संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय १९६

प्रभासक्षेत्र माहात्म्यम् - अध्याय १९६

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि प्रभासं जलसंस्थितम् ॥
वृद्धप्रभासाद्दक्षिणतो नातिदूरे व्यवस्थितम् ॥१॥
तस्यैव देवि देवस्य शृणु माहात्म्यमुत्तमम् ॥२॥
जामदग्न्येन रामेण यदा क्षत्त्रवधः कृतः ॥
तदाऽस्य परमा जाता घृणा मनसि भामिनि ॥३॥
ततस्त्वाराधयामास महादेवं सुरेश्वरम्॥
उग्रं तपः समास्थाय बहून्वर्ष गणान्प्रिये ॥४॥
ततस्तुष्टो महादेवस्तस्य प्रत्यक्षतां गतः ॥
अब्रवीद्वरदस्तेऽहं वरं वरय सुव्रत ॥५॥
 ॥राम उवाच॥
यदि तुष्टोऽसि मे देव यदि देयो वरो मम ॥
दर्शयस्व स्वकं लिंगं यज्ञे वज्रेण छादितम् ॥६॥
घृणा मे महती जाता हत्वेमान्क्षत्रियान्बहून् ॥
दर्शनात्तव लिंगस्य येन मे नश्यते घृणा ॥७॥
तथा मे पातकं सर्वं प्रसादात्तव शंकर ॥८॥
 ॥शंकर उवाच॥
मम लिंगं सहस्राक्ष उत्थितं तु पुनःपुनः ॥
वज्रेणाच्छादयत्येव भयेन महता वृतः ॥९॥
न तेऽहं दर्शनं यास्ये लिंगरूपी कदाचन ॥१०॥
यन्मां वदसि घृणया वृतोऽहं पातकेन तु ॥
तत्तेऽहं नाशयिष्यामि स्पर्शनात्तु द्विजोत्तम ॥११॥
अस्मिञ्जलाश्रये पुण्ये जलमध्ये महामते ॥
उत्थास्यति महालिंगं तस्य त्वं दर्शनं कुरु ॥ ॥१२॥
गमिष्यति घृणा सर्वा निष्पापस्त्वं भविष्यसि ॥
उक्त्वैवमुदतिष्ठच्च जलमध्याद्वरानने ॥१३॥
जलप्रभासनामास्य ततो जातं धरातले ॥
तस्यालं स्पर्शनाद्देवि शिवलोकं व्रजेन्नरः ॥१४॥
एकं भोजयते योऽत्र ब्राह्मणं शंसितव्रतम् ॥
भोजितोऽहं भवेत्तेन सपत्नीको न संशयः ॥१५॥
एषा जलप्रभासस्य संभूतिस्ते मयोदिता ॥
श्रुता पापोपशमनी सर्वकामफलप्रदा ॥१६॥
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये जलप्रभासमाहात्म्यवर्णनंनाम षण्णवत्युत्तरशततमोऽध्यायः ॥१९६॥

N/A

References : N/A
Last Updated : January 12, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP