संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ५४

प्रभासक्षेत्र माहात्म्यम् - अध्याय ५४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि गंधर्वेश्वरमुत्तमम् ॥
दण्डपाणेस्तु भवनादुत्तरे निकटे स्थितम् ॥१॥
यत्र गंधर्वराजो वै घनवाहेति विश्रुतः॥
तस्य गंधर्वसेनेति ख्याता पुत्री महाप्रभा ॥२॥
शिखंडिना गणेनैव सा शप्ता रूपगर्विता॥
ततो गोशृंगऋषिणा दत्तस्तस्या अनुग्रहः॥३॥
सोमवारव्रतेनैव सोमेशाराधनं प्रति॥
ततः क्षेत्रं समागत्य तपः कृत्वा सुदुश्चरम्॥४॥
लिंगं प्रतिष्ठयामास तत्र गंधर्वराट् स्वयम्॥
तथैव पुत्र्या तस्यैव तत्र लिंगं प्रतिष्ठितम्॥५॥
अथ तत्रैव देवेशि दंडपाणेः समीपतः ॥
घनवाहेश्वरं नाम यो लिंगं यत्नतोऽर्चयेत् ॥६॥
गंधर्वलोकमाप्नोति दृष्ट्वा स प्रयतः शुचिः ॥
इति ते कथितं देवि गांधर्वं लिंगमुत्तमम् ॥७॥
तृतीयं सर्वपापानां नाशनं पुण्यवर्द्धनम् ॥
अग्नितीर्थे नरः स्नात्वा पूज्य गंधर्वपूजितम् ॥८॥
अयने चोत्तरे प्राप्ते निर्वाणमधिगच्छति ॥
श्रुत्वा ऽभिनंद्य माहात्म्यं मुच्यते महतो भयात् ॥९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये गन्धर्वेश्वरमाहात्म्यवर्णनंनाम चतुःपंचाशोऽध्यायः॥५४॥

N/A

References : N/A
Last Updated : January 08, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP