संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ११३

प्रभासक्षेत्र माहात्म्यम् - अध्याय ११३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि जानकीश्वरमुत्तमम् ॥
रामेशान्नैऋते भागे धनुस्त्रिंशकसंस्थितम् ॥१॥
पापघ्नं सर्वजंतूनां जानक्याऽऽराधितं पुरा ॥
प्रतिष्ठितं विशेषेण सम्यगाराध्यशंकरम् ॥२॥
पूर्वं तस्यैव लिंगस्य वसिष्ठेशेति नाम वै ॥
तत्पश्चाज्जानकीशेति त्रेतायां प्रथितं क्षितौ ॥३॥
ततः षष्टिसहस्राणि वालखिल्या महर्षयः ॥
तत्र सिद्धिमनुप्राप्तास्तेन सिद्धेश्वरेति च ॥४॥
ख्यातं कलौ महादेवि युगलिंगं महाप्रभम्॥
तद्दृष्ट्वा मुच्यते पापैर्दुःखदौर्भाग्यसंभवैः ॥५॥
यस्तं पूजयते भक्त्या नारी वा पुरुषोऽपि वा ॥
संस्नाप्य विधिवद्भक्त्या स मुक्तः पातकैर्भवेत् ॥६॥
स्नात्वा च पुष्करे तीर्थे यस्तल्लिगं प्रपूजयेत् ॥
नियतो नियताहारो मासमेकं निरन्तरम् ॥७॥
दिनेदिने भवेत्तस्य वाजिमेधाधिकं फलम् ॥
माघे मासि तृतीयायां या नारी तं प्रपूजयेत् ॥
तदन्वयेऽपि दौर्भाग्यं दुःखं शोकश्च नो भवेत् ॥८॥
इति ते कथितं देवि माहात्म्यं पापनाशनम् ॥
श्रुतं हरति पापानि सौभाग्यं संप्रयच्छति ॥९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये जानकीश्वरमाहात्म्यवर्णनंनाम त्रयोदशोत्तरशततमोऽध्यायः ॥ ॥११३॥

N/A

References : N/A
Last Updated : January 10, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP