्षेत्र माहात्म्यम् - अध्याय १८

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥सूत उवाच॥
इति प्रोक्ता तदा देवी शंकरेण यशस्विनी ॥
पुनः पप्रच्छ विप्रेंद्राः क्षेत्रमाहात्म्यविस्तरम् ॥१॥
 ॥देव्युवाच॥
अद्य मे सफलं जन्म सफलं च तपः प्रभो ॥
देवत्वमद्य मे जातं त्वत्प्रसादेन शंकर ॥२॥
अद्याहं कृतकल्याणी ज्ञानदृष्टिः कृतात्वया ॥
अद्य मे भूषितौ कर्णौ क्षेत्र माहात्म्यभूषणौ ॥३॥
अद्य मे तेजसः पिंडो जातो ज्ञानं हृदि स्थितम् ॥
अद्य मे कुलशीलं च अद्य मे रूपलक्षणम् ॥४॥
अद्य मे भ्रांतिरुच्छिन्ना तीर्थभ्रमणसंभवा ॥
प्रभासे निश्चलं जातं मनो मे मानिनां वर ॥५॥
आराधितो मया पूर्वं तुष्टो मेऽद्य सुरेश्वरः ॥
वह्निना वेष्टिता साहमेकपादेन संस्थिता ॥६॥
तत्तपः सफलं त्वद्य जातं मे भक्तवत्सल ॥
प्रभासक्षेत्रमाहात्म्यमद्य मे प्रकटीकृतम् ॥७॥
पुनः पृच्छामि देवेश याथातथ्यं वद प्रभो ॥८॥
अद्यापि संशयो नाथ तीर्थमाहात्म्यसंभवः॥
अन्यत्कौतूहलं देव कथयस्व महेश्वर ॥९॥
अयं यो वर्त्तते देव चंद्रस्ते शिरसि स्थितः ॥
कस्यायं कथमुत्पन्नः कस्मिन्काले वद प्रभो ॥१०॥
 ॥ईश्वर उवाच॥
अस्मिन्काले महादेवि वाराह इति विश्रुते ॥
परार्द्धे तु द्वितीयेऽस्मिन्वर्तमाने तु वेधसः ॥११॥
द्वितीयमासस्यादौ तु प्रतिपद्या प्रकीर्तिता ॥
वाराहेणोद्धृता तस्यां तथा चादौ धरा प्रिये ॥
तेन वाराहकल्पेति नाम जातं धरातले ॥१२॥
तस्मिन्कल्पे महादेवि गते संध्यांशके प्रिये ॥
प्रथमस्य मनोश्चादौ देवि स्वायंभुवस्य हि ॥१३॥
क्षीरोदे मथ्यमाने तु दैवतैर्दानवैरपि ॥
रत्नानि जज्ञिरे तत्र चतुर्द्दशमितानि वै ॥१४॥
तेषां मध्ये महातेजाश्चंद्रमास्तत्त्वसंभव ॥
सोऽयं मया धृतो देवि अद्यापि शिरसि प्रिये ॥१५॥
विषे पीते महादेवि प्रभासस्थस्य मे सदा ॥
भूषणं मुक्तये देवैर्मम चंद्रः कृतः पुरा ॥१६॥
शशिनाभूषितो यस्मात्तेनाहं शशिभूषणः॥
तत्र स्थाने स्थितोऽद्यापि स्वयंभूर्लिंगमूर्त्तिमान् ॥१७॥
सर्वसिद्धिप्रदाता च कल्पस्थायी सदा प्रिये ॥
इत्येतत्कथितं देवि किमन्यत्परिपृच्छसि ॥१८॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शिवशिरोभूषण चन्द्रोत्पत्तिवृत्तान्तवर्णनंनामाष्टादशोऽध्यायः ॥१८॥

N/A

References : N/A
Last Updated : January 07, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP