संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्| अध्याय २१ प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ अध्याय २८० अध्याय २८१ अध्याय २८२ अध्याय २८३ अध्याय २८४ अध्याय २८५ अध्याय २८६ अध्याय २८७ अध्याय २८८ अध्याय २८९ अध्याय २९० अध्याय २९१ अध्याय २९२ अध्याय २९३ अध्याय २९४ अध्याय २९५ अध्याय २९६ अध्याय २९७ अध्याय २९८ अध्याय २९९ अध्याय ३०० अध्याय ३०१ अध्याय ३०२ अध्याय ३०३ अध्याय ३०४ अध्याय ३०५ अध्याय ३०६ अध्याय ३०७ अध्याय ३०८ अध्याय ३०९ अध्याय ३१० अध्याय ३११ अध्याय ३१२ अध्याय ३१३ अध्याय ३१४ अध्याय ३१५ अध्याय ३१६ अध्याय ३१७ अध्याय ३१८ अध्याय ३१९ अध्याय ३२० अध्याय ३२१ अध्याय ३२२ अध्याय ३२३ अध्याय ३२४ अध्याय ३२५ अध्याय ३२६ अध्याय ३२७ अध्याय ३२८ अध्याय ३२९ अध्याय ३३० अध्याय ३३१ अध्याय ३३२ अध्याय ३३३ अध्याय ३३४ अध्याय ३३५ अध्याय ३३६ अध्याय ३३७ अध्याय ३३८ अध्याय ३३९ अध्याय ३४० अध्याय ३४१ अध्याय ३४२ अध्याय ३४३ अध्याय ३४४ अध्याय ३४५ अध्याय ३४६ अध्याय ३४७ अध्याय ३४८ अध्याय ३४९ अध्याय ३५० अध्याय ३५१ अध्याय ३५२ अध्याय ३५३ अध्याय ३५४ अध्याय ३५५ अध्याय ३५६ अध्याय ३५७ अध्याय ३५८ अध्याय ३५९ अध्याय ३६० अध्याय ३६१ अध्याय ३६२ अध्याय ३६३ अध्याय ३६४ अध्याय ३६५ अध्याय ३६६ विषयानुक्रमणिका प्रभासक्षेत्र माहात्म्यम् - अध्याय २१ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २१ Translation - भाषांतर ॥देव्युवाच॥श्रुतं सर्वमशेषेण चन्द्रस्योत्पत्ति कारणम् ॥चिह्नं यथाऽभवत्तस्य सांप्रतं तत्प्रकीर्त्तय ॥१॥ ॥ईश्वर उवाच॥ब्रह्मणस्तु पुरा देवि दक्षो नाम सुतोऽभवत् ॥प्रजाः सृजेति उद्दिष्टः पूर्वं दक्षः स्वयंभुवा ॥२॥षष्टिं दक्षोऽसृजत्कन्या वैरिण्यां वै प्रजापतिः ॥ददौ स दश धर्माय कश्यपाय त्रयोदश ॥३॥सप्त विशतिं सोमाय चतस्रोऽरिष्टनेमिने ॥द्वे चैव भृगुपुत्राय द्वे कृशाश्वाय धीमते ॥४॥द्वे चैवांगिरसे तद्वत्तासां नामानि विस्तरात् ॥शृणु त्वं देवि मातॄणां प्रजाविस्तरमादितः ॥५॥मरुत्वती वसुर्जामी लंबा भानुररुन्धती ॥संकल्पा च मुहूर्ता च साध्या विश्वा च भामिनि ॥६॥धर्म पत्न्यः समाख्याता दक्षः प्राचेतसो ददौ ॥अदितिर्दितिर्दनुस्तद्वदरिष्टा सुरसैव च ॥७॥सुरभिर्विनता चैव नाम्ना क्रोधवशा त्विला ॥कद्रूस्त्विषा वसुस्तद्वत्तासां पुत्रान्वदामि वै ॥८॥विश्वेदेवास्तु विश्वायाः साध्या साध्यानजीजनत् ॥मरुत्वत्यां मरुत्वंतो वसोस्तु वसवस्तथा ॥९॥।भानोस्तु भानवस्तेन मुहूर्त्तायां मुहूर्त्तकाः ॥लंबाया घोषनामानो नागवीथिस्तु जामिजा ॥१०॥संकल्पायास्तु संकल्पो धर्मपुत्रा दश स्मृताः ॥आपो ध्रुवश्च सोमश्च धरश्चैवानलोऽनिलः ॥११॥प्रत्यूषश्च प्रभासश्च वसवोष्टौ प्रकीर्तिताः ॥आपस्य पुत्रा वैदंड्यः श्रमः शान्तो ध्वनिस्तथा ॥। ॥१२॥ध्रुवस्य पुत्रो भगवान्कालो लोकप्रकालनः ॥सोमस्य भगवाञ्छर्वो ध्रुवश्च गृहबोधनः ॥१३॥हुतहव्यवहश्चैव धरस्य द्रविण स्मृतः ॥मनोजवोऽनिलस्यासीदविज्ञातगतिस्तथा ॥१४॥देवलो भगवान्योगी प्रत्यूषस्याभवन्सुताः ॥बृहस्पतेस्तु भगिनी भुवना ब्रह्मवादिनी ॥१५॥प्रभासस्य तु सा भार्या वसूनामष्टमस्य च ॥विश्वकर्मा सुतस्तस्य शिल्पकर्त्ता प्रजापतिः ॥१६॥तुषितानां तु साध्यानां नामान्येतानि वच्मि ते ॥मनोऽनुमन्ता प्राणश्च नरोऽपानश्च वीर्यवान् ॥१७॥भक्तिर्भयोऽनघश्चैव हंसो नारायणस्तथा ॥विभुश्चैव प्रभुश्चैव साध्या द्वादश कीर्तिताः ॥१८॥कश्यपस्य प्रवक्ष्यामि सन्ततिं वरवर्णिनि ॥अंशो धाता भगस्त्वष्टा मित्रोऽथ वरुणो र्यमा ॥१९॥विवस्वान्सविता पूषा ह्यंशुमान्विष्णुरेव च ॥एते सहस्रकिरणा आदित्या द्वादश स्मृताः ॥२०॥अजैकपादहिर्बुध्न्यो विरूपाक्षोऽथ रैवतः ॥हरश्च बहुरूपश्च त्र्यंबकश्च सुरेश्वरः ॥२१॥सावित्रश्च जयन्तश्च पिनाकी चापराजितः ॥एते रुद्राः समाख्याता एकादश गणेश्वराः ॥२२॥दितिः पुत्रद्वयं लेभे कश्यपाद्बलगर्वितम् ॥हिरण्यकशिपुं श्रेष्ठं हिरण्याक्षं तथानुजम् ॥२३॥हिरण्यकशिपोर्दैत्यैः श्लोकोगीतः पुरातनैः ॥२४॥राजा हिरण्यकशिपुर्यांयामाशां निरीक्षते ॥तस्यां तस्यां दिशि सुरा नमश्चक्रुर्महर्षिभिः ॥हिरण्यकशिपोः पुत्राश्चत्वारः सुमहाबलाः ॥२५॥प्रह्लादः पूर्वजस्तेषामनुह्रादस्ततः परः ॥ह्रादश्चैव ह्रदश्चैव पुत्राश्चैते प्रकीर्तिताः ॥२६॥उभौ सुन्दोपसुन्दौ तु ह्रदपुत्रौ बभूवतुः ॥ह्रादस्य पुत्रस्त्वेकोऽभून्मूक इत्यभिविश्रुतः ॥२७॥मारीचः सुंदपुत्रस्तु ताडकायामजायत ॥दण्डके निहतः सोऽयं राघवेण वलीयसा ॥२८॥मूको विनिहतश्चापि कैराते सब्यसाचिना ॥संह्रादस्य तु दैत्यस्य निवातकवचाः कुले ॥२९॥तिस्रः कोट्यस्तु विख्याता निहताः सव्यसाचिना॥गवेष्ठी कालनेमिश्च जंभो वल्कल एव च ॥३०॥जृंभः षष्ठोनुजस्तेषां स्मृताः प्रह्रादसूनवः ॥शुंभश्चैव निशुंभश्च गवेष्ठिनः सुतौ स्मृतौ ॥३१॥धनुकश्चासिलोमा च शुंभपुत्रौ प्रकीर्तितौ ॥विरोचनस्य पुत्रस्तु बलिरेकः प्रतापवान् ॥३२॥हिरण्याक्षसुताः पंच विक्रांताः सुमहाबलाः ॥अन्धकः शकुनिश्चैव कालनाभस्तथैव च ॥३३॥महानाभश्च विक्रांतो भूतसंतापनस्तथा ॥शतं शतसहस्राणि निहतास्तारकामये ॥३४॥इति संक्षपतः प्रोक्ता कश्यपान्वयसंततिः ॥यया व्याप्तं जगत्सर्वं सदेवासुरमानुषम् ॥३५॥अथ याः कन्यका दत्ताः सप्तविंशतिरिंदवे ॥तासां मध्ये महादेवि प्रिया तस्य च रोहिणी ॥३६॥अथ नक्षत्रनाथस्य तासां मध्येतिवल्लभा ॥बभूव रोहिणी देवी प्राणेभ्योऽपि गरीयसी ॥३७॥सर्वास्ताः संपरित्यज्य रोहिण्या सहितो रहः ॥रेमे कामपरीतात्मा वनेषूपवनेषु च ॥रमणीयेषु देशेषु कन्दरेषु गुहासु च ॥३८॥अथ ता दुःखसंपन्नाः पत्न्यः शेषा यशस्विनि ॥जग्मुश्च शरणं दक्षं वचनं चेदमब्रुवन् ॥३९॥सोमः सर्वा तिक्रम्य रोहिण्या सह मोदते ॥संवत्सरसहस्रं तु क्रीडमानो यथासुखम् ॥४०॥अवशिष्टास्तु षड्विंशन्मलिना विगतश्रियः ॥पाणिग्रहणमारभ्य रोहिण्या सह चंद्रमाः ॥४१॥संवत्सरसहस्रं तु जानात्येकां स शर्वरीम् ॥परित्यक्ता वयं तात शशिना दोषवर्जिताः ॥४२॥स रेमे सह रोहिण्या अस्माकमसुखप्रदः ॥अस्माकं दुःखदग्धानां श्रेयोऽतो मरणं भवेत् ॥४३॥तासां तद्वचनं श्रुत्वा दुःखार्तानां प्रजापतिः ॥ब्रह्मतेजः समायुक्तः पुत्रीस्नेहेन कर्षितः ॥जगाम यत्र ऋक्षेशो वचनं चेदमब्रवीत् ॥४४॥समं वर्त्तस्व कन्यासु मामकासु निशाकर ॥अन्यथा दोषभागी त्वं भविष्यसि न संशयः ॥४५॥तस्य तद्वचनं श्रुत्वा लज्जयावनतः स्थितः ॥बाढमित्येव ऋक्षेंद्रो दक्षस्य पुरतोऽब्रवीत् ॥४६॥अद्यप्रभृति विप्रर्षे समं वर्त्तयितास्म्यहम्॥पुत्रीभिस्तव सत्यं वै शपेऽहं शपथेन ते ॥४७॥एवं प्रतिज्ञासंयुक्ते निशानाथे तदांबिके ॥सर्वा रूपेण संयुक्तास्तस्य कन्या निवेदिताः ॥४८॥दक्षः स्वभवनं गत्वा निर्वृतिं परमां गतः ॥चन्द्रोऽपि पूर्ववद्देवि रोहिण्यां निरतोऽभवत् ॥४९॥संपरित्यज्य ताः सर्वाः कामोपहतमानसः ॥अथ भूयस्तु ताः सर्वा दक्षं वचनमब्रुवन् ॥५०॥मलिनास्ताः कृशांग्यश्च दीनाः सर्वा विचेतसः ॥ततो दृष्ट्वा तथारूपं दक्षो मोहमुपागतः ॥५१॥लब्धसंज्ञः पुनः सोऽपि क्रोधोद्भूततनूरुहः ॥उवाच सर्वाः स्वाः पुत्रीः किमित्थं मलिनांबराः ॥किमिदं निष्प्रभाः सर्वाः कथयध्वं ममानघाः ॥५२॥असुरान्सानुगांश्चैव ये चान्ये सुरसत्तमाः ॥अद्य शापहतान्पुत्र्यः करिष्यामि न संशयः ॥५३॥एवमुक्तास्तु दक्षेण सर्वास्ताः समुदैरयन् ॥५४॥न चास्माकं निशानाथ ऋतुमात्रमपि प्रभो ॥प्रयच्छति पुनस्तेन युष्मत्पार्श्वं समागताः ॥५५॥अनादृत्य तु ते वाक्यं रोहिण्यां निरतो रहः ॥रेमे कामपरीतात्मा अस्माकं शोकवर्द्धनः ॥५६॥तासां तद्वचनं श्रुत्वा दक्षः कोपमुपागतः ॥गत्वा चंद्रं महादेवि शशाप प्रमुखे स्थितम् ॥५७॥अनादृत्य हि मे वाक्यं यस्मात्त्वं रोहिणीरतः ॥संत्यज्य पुत्रीश्चास्माकं शेषा दोषेण वर्जिताः ॥तस्माद्यक्ष्मा शरीरं ते ग्रसिष्यति न संशयः॥५८॥एतस्मिन्नेव काले तु यक्ष्मा पर्वतपुत्रिके ॥दक्षेण तु समादिष्टस्तस्य कायं समाविशत् ॥५९॥यक्ष्मणा ग्रस्तकायोऽसौ क्षयं याति दिनेदिने ॥६०॥एवं सोमस्तु दक्षेण कृतशापो गतप्रभः ॥पपात वसुधां देवि निश्चेष्टो रोहिणीयुतः ॥६१॥लब्ध्वसंज्ञो मुहूर्तेन रोहिणीवाक्य मब्रवीत् ।६२।देवि कार्यं किमधुना त्वत्पित्रा शापितो ह्यहम्॥क्षयकुष्ठेन संयुक्तः किं करोम्यधुना प्रिये॥६३॥एवमुक्ता रोहिणी तु बाष्पव्याकुललोचना॥दक्षशापहतं दृष्ट्वा सोमं वचनमब्रवीत्॥६४॥येन शापस्तु ते दत्तस्तमेव शरणं व्रज॥स ते शापाभिभूतस्य नूनं श्रेयो विधास्यति ॥६५॥लप्स्यसे तत्प्रसादात्त्वं प्रभां पूर्वोचितां शुभाम् ॥६६॥रोहिण्या वचनं श्रुत्वा गतो दक्षसमीपतः ॥चंद्रः प्रोवाच विनयाद्वाष्प व्याकुललोचनः ॥६७॥कुरुष्वानुग्रहं दक्ष प्रसन्नेनांतरात्मना ॥कोपं त्यज महर्षे त्वं ममोपरि दयां कुरु ।१ ६८॥त्वया क्रोधपरीतेन कारणे वाप्यकारणे ॥अनुकंपां च मे कृत्वा कार्यं शापस्य मोक्षणम् ॥६९॥विदितं तु महाभाग शप्तोहं येन कर्मणा ॥कुरुष्वानुग्रहं दक्ष मम दीनस्य याचतः ॥७०॥एवं विलपमानस्य सोमस्य तु महात्मनः ॥अनुग्रहे मतिं कृत्वा इदं वचनमब्रवीत् ॥७१॥ ॥दक्ष उवाच॥मया शापहतः सोम त्रातुं शक्यो न दैवतैः॥यद्यद्ब्रवीम्यहं सोम तत्तथेति न संशयः ॥७२॥आयुः कर्म च वित्तं च विद्या निधनमेव च ॥पूर्वसृष्टानि यान्येव संभवंति हि तानि वै ॥७३॥असुराश्च सुराश्चैव ये चान्ये यक्षराक्षसाः ॥सर्वेपि शक्ता न त्रातुं वर्जयित्वा महेश्वरम् ॥७४॥एषां शापो मया दत्तोऽनुग्रहीष्य ति शंकरः॥नान्यस्त्रातुं भवेच्छक्तो विना पशुपतिं भवम् ॥तत्त्वं शीघ्रतरं गच्छ समाराधय शंकर ॥७५॥न शक्तोऽन्यः पुनश्चंद्रः कर्तुं त्वां निर्मलं पुनः॥वर्जयित्वा महादेवं शितिकंठमुमापतिम् ॥७६॥दक्षस्य च वचः श्रुत्वा कृतांजलिपुटः स्थितः॥प्रत्युवाच तदा सोमः प्रहष्टेनांतरात्मना॥७७॥भगवन्यदि तुष्टोसि मम भक्तस्य सुव्रत ॥अनुग्रहे कृता बुद्धिस्तदाचक्ष्व कुतः शिवः ॥७८॥कस्मिन्स्थाने मया दक्ष द्रष्टव्योऽसौ महेश्वरः ॥तत्स्थानानि चरिष्यामि यानि तानि वदस्व मे ॥७९॥ ॥दक्ष उवाच॥शृणु सोम प्रयत्नेन श्रुत्वा चैवावधारय ॥वारुणीं दिशमाश्रित्य सागरानूपसन्निधौ ॥८०॥कृतस्मरस्यापरतो धन्वंतरशतत्रये ॥लिंगं महाप्रभावं च स्वयंभूतं व्यवस्थितम् ॥८१॥सूर्य्यबिंबसमप्रख्यं सर्प मेखलमंडितम्॥कुक्कुटांडकमानं तद्भूमिमध्ये व्यवस्थितम् ॥८२॥स्पर्शलिंगं हि तद्विद्धि तद्भक्त्या ज्ञास्यते भवान् ॥तत्र संनिहितो देवः शंकरः परमेश्वरः ॥८३॥गच्छ त्वं तपसोग्रेण आराधय सुरेश्वरम् ॥९४॥प्रशस्य देवदेवेशमात्मानं निर्मलं कुरु ॥यस्याशु वरदानेन प्राप्स्यसे रूपमुत्तमम् ॥८५॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्यासंहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सोमेश्वरोत्पत्तिप्रसंगे दक्षेण स्वशापजन्ययक्ष्मरोगार्त्तस्य चंद्रस्य यक्ष्मकुष्ठरोगनिवृत्तये शिवाराधनोपदेशवर्णनंनामैकविंशोऽध्यायः ॥२१॥ N/A References : N/A Last Updated : January 07, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP