संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ९५

प्रभासक्षेत्र माहात्म्यम् - अध्याय ९५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेद्वरारोहे लिंगं मृत्युञ्जयेश्वरम् ॥
तस्यैव वह्नि कोणस्थं धनुषां दशके स्थितम् ॥१॥
पश्चिमे सागरादित्यात्स्थितं धनुश्चतुष्टये ॥
पापघ्नं सर्वजन्तूनां दर्शनात्स्पर्शनादपि ॥२॥
पूर्वे युगे समाख्यातं नाम नन्दीश्वरेति च ॥
यत्र तप्तं तपो घोरं नन्दिनाम्ना गणेन मे ॥३॥
प्रतिष्ठाप्य महालिंगं नित्यं पूजापरेण च ॥
तत्र जप्तो महामन्त्रो मृत्युञ्जय इति श्रुतः ॥४॥
कोटीनां नियुतं देवि ततस्तुष्टो महेश्वरः ॥
ददौ गणेशतां तस्य मुक्तिं सामीप्यगां तथा ॥५॥
मृत्युञ्जयेन मन्त्रेण तस्य तुष्टो यतो हरः ॥
तेन मृत्युञ्जयेशेति ख्यातं लिंगं धरातले ॥६॥
यस्तं पूजयते भक्त्या पश्येद्वा भावितात्मवान् ॥
नाशयेत्तस्य पापानि सप्तजन्मार्जितान्यपि ॥७॥
स्नापयेत्पयसा लिंगं दध्ना घृतयुतेन च ॥
मधुनेक्षुरसेनैव कुंकुमेन विलेपयेत् ॥८॥
कर्पूरोशीर मिश्रेण मृगनाभिरसेन च ॥
चन्दनेन सुगन्धेन पुष्पैः संपूजयेत्ततः ॥९॥
दद्याद्धूपं पुरो देवि ततो देवस्य चागुरुम् ॥
वस्त्रैः संपूज्य विविधैरात्मवित्तानुसारतः ॥१०॥
नैवेद्यं परमान्नं च दत्त्वा दीपसमन्वितम् ॥
अष्टांगं प्रणिपातं च ततः कार्यं च भक्तितः ॥११॥
हेमदानं प्रदातव्यं ब्राह्मणे वेदपारगे ॥१२॥
एवं यात्रा भवेत्तस्य शास्त्रोक्ता नात्र संशयः ॥
एवं कृत्वा नरो देवि लभते जन्मनः फलम् ॥१३॥
इति संक्षेपतः प्रोक्तं मृत्युञ्जयमहोदयम् ॥
पापघ्नं सर्वजंतूनां सर्वकामफलप्रदम् ॥१४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादशरुद्रमाहात्म्ये मृत्युञ्जयमाहात्म्यवर्णनंनाम पञ्चनवतितमोऽध्यायः ॥९५॥

N/A

References : N/A
Last Updated : January 08, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP