संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ६

प्रभासक्षेत्र माहात्म्यम् - अध्याय ६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥देव्युवाच॥
अत्यद्भुतं महादेव माहात्म्यं कथितं मम ॥
अपूर्वं देवदेवेश कदाचिन्न श्रुतं मया ॥१॥
ब्रह्मांडे यानि लिंगानि कीर्तितानि त्वया मम ॥
तेषां प्रभावेनाधिक्यं सोमेशे तत्कथं वद ॥२॥
किं प्रभावो महादेव क्षेत्रस्य च सुरेश्वर ॥
तन्मे ब्रूहि सुरेशान याथातथ्यं ममाग्रतः ॥३॥
 ॥ईश्वर उवाच॥
अतः परं प्रवक्ष्यामि रहस्यं परमं तव ॥
प्रभासक्षेत्रमाहात्म्यं सोमेशस्य वरानने ॥४॥
तीर्थानां परमं तीर्थं व्रतानां परमं व्रतम् ॥
जाप्यानां परमं जाप्यं ध्यानानां ध्यानमुत्तमम्॥५॥
योगानां परमो योगो रहस्यं परमं महत् ॥
तत्तेहं संप्रवक्ष्यामि शृणु ह्येकमना प्रिये॥६॥
सोमेशं परमं स्थानं पंचवक्त्रसमन्वितम् ॥
एतल्लिंगं न मुंचामि सत्यंसत्यं मयोदितम् ॥७॥
यच्च तत्परमं देवि ध्रुवमक्षयमव्ययम् ॥
सोमेशं तद्विजानीहि मा विकल्पमना भव॥८॥
निर्भयं निर्मलं नित्यं निरपेक्षं निराश्रयम् ॥
निरंजनं निष्प्रपंचं निःसंगं निरुपद्रवम्। ॥९॥
तल्लिंगमिति जानीहि प्रभासे संव्यवस्थितम् ॥
अपवर्गमविज्ञेयं मनोरम्यमनामयम् ॥१०॥
नित्यं च कारणं देवं मखघ्नं सर्वतोमुखम् ॥
शिवं सर्वात्मकं सूक्ष्ममनाद्यं यच्च दैवतम् ॥११॥
आत्मोपलब्धिविज्ञेयं चित्तचिंताविवर्जितम् ॥
गमागमविनिर्मुक्तं बहिरंतश्च केवलम् ॥१२॥
आत्मोपलब्धिविषयं स्तुतिगोचरवर्जितम् ॥
निष्कलं विमलात्मानं प्रकटं ज्ञानदीपकम् ॥१३॥
तल्लिंगमिति जानीहि प्रभासे सुरसुंदरि ॥
निरावकाशरहितं शब्दं शब्दांतगोचरम् ॥१४॥
निष्कलं विमलं देवं देवदेवं सुरात्मकम् ॥
हेतुप्रमाणरहितं कल्पनाभाववर्जितम् ॥१५॥
चित्तावलोकविषयं बहिरंतरसंस्थितम् ॥
प्रभासे तं विजानीहि प्रणवं लिंगरूपिणम् ॥१६॥
अनिष्पंदं महात्मानं निरानंदावलोकनम् ॥
लोकावलोकमार्गस्थं विशुद्धज्ञानकेवलम् ॥१७॥
विद्याविशेषमार्गस्थमनेकाकारसंज्ञितम् ॥
स्वभावभावनाग्राह्यं भावातीतमलक्षणम् ॥१८॥
वाक्प्रपंचादिरहितं निष्प्रपञ्चात्मकं शिवम्॥
ज्ञानज्ञेयावलोकस्थं हेत्वाभासविवर्जितम् ॥१९॥
अनाहतं शब्दगतं शब्दादिगणसंभवम् ॥
एवं सोमेश्वरं विद्धि प्रभासे लिंगरूपिणम् ॥२०॥
शब्दब्रह्मगतं शान्तं स शब्दांतगमास्पदम् ॥
सर्वातिरिक्त विषयं सर्वध्यानपदे स्थितम् ॥२१॥
अनादिमच्युतं दिव्यं प्रमाणातीत गोचरम् ॥
अधश्चोर्ध्वं गतं नित्यं जीवाख्यं देहसंस्थितम् ॥२२॥
हृदादिद्वादशांतस्थं प्राणापानोदयास्तगम् ॥
अग्राह्यमिन्द्रियात्मानं निष्कलंकात्मकं विभुम् ॥२३॥
स्वरादिव्यंजनातीतं वर्णादिपरिवर्जितम् ॥
वाचामवाच्यविषयमहंकारार्द्धरूपिणम् ॥२४॥
अप्रतर्क्यमनुच्चार्यं कलनाकालवर्जितम् ॥
निःशब्दं निश्चलं सौम्यं देहातीतं परात्परम् ॥२५॥
भूतावग्रहरहितं भावाभावविवर्जितम् ॥
अविज्ञेयं परं सूक्ष्मं पञ्चपञ्चादिसंभवम् ॥२६॥
अप्रमेयमनंताख्यमक्षयं कामरूपिणम् ॥
प्रभवं सर्वभूतानां बीजांकुरसमुद्भवम् ॥२७॥
व्यापकं सर्वकामाख्यमक्षरं परमं महत् ॥
स्थूलसूक्ष्मविभागस्थं व्यक्ताव्यक्तं सनातनम् ॥२८॥
कल्पकल्पान्तरहितमनादिनिधनं महत् ॥
महाभूतं महाकायं शिवं निर्वाणभैरवम् ॥२९॥
एवं सदाशिवं विद्धि प्रभासे लिंगरूपिणम् ॥
योगक्रिया विनिर्मुक्तं मृत्युंजयमनादिमत् ॥३०॥
सर्वोपसर्गरहितं सर्वतोव्यापकं शिवम् ॥
अव्यक्तं परतो नित्यं केवलं द्वैतवर्जितम् ॥३१॥
अनन्यतेजसाक्रांतं प्रभासक्षेत्रवासिनम्॥
भूरिस्वयंप्रभप्रख्यं सर्वतेजोऽधिकं हरम्॥३२॥
शरण्यंदेवमीशानमोंकारं शिवरूपिणम्॥
देवदेवं महादेवं पंचवक्त्रं वृषध्वजम्॥३३॥
निर्मलं मानसातीतं भावग्राह्यमनूपमम्॥
सदा शांतं विरूपाक्षं शूलहस्तं जटाधरम्॥३४॥
हृत्पद्मकोशमध्यस्थं शून्यरूपं निरञ्जनम् ॥
एवं सदाशिवं विद्धि प्रभासे लिङ्गरूपिणम् ॥३५॥
योऽसौ परात्परो देवो हंसाख्यः परिकीर्तितः ॥
नादाख्यः सुव्रते देवि सोऽस्मिन्स्थाने स्थितः स्वयम् ॥३६॥
एतदादिस्वरूपं च मया योगबलेन तु ॥
विज्ञातं देवि गदितं दिव्यमात्मानमात्मना ॥३७॥
ऋग्वेदस्थस्तु पूर्वाह्णे मध्याह्ने यजुषि स्थितः ॥
अपराह्णे तु सामस्थो ह्यथर्वस्थो निशागमे ॥३८॥
वेदाहमेतं पुरुषं महांतमादित्यवर्णं तमसः परस्तात् ॥
तमेव विदित्वा न भवेत्तु मृत्युर्नान्यः पंथा विद्यते वै जनानाम् ॥३९॥
इतीरितस्ते तु महाप्रभावः सोमेशलिंगस्य कृतैकदेशः ॥
वृतं न चाब्दैर्बहुभिः सहस्रैर्वक्तुं च केनापि मुखैर्न शक्यम् ॥४०॥।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रोऽपीदं पठेद्यदि ॥
निर्मुक्तः सर्वपापेभ्यः सर्वान्कामानवाप्नुयात् ॥४१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये श्रीसोमेश्वरमहिमवर्णनं नाम षष्ठोऽध्यायः॥६॥

N/A

References : N/A
Last Updated : January 07, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP