संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्| अध्याय २०६ प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ अध्याय २८० अध्याय २८१ अध्याय २८२ अध्याय २८३ अध्याय २८४ अध्याय २८५ अध्याय २८६ अध्याय २८७ अध्याय २८८ अध्याय २८९ अध्याय २९० अध्याय २९१ अध्याय २९२ अध्याय २९३ अध्याय २९४ अध्याय २९५ अध्याय २९६ अध्याय २९७ अध्याय २९८ अध्याय २९९ अध्याय ३०० अध्याय ३०१ अध्याय ३०२ अध्याय ३०३ अध्याय ३०४ अध्याय ३०५ अध्याय ३०६ अध्याय ३०७ अध्याय ३०८ अध्याय ३०९ अध्याय ३१० अध्याय ३११ अध्याय ३१२ अध्याय ३१३ अध्याय ३१४ अध्याय ३१५ अध्याय ३१६ अध्याय ३१७ अध्याय ३१८ अध्याय ३१९ अध्याय ३२० अध्याय ३२१ अध्याय ३२२ अध्याय ३२३ अध्याय ३२४ अध्याय ३२५ अध्याय ३२६ अध्याय ३२७ अध्याय ३२८ अध्याय ३२९ अध्याय ३३० अध्याय ३३१ अध्याय ३३२ अध्याय ३३३ अध्याय ३३४ अध्याय ३३५ अध्याय ३३६ अध्याय ३३७ अध्याय ३३८ अध्याय ३३९ अध्याय ३४० अध्याय ३४१ अध्याय ३४२ अध्याय ३४३ अध्याय ३४४ अध्याय ३४५ अध्याय ३४६ अध्याय ३४७ अध्याय ३४८ अध्याय ३४९ अध्याय ३५० अध्याय ३५१ अध्याय ३५२ अध्याय ३५३ अध्याय ३५४ अध्याय ३५५ अध्याय ३५६ अध्याय ३५७ अध्याय ३५८ अध्याय ३५९ अध्याय ३६० अध्याय ३६१ अध्याय ३६२ अध्याय ३६३ अध्याय ३६४ अध्याय ३६५ अध्याय ३६६ विषयानुक्रमणिका प्रभासक्षेत्र माहात्म्यम् - अध्याय २०६ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २०६ Translation - भाषांतर ॥ईश्वर उवाच॥अथ श्राद्धविधिं वक्ष्ये पार्वणस्य विधानतः ॥यथाक्रमं महादेवि शृणुष्वैकमनाः प्रिये ॥१॥कृत्वापसव्यं पूर्वेद्युः पितृपूर्वं निमंत्रयेत् ॥भवद्भिः पितृकार्यं नः संपाद्यं च प्रसीदथ ॥२॥सवर्णान्प्रेषयेदाप्तान्द्विजानामुपमन्त्रणे ॥३॥अभोज्यं ब्राह्मणस्यान्नं क्षत्रियाद्यैर्निमन्त्रितैः ॥तथैव ब्राह्मणस्यान्नं ब्राह्मणेन निमन्त्रितौः ॥४॥ब्राह्मणान्नं ददेच्छूद्रः शूद्रान्नं ब्राह्मणो ददेत् ॥उभावेतावभोज्यान्नौ भुक्त्वा चान्द्रायणं चरेत् ॥५॥उपनिक्षेपधर्मेण शूद्रान्नं यः पचेद्द्विजः ॥अभोज्यं तद्भवेदन्नं स च विप्रः पतेदधः ॥६॥शूद्रान्नं शूद्रसंपर्कः शूद्रेण च सहासनम् ॥शूद्राज्ज्ञानागमश्चैव ज्वलंतमपि पातयेत् ॥७॥शूद्रान्नोपहता विप्रा विह्वला रतिलालसाः ॥कुपिताः किं करिष्यंति निर्विषा इव पन्नगाः ॥८॥नग्नः स्यान्मलवद्वासा नग्नः कौपीनवस्त्रधृक् ॥द्विकच्छोऽनुत्तरीयश्च विकच्छोऽवस्त्र एव च ॥९॥नग्नः काषायवस्त्रः स्यान्नग्नश्चार्धपटः स्मृतः ॥अच्छिन्नाग्रं तु यद्वस्त्रं मृदा प्रक्षालितं तु यत् ॥१०॥अहतं धातुरक्तं वा तत्पवित्रमिति स्थितम् ॥अग्रतो वसते मूर्खो दूरे चास्य गुणान्वितः ॥११॥गुणान्विते च दातव्यं नास्ति मूर्खे व्यतिक्रमः ॥यस्त्वासन्नमतिक्रम्य ब्राह्मणं पतितादृते ॥दूरस्थं पूजयेन्मूढो गुणाढ्यं नरकं व्रजेत् ॥१२॥वेदविद्याव्रतस्नाते श्रोत्रिये गृहमागते ॥क्रीडन्त्योषधयः सर्वा यास्यामः परमां गतिम् ॥१३॥संध्ययोरुभयोर्जाप्ये भोजने दंतधावने॥पितृकार्ये च दैवे च तथा मूत्रपुरीषयोः॥गुरूणां संनिधौ दाने योगे चैव विशेषतः ॥एतेषु मौनमातिष्ठन्स्वर्गं प्राप्नोति मानवः ॥१५॥यदि वाग्यमलोपः स्याज्जपादिषु कथंचन ॥व्याहरेद्वैष्णवं मंत्रं स्मरेद्वा विष्णुमव्ययम् ॥१६॥दाने स्नाने जपे होमे भोजने देवतार्चने ॥देवानामृजवो दर्भाः पितॄणां द्विगुणास्तथा ॥१७॥उदङ्मुखस्तु देवानां पितॄणां दक्षिणामुखः ॥अग्निना भस्मना वापि यवेनाप्युदकेन वा ॥द्वारसंक्रमणेनापि पंक्तिदोषो न विद्यते ॥१८॥इष्टश्राद्धे क्रतुर्दक्षो वृद्धौ सत्यवसू स्मृतौ ॥नैमित्तिके कालकामौ काम्ये चाध्वविरोचनौ ॥१९॥पुरूरवा आर्द्रवश्च पार्वणे समुदाहृतौ ॥पुष्टिं प्रजां च न्यग्रोधे बुद्धिं प्रज्ञां धृतिं स्मृतिम् ॥२०॥रक्षोघ्नं च यशस्यं च काश्मीर्यं पात्रमुच्यते ॥सौभाग्यमुत्तमं लोके मधूके समुदाहृतम् ॥२१॥फाल्गुनपात्रे तु कुर्वाणः सर्वकामानवाप्नुयात् ॥परां द्युतिमथार्के तु प्राकाश्यं च विशेषतः ॥२२॥बिल्वे लक्ष्मीं तपो मेधां नित्यमायुष्यमेव च ॥क्षेत्रारामतडागेषु सर्वपात्रेषु चैव हि ॥२३॥वर्षत्यजस्रं पर्जन्ये वेणुपात्रेषु कुर्वतः ॥एतेषां लभ्यते पुण्यं सुवर्णै रजतैस्तथा ॥२४॥पलाशफलन्यग्रोधप्लक्षाश्वत्थविकंकताः ॥औदुम्बरस्तथा बिल्वं चंदनं यज्ञियाश्च ये ॥२५॥सरलो देवदारुश्च शालाश्च खदिरास्तथा ॥समिदर्थं प्रशस्ताः स्युरेते वृक्षा विशेषतः ॥२६॥श्लेष्मातको नक्तमाल्यः कपित्थः शाल्मली तथा ॥निंबो बिभीतकश्चैव श्राद्धकर्मणि गर्हिताः ॥२७॥अनिष्टशब्दां संकीर्णा रूक्षां जन्तुमतीमपि ॥प्रतिगंधां तु तां भूमिं श्राद्धकर्मणि गर्हयेत् ॥२८॥त्रैशंकवं त्यजेद्देशंसर्वद्वादशयोजनम् ॥उत्तरेण महानद्या दक्षिणेन च केवलम् ॥२९॥देशस्त्रैशं कवोनाम वर्जितः श्राद्धकर्मणि ॥कारस्काराः कलिंगाश्च सिंधोरुत्तरमेव च ॥प्रणष्टाश्रमधर्माश्च वर्ज्या देशाः प्रयत्नतः ॥३०॥ब्राह्मणं तु कृतं प्रोक्तं त्रेता तु क्षत्रियं स्मृतम् ॥वैश्यं द्वापरमित्याहुः शूद्रं कलियुगं स्मृतम् ॥३१॥कृते तु पितरः पूज्यास्त्रेतायां च सुरास्तथा ॥मुनयो द्वापरे नित्यं पाखंडाश्च कलौ युगे ॥३२॥शुक्लपक्षस्य पूर्वाह्णे श्राद्धं कुर्याद्विचक्षणः ॥कृष्णपक्षेऽपराह्ने तु रौहिणं न विलंघयेत् ॥३३॥रत्निमात्रप्रमाणं च पितृतीर्थं तु संस्कृतम् ॥उपमूले तथा लूनाः प्रस्तरार्थे कुशोत्तमाः॥।तथा श्यामाकनीवारा दूर्वाश्च समुदाहृताः ॥स्व कीर्तिमतां श्रेष्ठो बहुकेशः प्रजापतिः ॥३५॥तस्य केशा निपतिता भूमौ काशत्वमागताः ॥तस्मान्मेध्याः सदा काशाः श्राद्धकर्मणि पूजिताः ॥३६॥पिण्डनिर्वपणं तेषु कर्तव्यं भूतिमिच्छता॥उष्णमन्नं द्विजातिभ्यः श्रद्धया विनिवेशयेत् ॥३७॥अन्यत्र फलपुष्पेभ्यः पानकेभ्यश्च पण्डितः॥हस्ते दत्त्वा तु वै स्नेहाल्लवणं व्यञ्जनानि च॥आयसेन च पात्रेण तद्वै रक्षांसि भुञ्जते॥द्विजपात्रेषु दत्त्वान्नं तूष्णीं संकल्पमाचरेत्॥३९॥दर्व्यादिस्थेन नो तेषां संबन्धो दृश्यते यतः ॥यश्च शूकरवद्भुंक्ते यश्च पाणितले द्विजः ॥न तदश्नंति पितरो यः सवाचं समश्नुते ॥४०॥द्विहायनस्य वत्सस्य विशंत्यास्यं यथा सुखम् ॥तथा कुर्यात्प्रमाणेन पिण्डान्व्यासेन भाषितम् ॥४१॥न स्त्री प्रचालयेत्तानि ज्ञानहीनो न चाव्रतः ॥स्वयं पुत्रोऽथवा यस्य वाञ्छेदभ्युदयं परम् ॥४२॥भाजनेषु च तिष्ठत्सु स्वस्तिं कुर्वन्ति ये द्विजाः ॥तदन्नमसुरैर्भुक्तं निराशाः पितरो गताः ॥४३॥अप्स्वेकं प्लावयेत्पिण्डमेकं पत्न्यै निवेदयेत् ॥एकं वै जुहुयादग्नावेषा तु त्रिविधा गतिः ॥४४॥छन्दोगं भोजयेच्छ्राद्धे वैश्वदेवे च बह्वृचम् ॥पुष्टिकर्मण्यथाध्वर्युं शान्तिकर्मण्यथर्वणम् ॥४५॥द्वौ देवेऽथर्वणौ विप्रौ प्राङ्मुखौ च निवेशयेत् ॥पित्र्ये ह्युदङ्मुखान्कुर्याद्बह्वृचाध्वर्युसामगान् ॥४६॥जात्यश्च सर्वा दातव्या मल्लिका श्वेतयूथिका ॥जलोद्भवानि सर्वाणि कुसुमानि च चम्पकम् ॥४७॥मधूकं रामठं चैव कर्पूरं मरिचं गुडम् ॥श्राद्धकर्मणि शस्तानि सैंधवं त्रपुसं तथा ॥४८॥ब्राह्मणः कम्बलो गावः सूर्योग्निरतिथिश्च वै ॥तिला दर्भाश्च कालश्च नवैते कुतपाः स्मृताः ॥४९॥आपद्यनग्नौ तीर्थे च चंद्रसूर्यग्रहे तथा ॥नाचरेत्संग्रहे चैव तथैवास्तमुपागते ॥५०॥संशुद्धा स्याच्चतुर्थेऽह्नि स्नाता नारी रजस्वला ॥दैवे कर्मणि पित्र्ये च पञ्चमेऽहनि शुद्ध्यति ॥५१॥द्रव्याभावे द्विजाभावे प्रवासे पुत्रजन्मनि ॥आमश्राद्धं प्रकुर्वीत यस्य भार्या रजस्वला ॥५२॥सर्पविप्रहतानां च दंष्ट्रिशृंगिसरीसृपैः ॥आत्मनस्त्यागिनां चैव श्राद्धमेषां न कारयेत् ॥५३॥चण्डालादुदकात्सर्पाद्ब्राह्मणाद्वैद्युतादपि ॥दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मणाम् ॥५४॥सर्वैरनुमतं कृत्वा ज्येष्ठेनैव च यत्कृतम् ॥द्रव्येण च विभक्तेन सर्वैरेव कृतं भवेत् ॥५५॥अमावास्यां पितृश्राद्धे मंथनं यस्तु कारयेत् ॥तत्तक्रं मदिरातुल्यं घृतं गोमांसवत्स्मृतम् ॥५६॥भुंजंति क्रमशः पूर्वे तथा पिंडाशिषो ऽपि च ॥निमंत्रितो द्विजः श्राद्धे न शयीत स्त्रिया सह ॥५७॥श्रादभुक्प्रातरुत्थाय प्रकुर्याद्दन्तधावनम् ॥श्राद्धकर्ता न कुर्वीत दन्तानां धावनं बुधः ॥५८॥वर्षेवर्षे तु यच्छ्राद्धं मातापित्रोर्मृतेऽहनि ॥मलमासे न कर्तव्यं व्यासस्य वचनं यथा ॥५९॥गर्भे वार्धुषिके प्रेते भृत्ये मासानुमासिके ॥आब्दिके च तथा श्राद्धे नाधिमासो विधीयते ॥६०॥विवाहादौ स्मृतः सौरो यज्ञादौ सावनः स्मृतः ॥आब्दिके पितृकार्ये तु चान्द्रो मासः प्रशस्यते ॥६१॥यस्मिन्राशौ गते सूर्ये विपत्तिः स्याद्द्विजन्मनः ॥तद्राशावेव कर्तव्यं पितृकार्यं मृतेऽहनि ॥६२॥वषट्कारश्च होमश्च पर्व चाग्रायणं तथा ॥मलमासेऽपि कर्तव्यं काम्या इष्टीर्विवर्जयेत् ॥६३॥अग्न्याध्येयं प्रतिष्ठां च यज्ञदानव्रतानि च ॥वेदव्रतवृषोत्सर्गचूडाकरणमेखलाः ॥६४॥मांगल्यमभिषेकं च मलमासे विवर्जयेत् ॥नित्यनैमित्तिके कुर्यात्प्रयतः सन्मलिम्लुचे ॥तीर्थे स्नानं गज च्छायां प्रेतश्राद्धं तथैव च ॥६५॥रसा यत्र प्रशस्यन्ते भोक्तारो बंधुगोत्रिणः ॥राजवार्तादि संक्रंदो रक्षःश्राद्धस्य लक्षणम् ॥६६॥श्राद्धं कृत्वा परश्राद्धे यस्तु भुंक्ते च विह्वलः ॥पतंति पितरस्तस्य लुप्तपिण्डोदकक्रियाः ॥६७॥तैलमुद्वर्तनं स्नानं दन्तधावनमेव च ॥क्लृप्तरोमनखेभ्यश्च दद्याद्गत्वापरेऽहनि ॥६८॥निमन्त्रिता यथान्यायं हव्ये कव्ये द्विजोत्तमाः ॥कथंचिदप्यतिक्रामेत्पापः शूकरतां व्रजेत् ॥६९॥दैवे च पितृ श्राद्धे चाप्याशौचं जायते यदा ॥आशौचान्तेऽथवा तत्र तेभ्यः श्राद्धं प्रदीयते ॥७०॥अथ श्राद्धावसाने तु आशिषस्तत्र दापयेत् ॥दीर्घा नागास्तथा नद्यो विष्णोस्त्रीणि पदानि च ॥एवमेषां प्रमाणेन दीर्घमायुरवाप्नुयाम् ॥७१॥अपां मध्ये स्थिता देवाः सर्वमप्सु प्रतिष्ठितम् ॥ब्राह्मणस्य करे न्यस्ताः शिवा आपो भवन्तु नः ॥७२॥लक्ष्मीर्वसति पुष्पेषु लक्ष्मीर्वसति पुष्करे ॥लक्ष्मीर्वसतु वासे मे सौमनस्यं ददातु मे ॥७३॥अक्षतं चाऽस्तु मे पुण्यं शांतिः पुष्टिर्धृतिश्च मे ॥यद्यच्छ्रेयस्करं लोके तत्तदस्तु सदा मम ॥७४॥दक्षिणायां तु सर्वत्र बहुदेयं तथास्तु नः ॥एवमस्त्विति तैर्वाच्यं मूर्ध्ना ग्राह्यं च तेन तत् ॥७५॥पिंडमग्नौ सदा देयाद्भोगार्थी सततं नरः ॥प्रजार्थं पत्न्यै वै दद्यान्मध्यमं मंत्रपूर्वकम् ॥७६॥उत्तमां द्युतिमविच्छन्गोषु नित्यं प्रदापयेत् ॥आज्ञामिच्छेद्यशः कीर्तिमप्सु नित्यं प्रवेशयेत् ॥७७॥प्रार्थयन्दीर्घमायुश्च वायसेभ्यः प्रदापयेत् ॥कुमारलोकमन्विच्छन्कुक्कुटेभ्यः प्रदापयेत् ॥७८॥आकाशे प्रक्षिपेद्वापि स्थितो वा दक्षिणामुखः ॥पितॄणां स्थानमाकाशं दक्षिणा चैव दिक्तथा ॥७९॥नक्तं तु वर्जयेच्छ्राद्धं राहोरन्यत्र दर्शनात् ॥सर्वस्वेनापि कर्तव्यं क्षिप्रं वै राहुदर्शनात् ॥८०॥उपरागे न कुर्याद्यः पंके गौरिव सीदति ॥कुर्वाणस्तु तरेत्पापं सा च नौरिव सागरे ॥८१॥कृष्णमाषास्तिलाश्चैव श्रेष्ठाः स्युर्यवशालयः ॥महायवा व्रीहियवास्तथैव च मसूरिकाः ॥८२॥कृष्णाः श्वेताश्च वा ग्राह्याः श्राद्धकर्मणि सर्वदा ॥बिल्वामलकमृद्वीकं पनसाम्रातदाडिमम् ॥८३॥भव्यं पारापतं चैव खर्जूरं करमर्द्दकम् ॥सकोरका बदर्यश्च तालकंदं तथा बिसम् ॥८४॥तमालासनकंदं च मावेल्लं शतकंदली ॥कालेयं कालशाकं च मुद्गान्नं च सुवर्चलम्॥८५॥मांसं क्षीरं दधि शाकं व्योषं वेत्रांकुरस्तथा ॥कट्फलं वज्रकं द्राक्षां लकुचं मोचमेव च ॥८६॥प्रियामलकदुर्ग्रीवं तिंडुकं मधुसाह्वयम् ॥वैकंकतं नालिकेरं शृङ्गाटकपरूषकम् ॥८७॥पिप्पलीमरिचं चैव पटोली बृहतीफलम्॥आरामस्य तु सीमाऽन्तः संभवं सर्वमेव तु ॥८८॥एवमादीनि चान्यानि पुष्पाणि श्राद्धकर्मणि॥मसूराः शतपुष्प्याश्च कुसुमं श्रीनिकेतनम् ॥८९॥वर्या स्वातियवा नित्यं तथा वृषयवासकौ ॥वंशा करीरा सुरसा मार्जिता भूतृणानि च ॥९०॥वर्जनीयानि वक्ष्यामि श्राद्धकर्मणि नित्यशः ॥लशुनं गृंजनं चैव पलांडुं पिण्डमूलकम् ॥मोगरं चात्र वैदेहं दीर्घमूलकमेव च ॥९१॥दिवसस्याष्टमे भागे मन्दीभूते दिवाकरे ॥आसुरं तद्भवेच्छ्राद्धं पितृणां नोपतिष्ठते ॥९२॥चतुर्थे प्रहरे प्राप्ते यः श्राद्धं कुरुते नरः ॥वृथा श्राद्धमवाप्नोति दाता च नरकं व्रजेत् ॥९३॥लेखाप्रभृत्यथादित्ये मुहूर्तास्त्रय एव च ॥प्रातस्तस्योत्तरं कालं भगमाहुर्विपश्चितः ॥९४॥संगवस्त्रिमुहूर्तोऽयं मध्याह्नस्तु समन्ततः ॥ततश्च त्रिमुहूर्ताश्च अपराह्णो विधीयते ॥९५॥पञ्चमोऽथ दिनांशो यः स सायाह्न इति स्मृतः ॥९६॥ ॥तथा च श्रुतिः॥यदैवादित्योऽथ वसन्तो यदा संगविकोऽथ ग्रीष्मो यदा वा माध्यंदिनोऽथ वर्षा यदपराह्णोऽथ शरत् ॥घदेवास्तमेत्यथ हेमन्त इति ॥९७॥प्रारभ्य कुतपे श्राद्धे कुर्यादारोहणं बुधः ॥विधिज्ञो विधिमास्थाय रोहिणं न तु लंघयेत् ॥९८॥अष्टमो यो मुहूर्तश्च कुतपः स निगद्यते ॥नवमो रौहिणः प्रोक्त इति श्राद्धविदो विदुः ॥९९॥एकोद्दिष्टं तु मध्याह्नं प्रातर्वै जातकर्मणि ॥पित्र्यार्थं निर्वपेत्पाकं वैश्वदेवार्थमेव च ॥१००॥वैश्वदेवे न पित्र्यार्थं न पित्र्यं वैश्वदेविके ॥कृत्वा श्राद्धं महादेवि ब्राह्मणांश्च विसर्ज्य च ॥१०१॥वैश्वदेवादिकं कर्म ततः कुर्याद्वरानने ॥बहुहव्येन्धने चाग्नौ सुसमिद्धे विशेषतः ॥१०२॥विधूमे लेलिहाने च कुर्यात्कर्म प्रसिद्धये ॥अप्रबुद्धे सधूमे च जुहुयाद्यो हुताशने ॥ ॥१०३॥यजमानो भवेदन्धः कुपुत्र इति निश्चितम् ॥दुर्गन्धश्चैव कृष्णश्च नीलश्चैव विशेषतः ॥१०४॥भूमिं विगाहते यत्र तत्र विद्यात्पराभवम् ॥अर्चिष्मान्पिंगलशिखः सर्पिःकांचनसप्रभः ॥१०५॥स्निग्धः प्रदक्षिणश्चैव वह्निः स्यात्कार्यसिद्धये ॥अंजनाभ्यंजनं गंधान्मन्त्रप्रणयनं तथा ॥१०६॥काशैः पुनर्भवेत्कार्यं हयमेधफलं लभेत् ॥अष्टजातिकपुष्पं च अञ्जनं नित्यमेव हि ॥१०७॥कृष्णेभ्यश्च तिलेभ्यश्च तैलं यत्नात्सुरक्षितम् ॥चन्दनागरुणी चोभे तमालोशीरपद्मकम् ॥१०८॥धूपश्च गौग्गुलः श्रेष्ठस्तौरुष्को धूप एव च ॥शुक्लाः सुमनसः श्रेष्ठास्तथा पद्मोत्पलानि च ॥१०९॥गन्धवन्त्युपपन्नानि यानि चान्यानि कृत्स्नशः ॥निशिगंधा जपा भिण्डिरूपकः सकुरंटकः ॥११०॥पुष्पाणि वर्जनीयानि श्राद्धकर्मणि नित्यशः ॥सौवर्णं राजतं ताम्रं पितॄणां पात्रमुच्यते ॥१११॥रजतस्य तथा किञ्चिद्दर्शनं पुण्यदायकम् ॥कृष्णाजिनस्य सान्निध्यं दर्शनं दानमेव च ॥११२॥रक्षोघ्नं चैव वर्चस्यं पशून्पुत्रांश्च तारयेत् ॥अथ मन्त्रं प्रवक्ष्यामि अमृतं ब्रह्मनिर्मितम् ॥११३॥देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ॥नमः स्वाहायै स्वधायै नित्यमेव नमोनमः ॥११४॥आद्यावसाने श्राद्धस्य त्रिरावर्तमिमं जपन् ॥अश्वमेधफलं ह्येतद्विप्रैः संज्ञाय पूजितम् ॥११५॥पिण्डनिर्वपणे वापि जपेदेनं समाहितः ॥पितरः क्षिप्रमायान्ति राक्षसाः प्रद्रवन्ति च ॥११६॥सप्तार्चिषं प्रवक्ष्यामि सर्वकामशुभप्रदम् ॥११७॥अमूर्तानां च मूर्तानां पितॄणां दीप्ततेजसाम् ॥नमस्यामि सदा तेषां ध्यायिनां दिव्यचक्षुषाम् ॥११८॥इन्द्रादीनां च नेतारो दक्षमारीचयस्तया ॥तान्नमस्यामि सर्वान्वै पितॄंश्चैवौषधीस्तथा ॥११९॥नक्षत्राणां ग्रहाणां च वाय्वग्न्योश्च पितॄनपि ॥द्यावापृथिव्योश्च सदा नमस्यामि कृताञ्जलिः ॥१२०॥नमः पितृभ्यः सप्तभ्यो नमो लोकेषु सप्तसु ॥स्वयंभुवे नमस्यामो ब्रह्मणे योगचक्षुषे ॥१२१॥एतत्त्वदुक्तं सप्तर्षिब्रह्मर्षिगणसेवितम् ॥पवित्रं परमं ह्येतच्छ्रीमद्रक्षोविनाशनम् ॥१२२॥अनेन विधिना युक्तस्त्रीन्वारांस्तु जपेन्नरः ॥भक्त्या परमया युक्तः श्रद्दधानो जितेन्द्रियः ॥१२३॥सप्तार्चिषं जपेद्यस्तु नित्यमेव समाहितः ॥स तु सप्तसमुद्रायाः पृथिव्या एकराड्भवेत् ॥१२४॥श्राद्धकल्पं पठेद्यो वै स भवेत्पंक्तिपावनः ॥अष्टादशानां विद्यानां स च वै पारगः स्मृतः ॥१२५॥पूजां पुष्टिं स्मृतिं मेधां राज्यमारोग्यमेव च ॥प्रीता नित्यं प्रयच्छन्ति मानुषाणां पितामहाः ॥१२६॥एवं प्रभासक्षेत्रे स सरस्वत्यब्धिसंगमे ॥कुर्याच्छ्राद्धं विधानेन प्रभासे चैव भामिनि ॥१२७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभास क्षेत्रमाहात्म्ये सरस्वत्यब्धिसंगमे श्राद्धकल्पे श्राद्धविधिवर्णनंनाम षडुत्तरद्विशततमोऽध्यायः ॥२०६॥ N/A References : N/A Last Updated : January 12, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP