संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय २०८

प्रभासक्षेत्र माहात्म्यम् - अध्याय २०८

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥देव्युवाच॥
इदं देयमिदं देयमिति प्रोक्तं तु यच्छ्रुतौ ॥
दानादानविशेषांस्तु श्रोतुमिच्छामि तत्त्वतः ॥१॥
कानि दानानि शस्तानि कस्मै देयानि कान्यपि ॥
कालं देशं च पात्रं च सर्वमाचक्ष्व मे विभो ॥२॥
 ॥ईश्वर उवाच॥
वृथा जन्मानि चत्वारि वृथा दानानि षोडश ॥
सुजन्मानि च चत्वारि महादानानि षोडश ॥३॥
 ॥देव्युवाच॥
एतद्विस्तरतो ब्रूहि देवदेवजगत्पते ॥४॥
 ॥ईश्वर उवाच॥
वृथा जन्मानि चत्वारि यानि तानि निबोध मे ॥
कुपुत्राणां वृथा जन्म ये च धर्मबहिष्कृताः ॥
प्रवासं ये च गच्छंति परदाररताः सदा ॥५॥
परपाकं च येऽश्नंति पर दाररताश्च ये ॥
अप्रत्याख्यं वृथा दानं सदोषं च तथा प्रिये ॥६॥
आरूढपतिते चैव अन्यायोपार्जितं धनम् ॥
वृथा ब्रह्महने दानं पतिते तस्करे तथा ॥७॥
गुरोश्चाप्रीतिजनने कृतघ्ने ग्रामयाजके ॥
ब्रह्मबन्धौ च यद्दत्तं यद्दत्तं वृषलीपतौ ॥८॥
वेदविक्रयिणे चैव यस्य चोपपतिर्गृहे ॥
स्त्रीनिर्जिते च यद्दत्तं वृथादानानि षोडश ॥९॥
सुजन्म च सुपुत्राणां ये च धर्मे रता नराः ॥
प्रवासं न च गच्छंति परदारपराङ्मुखाः ॥१०॥
गावः सुवर्णं रजतं रत्नानि च सरस्वती ॥
तिलाः कन्या गजोश्वश्च शय्या वस्त्रं तथा मही ॥११॥
धान्यं पयश्च च्छत्रं च गृहं चोपस्करान्वितम्॥
एतान्येव महादेवि महादानानि षोडश ॥१२॥
गर्वावृतस्तु यो दद्याद्भयात्क्रोधात्तथैव च ॥
भुंक्ते दानफलं तद्धि गर्भस्थो नात्र संशय ॥१३॥
बालत्वेऽपि च सोऽश्नाति यद्दत्तं दंभकारणात् ॥
मन्युना मंतुना चैव तथैवार्थस्य कारणात् ॥१४॥
देशे काले च पात्रे च शुद्धेन मनसा तथा ॥
न्यायार्जितं च यो दद्याद्यौवने स तदश्नुते ॥१५॥
अन्यायेनार्जितं द्रव्यमपात्रे प्रतिपादितम् ॥
क्लिष्टं च विधिहीनं च वृद्धभावे तदश्नुते ॥१६॥
तस्माद्देशे च काले च सुपात्रे विधिना नरः॥
शुभार्जितं प्रयुञ्जीत श्रद्धया शाठ्यवर्जितः ॥१७॥
स्वाध्यायाढ्यं योगवंतं प्रशांतं पुराणज्ञं पापभीरुं वदान्यम्॥
स्त्रीषु क्षान्तं धार्मिकं गोशरण्यं व्रतैः क्रान्तं तादृशं पात्रमाहुः ॥१८॥
सत्यं दमस्तपः शौचं सन्तोषोऽनैर्ष्यमार्जवम् ॥
ज्ञानं शमो दया दानमेतत्पात्रस्य लक्षणम् ॥१९॥
एवंविधे तु यत्पात्रे गामेकां तु प्रयच्छति ॥
समानवत्सां कपिलां धेनुं सर्वगुणान्विताम् ॥२०॥
रौप्यपादां स्वर्णशृङ्गीं रुद्रलोके महीयते ॥
एकां गां दशगुर्दद्याद्गोशती च तथा दश ॥२१॥
शतं सहस्रगुर्दद्यात्सर्वे समफलाः स्मृताः ॥
सुशीला सोमसंपन्ना तरुणी च पयस्विनी ॥
सवत्सा न्यायलब्धा च प्रदेया ब्राह्मणाय गौः ॥२२॥
वंध्या सरोगा हीनांगी दुष्टा वृद्धा मृतप्रजा ॥
अन्यायलब्धा दूरस्था नेदृशी गां प्रदापयेत् ॥२३॥
यो हीदृशीं गां ददाति देवोद्देशेन मानवः ॥
प्रत्युताधोगतिं याति क्लिश्यते च महेश्वरि ॥२४॥
रुष्टा क्लिष्टा दुर्बला व्याधिता च न दातव्या या च मूल्यैरदत्तैः ॥
लेशो विप्रेभ्यो यया जायते वै तस्या दातुश्चाफलाः सर्वलोकाः ॥२५॥
अतिथये प्रशान्ताय सीदते चाहिताग्नये ॥
श्रोत्रियाय तथैकापि दत्ता बहुगुणा भवेत् ॥२६॥
गां विक्रीणाति चेद्देवि ब्राह्मणो ज्ञानदुर्बलः ॥
नासौ प्रशस्यते पात्रं ब्राह्मणो नैव स स्मृतः ॥२७॥
बहुभ्यो न प्रदेयानि गौर्गृहं शयनं स्त्रियः ॥
विभक्ता दक्षिणा ह्येषा दातारं नोपतिष्ठति ॥२८॥
प्रासादा यत्र सौवर्णाः शय्या रव्रोज्ज्वलास्तथा ॥
वराश्चाप्सरसो यत्र तत्र गच्छंति गोप्रदाः ॥२९॥
नास्ति भूमिसमं दानं नास्ति गंगासमा सरित् ॥
नास्ति सत्यात्परो धर्मो नान्यो देवो महेश्वरात् ॥३०॥
उच्चैः पाषाणयुक्ता च न समा नैव चोषरा ॥
न नदीकूलविकटा भूमिर्देया कदाचन ॥३१॥
षष्टिवर्षसहस्राणि स्वर्गे वसति भूमिदः ॥
आच्छेत्ता चानुमंता च तान्येव नरकं व्रजेत् ॥३२॥
कुरुते पुरुषः पापं यत्किञ्चिद्वृत्तिकर्शितः ॥
अपि गोचर्ममात्रेण भूमिदानेन शुद्ध्यति ॥३३॥
छत्रं शय्यासनं शंखो गजाश्वाश्चामराः स्त्रियः ॥
भूमिश्चैषां प्रदानस्य शिवलोकः फलं स्मृतम् ॥३४॥
आदित्येऽहनि संक्रांतौ ग्रहणे चन्द्र सूर्ययोः ॥
पारणैश्चैव गोदाने नोपोष्यः पौत्रवान्गृही ॥३५॥
इन्दुक्षये तु संक्रान्त्यामेकादश्यां शते कृते ॥
उपवासं न कुर्वीत यदीच्छेत्संततिं ध्रुवम् ॥३६॥
यथा शुक्ला तथा कृष्णा न विशेषोऽस्ति कश्चन ॥
तथापि वर्धते धर्मः शुक्लायामेव सर्वदा ॥३७॥
दशम्येकादशीविद्धा द्वादशी च क्षयं गता ॥
नक्तं तत्र प्रकुर्वीत नोपवासो विधीयते ॥३८॥
उपोष्यैकादशीं यस्तु त्रयोदश्यां तु पारणम् ॥
करोति तस्य नश्येत्तु द्वादश दद्वादशीफलम्॥३९॥
उपवासे तथा श्राद्धे न खादेद्दन्तधावनम्॥
दन्तानां काष्ठसंगाच्च हन्ति सप्तकुलानि वै॥४०॥
दर्शं च पौर्णमासं च पितुः सांवत्सरं दिनम्॥
पूर्वविद्धमकुर्वाणो नरकं प्रतिपद्यते ॥४१॥
हानिश्च संततेः प्रोक्ता दौर्भाग्यं समवाप्नुयात् ॥
द्रव्याभावेथ श्राद्धस्य विधिं वक्ष्यामि तत्त्वतः ॥४२॥
एकेनापि हि विप्रेण षट्पिण्डं श्राद्धमाचरेत् ॥
षडर्घ्यान्पारयेत्तत्र तेभ्यो दद्याद्यथाविधि ॥४३॥
पिता भुंक्ते द्विज करे मुखे भुंक्ते पितामहः ॥
प्रपितामहस्तालुस्थः कण्ठे मातामहः स्मृतः ॥४४॥
प्रमातामहस्तु हृदये वृद्धो नाभौ तु संस्थितः ॥
अलाभे ब्राह्मणस्यैव कुशः कार्यो द्विजः प्रिये ॥
इदं सर्वपुराणेभ्यः सारमुद्धत्य चोच्यते ॥४५॥
न चैतन्नास्तिके देयं पिशुने वेदनिन्दके ॥
प्रातःप्रातरिदं श्राव्यं पूजयित्वा महेश्वरम् ॥४६॥
कुलीनं सर्वशास्त्रज्ञं यथा देवं महेश्वरम् ॥
अस्य धर्मस्य वक्तारं छत्रं दद्यात्प्रपूजयेत् ॥४७॥
अपूज्याद्वाचकाद्यस्तु श्लोकमेकं शृणोति च ॥
नासौ पुण्यमवाप्नोति शास्त्रचौरः स्मृतो हि सः ॥४८॥
तस्मात्सर्वप्रयत्नेन पूजयेद्वाचकं बुधः ॥
अन्यथा निष्फलं तस्य पुस्तकश्रवणं भवेत् ॥४९॥
यस्यैव तिष्ठते गेहे शास्त्रमेतत्सदुर्लभम् ॥
तस्य देवि गृहे तीर्थैः सह तिष्ठेच्छिवः स्वयम् ॥५०॥
बहुनात्र किमुक्तेन भवेन्मोक्षस्य भाजनम् ॥
न चैतत्पिशुने देयं नास्तिके दंभसंयुते । ५१॥
इदं शान्ताय दान्ताय देयं शैवद्विजन्मने ॥५२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये श्राद्धकल्पे दानपात्रब्राह्मणमाहात्म्यवर्णनंनामाष्टोत्तरद्विशततमो ऽध्यायः ॥२०८॥

N/A

References : N/A
Last Updated : January 12, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP