संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ३४३

प्रभासक्षेत्र माहात्म्यम् - अध्याय ३४३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि कपिलेश्वरमुत्तमम् ॥
शीराभूषणपूर्वेण कोटितीर्थाच्च पश्चिमे ॥१॥
जरद्गवेशाद्दक्षिणे समुद्रोत्तरतस्तथा ॥
एतद्वै कापिलं क्षेत्रं नापुण्यैः प्राप्यते नरैः ॥२॥
कपिलेन पुरा देवि यत्र तप्तं तपो महत् ॥
वर्षाणामयुतं साग्रं प्रतिष्ठाप्य महेश्वरम् ॥३॥
समाहूता तत्र देवी कपिलधारा महानदी ॥
समुद्रमध्ये साऽद्यापि पुण्यवद्भिः प्रदृश्यते ॥४॥
तत्र स्नात्वा महादेवि कपिलाषष्ठ्यां विशेषतः ॥
कपिलां दापयेत्तत्र गोकोटिफलभाग्भवेत् ॥५॥
सर्वेषां चैव पापानां प्रायश्चित्तमिदं स्मृतम् ॥
कपिलेश्वरं तु संपूज्य कन्याकोटिफलं लभेत् ॥६॥
 ॥देव्युवाच॥
आश्चर्यं मम देवेश कपिलषष्ठ्या महेश्वर ॥
विधानं श्रोतुमिच्छामि दानमन्त्रादि पूर्वकम् ॥७॥
 ॥ईश्वर उवाच॥
जन्मजीवितमध्ये तु यद्येका लभ्यते नरैः ॥
संयोगयुक्ता सा षष्ठी तत्किं देवि ब्रवीम्यहम् ॥८॥
प्रौष्ठपद्यसिते पक्षे षष्ठ्यामंगारको यदि ॥
व्यतीपातश्च रोहिण्यां सा षष्ठी कपिला स्मृता ॥९॥
तत्र क्षेत्रे नरः स्नात्वा अथवार्कस्थले शुभे ॥
मृदा शुक्ल तिलैश्चैव कपिलासंगमे शुभे ॥१०॥
कृतस्नानजपः पश्चात्सूर्यायार्घ्यं निवेदयेत् ॥
रक्तचंदनतोयेन करवीरयुतेन च ॥
कृत्वार्घपात्रं शिरसि मंत्रेणानेन दापयेत् ॥११॥
नमस्त्रैलोक्यनाथाय उद्भासितजगत्त्रय ॥
वेदरश्मे नमस्तुभ्यं गृहाणार्घ्यं नमोऽस्तु ते ॥१२॥
सूर्यं प्रदक्षिणीकृत्य संपूज्य कपिलेश्वरम्॥
उपलिप्ते शुभे देशे पुष्पाक्षतविभूषिते ॥१३॥
स्थापयेदव्रणं कुम्भं चन्दनोदकपूरितम् ॥
पंचरत्नसमायुक्तं दूर्वापुष्पाक्षतान्वितम् ॥१४॥
रक्तवस्त्रयुगच्छन्नं ताम्रपात्रेण संयुतम् ॥
रथो रुक्मफलस्यैव एकचित्रविचित्रितः ॥१५॥
सौवर्णपलसंयुक्तां मूर्तिं सूर्यस्य कारयेत्॥
कुंभस्योपरि संस्थाप्य गंधपुष्पैः समर्चयेत् ॥१६॥
कपिलेश्वरसान्निध्ये मण्डपे होमसंस्कृते ॥
आदित्यं पूजयेद्देवं नामभिः स्वैर्यथोदितैः ॥ ॥१७॥
आदित्यभास्कर रवे भानो स्वयं दिवाकर ॥
प्रभाकर नमस्तुभ्यं ससारान्मां समुद्धर ॥१८॥
भुक्तिमुक्तिप्रदो यस्मात्तस्माच्छांतिं प्रयच्छ नः ॥१९॥
 ॥प्रार्थनामन्त्रः॥
नमोनमस्ते वरद ऋक्सामयजुषांपते ॥
नमोऽस्तुविश्वरूपाय विश्वधाम्ने नमोऽस्तु ते ॥२०॥
अमृतं देवि ते क्षीरं पवित्रमिह पुष्टिदम्॥
त्वत्प्रसादात्प्रमुच्यंते मनुजाः सर्वपातकैः ॥२१॥
ब्रह्मणोत्पादिते देवि वह्निकुण्डान्महाप्रभे ॥
नमस्ते कपिले पुण्ये सर्वदेवनमस्कृते ॥२२॥
सर्वदेवमये देवि सर्वतीर्थमये शुभे॥
दातारं पूजयानं मां ब्रह्मलोकं नय स्वयम् ॥२३॥
 ॥पूजामंत्रः॥
एवं संपूज्य कपिलां कुम्भस्थं च दिवाकरम्॥
ब्राह्मणे वेदविदुष उभयं प्रतिपादयेत् ॥२४॥
व्यासाय सूर्यभक्ताय मंत्रेणानेन दापयेत् ॥२५॥
दिव्यमूर्त्तिर्जगच्चक्षु र्द्वादशात्मा दिवाकरः ॥
कपिलासहितो देवो मम मुक्तिं प्रयच्छतु ॥२६॥
यस्मात्त्वं कपिले पुण्या सर्वलोकस्य पावनी ॥
प्रदत्ता सह सूर्येण मम मुक्तिप्रदा भव ॥२७॥
पलेन दक्षिणा कार्या तदर्धार्धेन वा पुनः ॥
शक्तितो दक्षिणायुक्तां तां धेनुं प्रतिपादयेत् ॥२८॥
योऽनेन विधिना कुर्या त्षष्ठीं कपिलसंज्ञिताम्॥
सोऽश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ॥२९॥
यत्फलं सर्वतीर्थेषु सर्वदानेषु यत्फलम् ॥
तत्फलं सर्वमाप्नोति यः षष्ठीं कपिलां चरेत् ॥३०॥
कपिलाकोटिसहस्राणि कपिलाकोटिशतानि च ॥
सूर्यपर्वणि यद्दत्त्वा तत्फलं कोटिशो भवेत् ॥३१॥
कोटिगोरोम संख्यानि वर्षाणि वरवर्णिनि ॥
तावत्स वसते स्वर्गे यः षष्ठीं कपिलां चरेत् ॥३२॥
ज्ञानतोऽज्ञानतो वापि यत्पापं पूर्वसंचितम् ॥
तत्सर्वं नाशमायाति इत्याह कपिलो मुनिः ॥३३॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कपि लधाराकपिलेश्वरमाहात्म्ये कपिलाषष्ठीव्रतविधानमाहात्म्यवर्णनंनाम त्रिचत्वारिंशदुत्तरत्रिशततमोऽध्यायः ॥३४३॥

N/A

References : N/A
Last Updated : January 13, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP