संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्| अध्याय ३३६ प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम् अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ अध्याय २८० अध्याय २८१ अध्याय २८२ अध्याय २८३ अध्याय २८४ अध्याय २८५ अध्याय २८६ अध्याय २८७ अध्याय २८८ अध्याय २८९ अध्याय २९० अध्याय २९१ अध्याय २९२ अध्याय २९३ अध्याय २९४ अध्याय २९५ अध्याय २९६ अध्याय २९७ अध्याय २९८ अध्याय २९९ अध्याय ३०० अध्याय ३०१ अध्याय ३०२ अध्याय ३०३ अध्याय ३०४ अध्याय ३०५ अध्याय ३०६ अध्याय ३०७ अध्याय ३०८ अध्याय ३०९ अध्याय ३१० अध्याय ३११ अध्याय ३१२ अध्याय ३१३ अध्याय ३१४ अध्याय ३१५ अध्याय ३१६ अध्याय ३१७ अध्याय ३१८ अध्याय ३१९ अध्याय ३२० अध्याय ३२१ अध्याय ३२२ अध्याय ३२३ अध्याय ३२४ अध्याय ३२५ अध्याय ३२६ अध्याय ३२७ अध्याय ३२८ अध्याय ३२९ अध्याय ३३० अध्याय ३३१ अध्याय ३३२ अध्याय ३३३ अध्याय ३३४ अध्याय ३३५ अध्याय ३३६ अध्याय ३३७ अध्याय ३३८ अध्याय ३३९ अध्याय ३४० अध्याय ३४१ अध्याय ३४२ अध्याय ३४३ अध्याय ३४४ अध्याय ३४५ अध्याय ३४६ अध्याय ३४७ अध्याय ३४८ अध्याय ३४९ अध्याय ३५० अध्याय ३५१ अध्याय ३५२ अध्याय ३५३ अध्याय ३५४ अध्याय ३५५ अध्याय ३५६ अध्याय ३५७ अध्याय ३५८ अध्याय ३५९ अध्याय ३६० अध्याय ३६१ अध्याय ३६२ अध्याय ३६३ अध्याय ३६४ अध्याय ३६५ अध्याय ३६६ विषयानुक्रमणिका प्रभासक्षेत्र माहात्म्यम् - अध्याय ३३६ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ३३६ Translation - भाषांतर ॥ईश्वर उवाच॥ततो गच्छेन्महादेवि गोष्पदं तीर्थमुत्तमम् ॥यत्र श्राद्धं नरः कृत्वा गयासप्तगुणं फलम्॥लभते नात्र संदेहो यदि श्रद्धा दृढा भवेत् ॥१॥यत्र श्राद्धं पृथुः कृत्वा पितरं पापयोनितः ॥उद्दधार महादेवि वेनंनाम महाप्रभुम् ॥ ॥२॥ ॥देव्युवाच॥कस्मिन्स्थाने स्थितं तीर्थमुत्पत्तिस्तस्य कीदृशी ॥कथं स वेनराजो वा उद्धृतः पापयोनितः ॥३॥गयासप्तगुणं पुण्यं कथं तत्र प्रजायते ॥श्राद्धस्य किं विधानं तु के मंत्रास्तत्र के द्विजाः ॥एतन्मे कौतुकं देव यथावद्वक्तुमर्हसि ॥४॥ ॥ईश्वर उवाच॥इदं रहस्यं देवेशि यत्त्वया परिपृच्छितम्॥अप्रकाश्यमिदं तीर्थमस्मिन्पापयुगे प्रिये ॥५॥तथापि संप्रवक्ष्यामि तव स्नेहात्सुरेश्वरि ॥न पापिन इदं ब्रूयान्नैव तर्करताय वै ॥६॥न नास्तिकाय देवेशि न सुवर्णेतराय च ॥अस्ति देवि महासिद्धा पुण्या न्यंकुमती नदी ॥७॥मर्यादार्थं मयाऽऽनीता क्षेत्रस्यास्य महेश्वरि॥संस्थिता पापशमनी पर्णादित्याच्च दक्षिणे ॥८॥नारायणगृहात्सौम्ये नातिदूरे व्यवस्थिता॥तस्या मध्ये महादेवि तीर्थं त्रैलोक्यविश्रुतम् ॥९॥गोष्पदं नाम विख्यातं कोटिपापहरं नृणाम्॥गोष्पदस्य समीपे तु नातिदूरे व्यवस्थितः ॥१०॥अनन्तो नाम नागेन्द्रः स्वयंभूतो धरातले ॥तस्य तीर्थस्य रक्षार्थं विष्णुना सन्नियोजितः ॥११॥कांक्षंति पितरः पुत्रान्नरकादतिभीरवः ॥गंता यो गोष्पदे पुत्रः स नस्त्राता भविष्यति ॥गोष्पदे च सुतं दृष्ट्वा पितॄणामुत्सवो भवेत् ॥१२॥पद्भ्यामपि जलं स्पृष्ट्वा अस्मभ्यं किं न दास्यति ॥अपि स्यात्स कुलेऽस्माकं यो नो दद्याज्जलांजलिम् ॥प्रभासक्षेत्रमासाद्य गोष्पदे तीर्थ उत्तमे ॥१३॥अपि स्यात्स कुलेऽस्माकं खड्गमांसेन यः सकृत् ॥श्राद्धं कुर्यात्प्रयत्नेन कालशाकेन वा पुनः ॥१४॥अपि स्यात्स कुलेऽस्माकं गोष्पदे दत्तदीपकः ॥आकल्पकालिका दीप्तिस्तेनाऽस्माकं भविष्यति ॥१५॥गोष्पदे चान्नशता यः पितरस्तेन पुत्रिणः ॥दिनमेकमपि स्थित्वा पुनात्यासप्तमं कुलम् ॥ ॥१६॥पिण्डं दद्याच्च पित्रादेरात्मनोऽपि स्वयं नरः ॥पिण्याकेंगुदकेनापि तेन मुच्येद्वरानने ॥१७॥ब्रह्मज्ञानेन किं योगैर्गोग्रहे मरणेन किम् ॥किं कुरुक्षेत्रवासेन गोष्पदे यदि गच्छति ॥१८॥सकृत्तीर्थाभिगमनं सकृत्पिण्डप्रपातनम् ॥दुर्ल्लभं किं पुनर्नित्यमस्मिंस्तीर्थे व्यवस्थितम् ॥१९॥अर्द्धकोशं तु तत्तीर्थं तदर्द्धार्द्धं तु दुर्ल्लभम् ॥तन्मध्ये श्राद्धकृत्पुण्यं गयासप्तगुणं लभेत् ॥२०॥श्राद्धकृद्गोष्पदे यस्तु पितॄणामनृणो हि सः ॥पदमध्ये विशेषेण कुलानां शतमुद्धरेत् ॥२१॥गृहाच्चलितमात्रस्य गोष्पदे गमनं प्रति ॥स्वर्गारोहणसोपानं पितॄणां तु पदेपदे ॥२२॥पायसेनैव मधुना सक्तुना पिष्टकेन च ॥चरुणा तंदुलाद्यैर्वा पिंडदानं विधीयते ॥२३॥गोप्रचारे तु यः पिण्डा ञ्छमीपत्रप्रमाणतः ॥कन्दमूलफलाद्यैर्वा दत्त्वा स्वर्गं नयेत्पितॄन् ॥२४॥गोष्पदे पिण्डदानेन यत्फलं लभते नरः ॥न तच्छक्यं मया वक्तुं कल्पकोटिशतैरपि ॥२५॥अथातः संप्रवक्ष्यामि सम्यग्यात्राविधिं शुभम् ॥यात्राविधानं च तथा सम्यक्छ्रद्धान्विता शृणु ॥ ॥२६॥यदि तीर्थं नरो गच्छेद्गयाश्राद्धफलेप्सया ॥तथाविधविधानेन यात्रा कुर्याद्विचक्षणः ॥२७॥ब्रह्मचारी शुचिर्भूत्वा हस्तपादेषु संयतः ॥श्रद्धावानास्तिको भावी गच्छेत्तीर्थं ततः सुधीः ॥२८॥न नास्तिकस्य संसर्गं तस्मिंस्तीर्थे नरश्चरेत् ॥सर्वोपस्करसंयुक्तः श्राद्धार्ह द्रव्यसंयुतः ॥गच्छेत्तीर्थं साधुसंगी गयां मनसि मानयन् ॥२९॥एवं यस्तु द्विजो गच्छेत्प्रतिग्रहविवर्जितः ॥पदेपदेऽश्वमेधस्य फलं प्राप्नोत्य संशयम् ॥३०॥तत्र स्नात्वा न्यंकुमत्यां सिद्धये पितृमुक्तये ॥स्नात्वाथ तर्प्पणं कुर्याद्देवादीनां यथाविधि ॥३१॥ब्रह्मादिस्तंबपर्यंता देवर्षि मनुमानवाः ॥तृप्यन्तु पितरः सर्वे मातृमातामहादयः ॥३२॥एवं संतर्प्य विधिना कृत्वा होमादिकं नरः ॥श्राद्धं सपिण्डकं कुर्यात्स्वतंत्रोक्तविधानतः ॥३३॥आमन्त्र्य ब्राह्मणांस्तत्र शास्त्रजान्दोषवर्जितान् ॥एवं कृतोपचारस्तु इमं मन्त्रमुदीरयेत् ॥३४॥कव्यवाडनलः सोमो यमश्चैवार्यमा तथा ॥अग्निष्वात्ता बर्हिषदः सोमपाः पितृदेवताः ॥आगच्छन्तु महाभागा युष्माभी रक्षिता स्त्विह ॥३५॥मदीयाः पितरो ये च कुले जाताः सनाभयः ॥तेषां पिण्डप्रदाताऽहमागतोऽस्मिन्पितामहाः ॥३६॥एवमुक्त्वा महादेवि इमं मन्त्रमुदीरयेत् ॥३७॥पिता पितामहश्चैव तथैव प्रपितामहः ॥माता पितामही चैव तथैव प्रपितामही ॥३८॥मातामहः प्रमाता च तथा वृद्धप्रमातृकः ॥तेषां पिंडो मया दत्तो ह्यक्षय्यमुपतिष्ठताम् ॥३९॥ॐ नमो भानवे भर्त्रेऽब्जभौमसोमरू पिणे ॥एवं नत्वाऽर्चयित्वा तु इमां स्तुतिमथो पठेत् ॥४०॥तत्र गोष्पदसामीप्ये चरुणा सुशृतेन च ॥पितॄणामनाथानां च मंत्रैः पिंडांश्च निर्वपेत् ॥४१॥अस्मत्कुले मृता ये च गतिर्येषां न विद्यते ॥रौरवे चांधतामिस्रे कालसूत्रे च ये गताः ॥तेषामुद्धरणार्थाय इमं पिंडं ददाम्यहम् ॥४२॥अनेकयातनासंस्थाः प्रेतलोकेषु ये गताः ॥तेषामुद्धरणार्थाय इमं पिंडं ददाम्यहम् ॥४३॥पशुयोनिगता ये च ये च कीटसरी सृपाः ॥अथवा वृक्षयोनिस्थास्तेभ्यः पिंडं ददाम्यहम् ॥४४॥असंख्या यातनासंस्था ये नीता यमशासकैः॥तेषामुद्धरणार्थाय इमं पिंडं ददाम्यहम् ॥४५॥येऽबांधवा बांधवा ये येऽन्यजन्मनि बांधवाः ॥ते सर्वे तृप्तिमायांतु पिंडेनानेन सर्वदा ॥४६॥ये केचित्प्रेतरूपेण वर्त्तंते पितरो मम ॥ते सर्वे तृप्तिमायांतु पिंडेनानेन सर्वदा ॥४७॥दिव्यांतरिक्षभूमिस्थपितरो बांधवादयः ॥मृताश्चासंस्कृता ये च तेषां पिंडोस्तु मुक्तये ॥४८॥पितृवंशे मृता ये च मातृवंशे तथैव च ॥गुरुश्वशुरबंधूनां ये चान्ये बांधवा मृताः ॥४९॥ये मे कुले लुप्तपिंडाः पुत्रदारविवर्जिताः ॥क्रियालोपगता ये च जात्यंधाः पंगवस्तथा ॥५०॥विरूपा आमगर्भा येऽज्ञाता ज्ञाताः कुले मम ॥तेषां पिंडो मया दत्तो ह्यक्षय्यमुपतिष्ठताम्॥५१॥प्रेतत्वात्पितरो मुक्ता भवंतु मम शाश्वतम् ॥यत्किंचिन्मधुसमिश्रं गोक्षीरं घृतपायसम् ॥५२॥अक्षय्यमुपतिष्ठेत्त्वत्त्वस्मिंस्तीर्थे तु गोष्पदे॥स्वाध्यायं श्रावयेत्तत्र पुराणान्यखिलान्यपि ॥५३॥ब्रह्मविष्ण्वर्करुद्राणां स्तवानि विविधानि च॥ऐंद्राणि सोमसूक्तानि पावमानीश्च शक्तितः ॥५४॥बृहद्रथंतरं तद्वज्ज्येष्ठसाम सरौरवम्॥तथैव शांतिकाध्यायं मधुब्राह्मणमेव च ॥५५॥मंडलं ब्राह्मणं तत्र प्रीतकारि च यत्पुनः ॥विप्राणामात्मनश्चैव तत्सर्वं समुदीरयेत्॥५६॥एवं न्यंकुमतीमध्ये गोष्पदे तीर्थ उत्तमे ॥दत्त्वा पिंडांश्च विधिवत्पुनर्मंत्रमिमं पठेत् ॥५७॥साक्षिणः संतु मे देवा ब्रह्माद्या ऋषिपुंगवाः ॥मयेदं तीर्थमासाद्य पितॄणां निष्कृतिः कृता ॥५८॥आगतोऽस्मि इदं तीर्थं पितृकार्ये सुरोत्तमाः ॥भवंतु साक्षिणः सर्वे मुक्तश्चाहमृणत्रयात् ॥५९॥एवं प्रदक्षिणीकृत्य गोष्पदं तीर्थमुत्तमम् ॥विप्रेभ्यो दक्षिणां दत्त्वा नद्यां पिंडान्विसर्जयेत् ॥६०॥गोदानं तत्र देयं तु तद्वत्कृष्णाजिनं प्रिये ॥अष्टकासु च वृद्धौ च गयायां मृतवासरे ॥६१॥अत्र मातुः पृथक्छ्राद्धमन्यत्र पतिना सह ॥वृद्धिश्राद्धे तु मात्रादि गयायां पितृपूर्वकम् ॥६२॥गयावदत्रैव पुनः श्राद्धं कार्यं नरोत्तमैः ॥तस्माद्गुप्तगया प्रोक्ता इयं सा विष्णुना स्वयम् ॥६३॥गंधदानेन गंधाप्तिः सौभाग्यं पुष्पदानतः ॥धूपदानेन राज्याप्तिर्दीप्तिर्दीपप्रदानतः ॥६४॥ध्वजदानात्पापहानिर्यात्राकृद्ब्रह्मलोकभाक् ॥श्राद्धपिंडप्रदो लोके विष्णुर्नेष्यति वै पितॄन् ॥६५॥एकं यो भोजयेत्तत्र ब्राह्मणं शंसितव्रतम्॥गोप्रचारे महातीर्थे कोटिर्भवतिभोजिता ॥६६॥इति संक्षेपतः प्रोक्तस्तत्र श्राद्धविधिस्तव ॥अथ ते कथयिष्यामि इतिहासं पुरातनम् ॥६७॥वेनस्य राज्ञश्चरितं पृथोश्चैव महात्मनः ॥यथा तत्राभवन्मुक्तिस्तस्य चांडालयोनितः ॥तत्सर्वं शृणु देवेशि सम्यक्छ्रद्धासमान्विता ॥६८॥पिशुनाय न पापाय नाशिष्यायाहिताय च ॥कथनीयमिदं पुण्यं नाव्रताय कथंचन ॥६९॥स्वर्ग्यं यशस्यमायुष्यं धन्यं वेदेन संमितम् ॥रहस्यमृषिभिः प्रोक्तं शृणुयाद्योऽनसूयकः ॥७०॥यश्चैनं श्रावयेन्मर्त्यः पृथो र्वैन्यस्य संभवम् ॥ब्राह्मणेभ्यो नमस्कृत्वा न स शोचेत्कृताऽकृते ॥७१॥गोप्ता धर्मस्य राजाऽसौ बभौ चात्रिसमप्रभः ॥अत्रिवंशसमुत्पन्नो ह्यंगो नाम प्रजापतिः ॥७२॥तस्य पुत्रोऽभवेद्वेनो नात्यर्थं धार्मिकस्तथा ॥जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः॥७३॥समातामह दोषेण तेन कालात्मकाननः ॥स धर्मं पृष्ठतः कृत्वा पापबुद्धिरजायत ॥७४॥स्थितिमुत्थापयामास धर्मोपेतां सनातनीम् ॥वेदशास्त्राण्यतिक्रम्य ह्यधर्म निरतोऽभवत् ॥७५॥निःस्वाध्यायवषट्काराः प्रजास्तस्मिन्प्रशासति ॥डिंडिमं घोषयामास स राजा विषये स्वके ॥७६॥न दातव्यं न यष्टव्यं मयि राज्यं प्रशासति ॥आसीत्प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते ॥७७॥अहमीड्यश्च पूज्यश्च सर्वयज्ञैर्द्विजोत्तमैः ॥मयि यज्ञा विधातव्या मयि होतव्यमित्यपि ॥७८॥तमतिक्रांतमर्यादं प्रजापीडनतत्परम् ॥ऊचुर्महर्षयः क्रुद्धा मरीचिप्रमुखास्तदा ॥७९॥माऽधर्मं वेन कार्षीस्त्वं नैष धर्मः सनातनः ॥अत्रेर्वंशे प्रसूतोऽसि प्रजापतिरसंशयम् ॥८०॥पालयिष्ये प्रजाश्चेति पूर्वं ते समयः कृतः ॥तांस्तथावादिनः सर्वान्ब्रह्मर्षीनब्रवीत्तदा ॥८१॥वेनः प्रहस्य दुर्बुद्धिरिदं वचनकोविदः ॥स्रष्टा धर्मस्य कश्चान्यः श्रोतव्यं कस्य वा मया ॥८२॥वीर्यश्रुततपःसत्यैर्मयान्यः कः समो भुवि ॥मदात्मानो न नूनं मां यूयं जानीथ तत्त्वतः ॥८३॥प्रभवं सर्वलोकानां धर्माणां च विशेषतः॥इत्थं देहेन पृथिवीं भावेन यजनेन च ॥८४॥सृजेयं च ग्रसेयं च नात्र कार्या विचारणा ॥यदा न शक्यते स्तंभान्मत्तश्चैव विमोहितः ॥८५॥अनुनेतुं नृपो वेनस्तत्र क्रुद्धा महर्षयः ॥आथर्वणेन मंत्रेण हत्वा तं ते महाबलम् ॥८६॥ततोऽस्य वामबाहुं ते ममंथुर्भृशकोपिताः ॥तस्माच्च मथ्यमानाद्वै जज्ञे पूर्वमिति श्रुतिः ॥८७॥ह्रस्वोऽतिमात्रः पुरुषः कृष्णश्चापि तदा प्रिये ॥स भीतः प्राञ्जलिश्चैव तस्थिवान्संमुखे प्रिये ॥८८॥तमात्तं विह्वलं दृष्ट्वा निषीदेत्यब्रुवन्किल ॥निषादो वंशकर्ता वै तेनाभूत्पृथुविक्रमः ॥८९॥धीवरानसृजच्चापि वेनपापसमुद्भवान् ॥ये चान्ये विन्ध्यनिलयास्तथा वै तुंबराः खसाः ॥९०॥अधर्मे रुचयश्चापि वर्द्धिता वेनपापजाः ॥पुनर्महर्षयस्तेथ पाणिं वेनस्य दक्षिणम् ॥९१॥अरणीमिव संरब्धा ममंथुर्जात मन्यवः ॥पृथुस्तस्मात्समुत्पन्नः कराज्ज्वलनसंनिभः ॥९२॥पृथोः करतलाच्चापि यस्माजातस्ततः पृथुः ॥दीप्यमानश्च वपुषा साक्षादग्निरिव ज्वलन् ॥९३॥धनुराजगवं गृह्य शरांश्चाशीविषोपमान् ॥खङ्गं च रक्षन्रक्षार्थं कवचं च महाप्रभम् ॥९४॥तस्मिञ्जातेऽथ भूतानि संप्रहृष्टानि सर्वशः ॥संबभूवुर्महादेवि वेनश्च त्रिदिवं गतः ॥९५॥ततो नद्यः समुद्राश्च रत्नान्यादाय सर्वशः ॥अभिषेकाय ते सर्वे राजानमुपतस्थिरे ॥९६॥पितामहश्च भगवानृषिभिश्च सहामरैः ॥स्थावराणि च भूतानि जंगमानि च सर्वशः ॥९७॥समागम्य तदा वैन्यमभ्यषिंचन्नराधि पम् ॥सोऽभिषिक्तो महातेजा देवैरंगिरसादिभिः ॥९८॥अधिराज्ये महाभागः पृथुर्वैन्यः प्रतापवान् ॥पित्रा न रंजिताश्चास्य प्रजा वैन्येन रंजिताः ॥९९॥ततो राजेति नामास्य अनुरागादजायत ॥आपः स्तस्तंभिरे चास्य समुद्रमभियास्यतः ॥१००॥पर्वताश्चापि शीर्यंते ध्वजसंगोऽपि नाऽभवत् ॥अकृष्टपच्या पृथिवी सिध्यंत्यन्नानि चिंतया ॥सर्वकामदुघा गावः पुटकेपुटके मधु ॥१०१॥तस्मिन्नेव तदा काले पुन र्जज्ञेऽथ मागधः ॥सामगेषु च गायत्सु स्रुग्भांडाद्वैश्वदेविकात् ॥१०२॥सामगेषु समुत्पन्नस्तस्मान्मगध उच्यते ॥ऐंद्रेण हविषा चापि हविः पृक्तं बृहस्पतिः ॥१०३॥यदा जुहाव चेंद्राय ततस्ततो व्यजायत ॥प्रमादस्तत्र संजज्ञे प्रायश्चित्तं च कर्मसु ॥१०४॥शेषहव्येन यत्पृक्तमभिभूतं गुरोर्हविः ॥अधरोत्तरस्वारेण जज्ञे तद्वर्णवैकृतम् ॥१०५॥यज्ञस्तस्यां समभवद्ब्राह्मण्यां क्षत्रयोनितः ॥ततः पूर्वेण साधर्म्यात्तुल्यधर्माः प्रकीर्त्तिताः ॥१०६॥मध्यमो ह्येष तत्त्वस्य धर्मः क्षत्रोपजीवनम् ॥रथनागाश्वचरितं जघन्यं च चिकित्सितम् ॥१०७॥पृथोः कथार्थं तौ तत्र समा हूतौ महर्षिभिः ॥तावूचुर्मुनयः सर्वे स्तूयतामिति पार्थिवः ॥१०८॥कर्मभिश्चानुरूपो हि यतोयं पृथिवीपतिः ॥तानूचतुस्तदा सर्वानृषींश्च सूतमागधौ ॥१०९॥आवां देवानृषींश्चैव प्रीणयाव स्वकर्मभिः ॥न चास्य विद्वो वै कर्म न तथा लक्षणं यश ॥११०॥स्तोत्रं येनास्य संकुर्वो राज्ञस्तेजस्विनो द्विजाः ॥ऋषिभिस्तौ नियुक्तौ तु भविष्यैः स्तूयतामिति ॥१११॥यानि कर्माणि कृतवान्पृथुः पश्चान्महाबलः ॥तानि गीतानि बद्धानि स्तुवद्भिः सूतमागधैः ॥११२॥ततः श्रुतार्थः सुप्रीतः पृथुः प्रादात्प्रजेश्वरः ॥अनूपदेशं सूताय मागधान्मागधाय च ॥१ १३॥तदादि पृथिवीपालाः स्तूयन्ते सूतमागधैः ॥आशीर्वादैः प्रशंस्यंते सूतमागधबंदिभिः ॥११४॥तं दृष्ट्वा परमं प्रीताः प्रजा ऊचुर्महर्षयः ॥एष वो वृत्तिदो वैन्यो विहितोऽथ नराधिपः ॥११५॥ततो वैन्यं महाभागं प्रजाः समभिदुद्रुवुः ॥त्वं नो वृत्तिविधातेति महर्षिवचनात्तथा ॥ ॥११६॥सोऽभीहितः प्रजाभिस्तु प्रजाहितचिकीर्षया ॥धनुर्गृहीत्वा बाणांश्च वसुधामार्दयद्बली ॥११७॥ततो वैन्यभयत्रस्ता गौर्भूत्वा प्राद्रवन्मही ॥तां धेनुं पृथुरादाय द्रवन्तीमन्वधावत ॥११८॥सा लोकान्ब्रह्मलोकादीन्गत्वा वैन्यभयात्तदा ॥ददर्श चाग्रतो वैन्यं कार्मुकोद्यतपाणिनम् ॥११९॥ज्वलद्भिर्विशिखैस्तीक्ष्णैर्दीप्ततेजःसमन्वितैः ॥महायोगं महात्मानं दुर्द्धर्षममरैरपि ॥१२०॥अलभंती तु सा त्राणं वैन्यमेवाभ्यपद्यत ॥कृतांजलिपुटा देवी पूज्या लोकैस्त्रिभिस्सदा ॥१२१॥उवाच चैनं नाधर्म्यं स्त्रीवधं परिपश्यसि ॥कथं धारयिता चासि प्रजा राजन्मया विना ॥१२२॥मयि लोकाः स्थिता राजन्मयेदं धार्यते जगत् ॥मदृते तु विनश्येयुः प्रजाः पार्थिव विद्धि तत् ॥१२३॥स मां नार्हसि हंतुं वै श्रेयश्चेत्त्वं चिकीर्षसि ॥प्रजानां पृथिवीपाल शृणुष्वेदं वचो मम ॥१२४॥उपायतः समारब्धाः सर्वे सिध्यंत्युपक्रमाः ॥हत्वा मां त्वं न शक्तो वै प्रजाः पालयितुं नृप ॥१२५॥अनुकूला भविष्यामि त्यज कोपं महाद्युते ॥अवध्याश्च स्त्रियः प्राहुस्तिर्यग्योनिगता अपि ॥१२६॥एकस्मिन्निधनं प्राप्ते पापिष्ठे क्रूरकर्मणि ॥बहूनां भवति क्षेमस्तत्र पुण्यप्रदो वधः ॥सत्येवं पृथिवीपाल धर्म्मं मा त्यक्तुमर्हसि ॥१२७॥एवंविधं तु तद्वाक्यं श्रुत्वा राजा महाबलः ॥क्रोधं निगृह्य धर्मात्मा वसुधामिदमब्रवीत् ॥१२८॥एकस्यार्थे च यो हन्यादात्मनो वा परस्य वा ॥एकं वापि बहून्वापि कामतश्चास्ति पातकम् ॥१२९॥यस्मिंस्तु निधनं प्राप्ता एधन्ते बहवः सुखम् ॥तस्मिन्हते च भूयो हि पातकं नास्ति तस्य वै ॥१३०॥सोऽहं प्रजानिमित्तं त्वां हनिष्यामि वसुन्धरे ॥यदि मे वचनं नाद्य करिष्यसि जगद्धितम् ॥१३१॥त्वां निहत्याद्य बाणेन मच्छासनपराङ्मुखीम्॥आत्मानं पृथुकृत्वेह प्रजा धारयितास्म्यहम् ॥१३२॥सा त्वं वचनमास्थाय मम धर्मभृतांवरे॥सञ्जीवय प्रजा नित्यं शक्ता ह्यसि न संशयः ॥१३३॥दुहितृत्वं हि मे गच्छ एवमेतन्महच्छरम् ॥नियच्छे त्वद्वधार्थं च प्रयुक्तं घोरदर्शनम् ॥प्रत्युवाच ततो वैन्यमेवमुक्ता महासती ॥१३४॥सर्वमेतदहं राजन्विधास्यामि न संशयः ॥वत्सं तु मम संयुक्ष्व क्षरेयं येन वत्सला ॥१३५॥समां च कुरु सर्वत्र मां त्वं सर्वभृतां वर ॥यथा विस्यन्दमानाहं क्षीरं सर्वत्र भावये ॥१३६॥ ॥ईश्वर उवाच॥तत उत्सारयामास शिलाजालानि सर्वशः॥धनुष्कोट्या ततो वैन्यस्तेन शैला विवर्द्धिताः ॥१३७॥मन्वतरेष्वतीतेषु चैवमासीद्वसुन्धरा ॥स्वभावेनाभवत्तस्याः समानि विषमाणि च ॥१३८॥न हि पूर्वनिसर्गे वै विषमं पृथिवीतलम्॥प्रविभागः पुराणां च ग्रामाणां चाथ विद्यते ॥१३९॥न सस्यानि न गोरक्षं न कृषिर्न वणिक्पथः ॥१४०॥चाक्षुषस्यांतरे पूर्वमासीदेतत्पुरा किल ॥वैवस्वतेऽन्तरे चास्मिन्सर्वस्यैतस्य संभवः ॥समत्वं यत्रयत्रासीद्भूमेः कस्मिंश्चिदेव हि ॥१४१॥तत्रतत्र प्रजास्ता वै निवसन्ति स्म सर्वदा ॥आहारः फलमूलं तु प्रजानामभवत्किल ॥१४२॥कृच्छ्रेणैव तदा तासामित्येवमनुशुश्रुम ॥वैन्यात्प्रभृतिलोकेऽस्मिन्सर्वस्यैतस्य संभवः ॥१४३॥संकल्पयित्वा वत्सं तु चाक्षुषं मनुमीश्वरम् ॥पृथुर्दुदोह सस्यानि स्वहस्ते पृथिवीं ततः ॥१४४॥सस्यानि तेन दुग्धा वै वेन्येनेयं वसुन्धरा ॥मनुं वै चाक्षुषं कृत्वा वत्सं पात्रे च भूमये ॥१४५॥तेनान्नेन तदा ता वै वर्त्तयन्ते सदा प्रजाः ॥ऋषिभिः श्रूयते चापि पुनर्दुग्धा वसुन्धरा ॥१४६॥वत्सः सोमस्ततस्तेषां दोग्धा चापि बृहस्पतिः ॥पात्रमासन्हि च्छन्दांसि गायत्र्यादीनि सर्वशः ॥१४७॥क्षीरमासीत्तदा तेषां तपो ब्रह्म च शाश्वतम्॥पुनस्ततो देवगणैः पुरंदरपुरोगमैः ॥१४८॥सौवर्णं पात्रमादाय दुग्धेयं श्रूयते मही ॥वत्सस्तु मघवा चासीद्दोग्धा च सविताऽभवत् ॥१४९॥क्षीरमूर्जामधु प्रोक्तं वर्तंते तेन देवताः ॥पितृभिः श्रूयते चापि पुनर्दुग्धा वसुन्धरा ॥ ॥१५०॥राजतं पात्रमादाय स्वधा त्वक्षय्यतृप्तये ॥वैवस्वतो यमस्त्वासीत्तेषां वत्सः प्रतापवान् ॥१५१॥अंतकश्चाभवद्दोग्धा पितृणां भगवा न्प्रभुः ॥असुरैः श्रूयते चापि पुनर्दुग्धा वसुन्धरा ॥१५२॥आयसं पात्रमादाय बलमाधाय सर्वशः ॥विरोचनस्तु प्राह्लादिस्तेषां वत्सः प्रतापवान् ॥१५३॥ऋत्विग्द्विमूर्द्धा दैत्यानां दोग्धा तु दितिनन्दनः ॥मायाक्षीरं दुदोहासौ दैत्यानां तृप्तिकारकम् ॥१५४॥तेनैते माययाऽद्यापि सर्वे मायाविदोऽसुराः ॥वर्त्तयंति महावीर्यास्तदेतेषां परं बलम् ॥१५५॥नागैश्च श्रूयते दुग्धा वत्सं कृत्वा तु तक्षकम् ॥अलाबुपात्रमादाय विषं क्षीरं तदा महत् ॥१५६॥तेषां वै वासुकिर्दोग्धा काद्रवेयो महायशाः ॥नागानां वै महादेवि सर्पाणां चैव सर्वशः ॥१५७॥तेन वै वर्त्तयन्त्युग्रा महाकाया विषोल्बणाः ॥तदाहारास्तदाचारास्तद्वीर्यास्तदपाश्रयाः ॥१५८॥आमपात्रे पुनर्दुग्धा त्वंतर्द्धानमियं मही ॥वत्सं वैश्रवणं कृत्वा यक्षपुण्यजनैस्तथा ॥१५९॥दोग्धा रजतनागस्तु चिन्तामणिचरस्तु यः ॥यक्षाधिपो महातेजा वशी ज्ञानी महातपाः ॥१६०॥तेन ते वर्त्तयं तीति यक्षा वसुभिरूर्जितैः ॥राक्षसैश्च पिशाचैश्च पुनर्दुग्धा वसुन्धरा ॥१६१॥ब्रह्मोपेन्द्रस्तु दोग्धा वै तेषामासीत्कुबेरतः ॥वत्सः सुमाली बलवान्क्षीरं रुधिरमेव च ॥१६२॥कपालपात्रे निर्दुग्धा त्वंतर्द्धानं तु राक्षसैः ॥तेन क्षीरेण रक्षांसि वर्त्तयन्तीह सर्वशः ॥१६३॥पद्मपत्रेषु वै दुग्धा गंधर्वाप्सरसां गणैः ॥वत्सं चैत्ररथं कृत्वा शुचिगन्धान्मही तदा ॥१६४॥तेषां वत्सो रुचिस्त्वासीद्दोग्धा पुत्रो मुनेः शुभः ॥शैलैस्तु श्रूयते देवि पुनर्दुग्धा वसुंधरा ॥१६५॥तदौषधीर्मूर्तिमती रत्नानि विविधानि च ॥वत्सस्तु हिमवांस्तेषां दोग्धा मेरुर्महागिरिः ॥१६६॥पात्रं शिलामयं ह्यासीत्तेन शैलाः प्रतिष्ठिताः ॥श्रूयते वृक्षवीरुद्भिः पुनर्दुग्धा वसुन्धरा ॥१६७॥पालाशं पात्रमादाय च्छिन्नदग्धप्ररोहणम् ॥दोग्धा तु पुष्पितः शालः प्लक्षो वत्सो यशस्विनि ॥सर्वकामदुघा दोग्धा पृथिवी भूतभाविनी ॥१६८॥सैषा धात्री विधात्री च धरणी च वसुन्धरा ॥दुग्धा हितार्थं लोकानां पृथुना इति नः श्रुतम् ॥१६९॥चराचरस्य लोकस्य प्रतिष्ठा योनिरेव च ॥आसीदियं समुद्रांता मेदिनीति परिश्रुता ॥१७०॥मधुकैटभयोः पूर्वं मेदोमांसपरिप्लुता ॥वसुन्धारयते यस्माद्वसुधा तेन कीर्तिता ॥१७१॥ततोऽभ्युपगमाद्राज्ञः पृथोर्वैन्यस्य धीमतः ॥दुहितृत्वमनुप्राप्ता पृथिवीत्युच्यते ततः ॥१७२॥प्रथिता प्रविभक्ता च शोभिता च वसुन्धरा ॥दुग्धा हि यत्नतो राज्ञा पत्तनाकरमालिनी ॥१७३॥एवं प्रभावो राजासीद्वैन्यः स नृपसत्तमः ॥ततः स रंजयामास धर्मेण पृथिवीं तदा ॥१७४॥ततो राजेति शब्दोऽथ पृथिव्यां रंजनादभूत् ॥स राज्यं प्राप्य वैन्यस्तु चिंतयामास पार्थिवः ॥१७५॥पिता मम ह्यधर्मिष्ठो यज्ञाद्युच्छित्तिकारकः॥कस्मिन्स्थाने गतश्चासौ ज्ञेयं स्थानं कथं मया ॥१७६॥कथं तस्य क्रिया कार्या हतस्य ब्राह्मणैः किल ॥कथं गतिर्भवेत्तस्य यज्ञदानक्रियाबलात् ॥१७७॥इत्येव चिंतया तस्य नारदोभ्याजगाम ह ॥तस्यैवमासनं दत्त्वा प्रणिपत्य च पृष्टवान् ॥१७८॥भगवन्सर्वलोकस्य जानासि त्वं शुभाशुभम् ॥पिता मम दुराचारो देवब्राह्मणनिंदकः ॥१७९॥स्वकर्मणा हतो विप्रैः परलोकमवाप्तवान् ॥कस्मिंस्थाने गतस्तातः श्वभ्रं वा स्वर्गमेव च ॥१८०॥ततोऽब्रवीन्नारदस्तु ज्ञात्वा दिव्येन चक्षुषा ॥शृणु राजन्महाबाहो यत्र तिष्ठति ते पिता ॥१८१॥अत्र देशो मरुर्नाम जलवृक्षविवर्जितः ॥तत्र देशे महारौद्रे जनकस्ते नरोत्तम ॥१८२॥म्लेच्छमध्ये समुत्पन्नो यक्ष्मी कुष्ठसमन्वितः ॥उच्छिष्टभोजी म्लेच्छानां कृमिभिः संयुतो व्रणैः ॥ ॥१८३॥तच्छ्रुत्वा वचनं तस्य नारदस्य महात्मनः ॥हाहाकारं ततः कृत्वा मूर्छितो निपपात ह ॥१८४॥चिंतयामास दुःखार्तः कथं कार्यं मया भवेत् ॥इत्येवं चिंतयानस्य मतिर्जाता महात्मनः ॥पुत्रः स कथ्यते लोके पितरं त्रायते तु यः ॥१८५॥स कथं तु मया तातः पापान्मुक्तो भविष्यति ॥एवं संचिंत्य स ततो नारदं पर्यपृच्छत ॥१८६॥भगवन्कथितं सर्वं पितुर्मम विचेष्टितम् ॥केन तस्य भवेन्मुक्तिः कर्मणा द्विजसत्तम ॥व्रतैर्दानैस्तपोभिर्वा तीर्थानां यात्रया वद ॥१७७॥ ॥नारद उवाच॥गच्छ राजन्प्रधानानि तीर्थानि मनुजेश्वर ॥पितरं तेषु चानीय तस्माद्राजन्मरुस्थलात् ॥१८८॥यत्र देवाः सप्रभावास्तीर्थानि विमलानि च ॥तत्र गच्छ महाराज तीर्थयात्रां कुरु प्रभो ॥१८९॥एवं ह्यवितथं विद्धि मोक्षस्ते भविता पितुः ॥तच्छ्रुत्वा वचनं राजा नारदस्य महात्मनः ॥सचिवे भारमाधाय स्वराजस्य जगाम ह ॥१९०॥स गत्वा मरुभूमिं तु म्लेच्छमध्ये ददर्श ह ॥कुष्ठरोगेण महता क्षयेण च समावृतम् ॥१९१॥गव्यूतिमात्रं तत्रैव शून्यं मानुषवर्जितम् ॥एवं दृष्ट्वा स राजा तु संतप्तो वाक्यमब्रवीत् ॥१९२॥हे म्लेच्छ रोगिपुरुषं स्वगृहं च नयाम्यहम् ॥तत्राहमेनं निरुजं करोमि यदि मन्यथ ॥१९३॥ज्ञात्वेति सर्वे ते म्लेच्छाः पुरुषं तं दयापरम् ॥ऊचुः प्रणतसर्वांगाः शीघ्र नय जगत्पते ॥अस्मद्भाग्यवशान्नाथ त्वमेवात्र समागतः ॥१९४॥दुर्गंधोपहता लोकास्त्वया नाथ सुखीकृताः ॥तत आनाय्य पुरुषाञ्छिबिकावाहनोचितान् ॥१९५॥ततः श्रुत्वा तु वचनं तस्य राज्ञो दयावहम् ॥प्रापुस्तीर्थान्यनेकानि केदारादीनि कोटिशः ॥१९६॥यत्रयत्र स गच्छेत वैन्यो वेनेन संयुतः ॥तत्र तत्रैव तीर्थानामाक्रंदः श्रूयते महान् ॥१९७॥हा दैव रिपुरायाति अस्माकं नाशहेतवे ॥अधुना क्व गमिष्याम इति चिंता पुनःपुनः ॥१९८॥दर्शनेनापि तस्यैव हाहाकारं विधाय वै ॥।पलायंते च तीर्थानि देवा नश्यंति तत्क्षणात् ॥१९९॥एवं वर्षत्रयं राजा तीर्थयात्रां चकार वै ॥न तस्य मुक्तिर्ददृशे ततः शोकमगात्परम् ॥२००॥ततस्तु प्रेरिता भृत्याः कुरुक्षेत्रे महाप्रभे ॥यदि वापि पुनस्तत्र पापमुक्तिर्भवेत्ततः ॥२०१॥गृहीत्वा शिबिकां स्कन्धे कुरुक्षेत्रे गताः प्रिये ॥तत्र नीत्वा स्थाणुतीर्थमवतार्य च ते गताः ॥२०२॥ततः स राजा मध्याह्ने चिकीर्षुः स्नानमादरात् ॥तस्यैव तु पितुस्तत्र तथा दानानि षोडश ॥२०३॥ब्राह्मणेभ्यस्तथा दित्सुः श्रद्धावान्भावतत्परः ॥ततो वायुश्चांतरिक्ष इदं वचनमब्रवीत् ॥२०४॥मा तात साहसं कुर्यास्तीर्थं रक्ष प्रयत्नतः ॥अयं पापेन घोरेण समंतात्परिवेष्टितः ॥२०५॥वेदनिन्दासमाचारो ब्रह्महत्याशतैर्युतः ॥सोऽयं पापो दुराचारस्तीर्थं नाशं नयिष्यति ॥२०६॥मा तीर्थं नाशय विभो महदेनो भविष्यति ॥एतद्वायोर्वचः श्रुत्वा दुःखेन महतार्दितः ॥उवाच शोकसंतप्तः पितुर्दुःखेन दुःखितः ॥२०७॥हा दैवेति च चुक्रोश ऊर्द्ध्वबाहुः पुनःपुनः ॥एष घोरेण पापेन अतीव परिवेष्टितः ॥२०८॥यदनेनापि तीर्थेन शुद्धः कर्त्तुं न शक्यते ॥प्रायश्चित्तं करिष्येऽहं पितुरर्थे न संशयः ॥२०९॥एवं तस्य वचः श्रुत्वा दयां कृत्वा महीयसीम् ॥अन्तरिक्षभवां वाचं खेचराः पुनरब्रुवन् ॥२१०॥भोभो राजन्नृपश्रेष्ठ त्यक्त्वा शोकं वचः शृणु ॥येन ते जनकस्यास्य भवेत्पापक्षयो महान् ॥२११॥अस्ति क्षेत्रं महासिद्धं प्रभासमिति विश्रुतम् ॥सर्वपापप्रशमनं महापातकनाशनम् ॥२१२॥ब्रह्मतत्त्वं हरितत्त्वं रुद्रतत्त्वं तृतीयकम् ॥तस्मिन्नेव महाक्षेत्रे प्रभासे शंकरप्रिये ॥२१३॥शाक्तेयं यदि वा चांद्रं सौरं सारस्वतं तथा ॥आग्नेयं वारुणं चापि स्मृतं क्षेत्रमनुत्तमम् ॥२१४॥ब्रह्माण्डे यानि तीर्थानि पुरा क्षेत्राणि यानि तु ॥प्रभासमागमिष्यन्ति संप्राप्ते तु कलौ युगे ॥२१५॥अष्टौ कोटिसहस्राणि अष्टौ कोटिशतानि च ॥क्षेत्रं रक्षंति तत्रस्थाः प्रभासं शांकरा गणाः ॥२१६॥इयं सरस्वती पुण्या सर्वत्रैव हि विद्यते ॥पञ्चस्रोताः प्रभासे तु दुष्प्राप्या त्रिदशैरपि ॥२१७॥तस्या यत्पञ्चमं स्रोतन्यंकुमत्यास्तटानि च ॥तस्य मध्ये स्थितं तीर्थं गोष्पदेति च विश्रुतम् ॥२१८॥तत्र प्रेतशिला मध्ये प्रेतानां मुक्तिदायिका ॥यत्र प्रेताः पुरा मुक्ता अष्टाविंशतिकोटयः ॥२१९॥पापिनां मुक्तिदं तीर्थमाद्या रुद्रगया स्मृता ॥तदस्मिन्गोष्पदंनाम कलौ ख्यातं धरातले ॥२२०॥यदा क्षीरोदमथनान्निःसृता लोकमातरः ॥तदा देवैः समेतास्तु आगतास्तीर्थसन्निधौ ॥२२१॥पदं तत्र निमग्नं च नन्दायाश्च शिलातले ॥शिलां खुरांकितां दृष्ट्वा जानुदेशांकितां तथा ॥२२२॥विस्मिताः सर्वदेवा वै पप्रच्छुर्गां च नन्दिनीम् ॥किमेतद्दृश्यते देवि पदं प्रेतशिलातले ॥कथं तु खेदः सञ्जातश्चास्माकं स्खलनं कथम् ॥२२३॥ ॥नन्दिन्युवाच॥इदं मम पदं देवाः शिलासंस्थं विराजते ॥गगनांगणभूमिस्थं चन्द्रबिंबमिवापरम् ॥२२४॥अद्यप्रभृति भो देवास्त्रैलोक्ये सचराचरे ॥गोष्पदंनाम विख्यातं लोके ख्यातिं गमिष्यति ॥२२५॥अत्रागत्य नरो यस्तु स्नानं श्राद्धं करिष्यति ॥गयासप्तगुणंतस्य फलं देवा भविष्यति ॥२२६॥न वारो न च नक्षत्रं न कालस्तत्र कारणम्॥यदैव दृश्यते तीर्थं तदा पर्वसहस्रकम् ॥२२७॥अथवा पर्वकांक्षा चेत्तानि मे शृणुपार्वति ॥अयने विषुवे युग्मे सामान्ये चार्कसंक्रमे ॥२२८॥अमावास्याष्टकायां च कृष्णपक्षे विशेषतः ॥आर्द्रामघारोहिणीषु द्रव्यब्राह्मणसंगमे ॥२२९॥गजच्छाया व्यतीपाते वैधृते धृतचामरे ॥वैशाखस्य तृतीयायां नवम्यां कार्तिकस्य तु ॥२३०॥पञ्चदश्यां च माघस्य नभस्ये च त्रयोदशीम् ॥युगादयः स्मृता ह्येतास्तस्मिन्काले च वा पुनः ॥२३१॥मन्वन्तरादौ कार्यं च तत्र श्राद्धं विजानता ॥आश्वयुक्छुक्लनवमी द्वादशी कार्तिके तथा ॥२३२॥तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥फाल्गुनस्य त्वमावास्या पौषस्यैकादशी तथा ॥२३३॥आषाढस्यापि दशमी माघमासस्य सप्तमी ॥श्रावणस्याष्टमी कृष्णा तथाऽऽषाढी च पूर्णिमा ॥२३४॥कार्तिकी फाल्गुनी चैव ज्यैष्ठी पञ्चदशी तथा ॥मन्वन्तरादयश्चैता दत्तस्या क्षयकारिकाः ॥२३५॥वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च ॥पञ्चमी चैत्रमासस्य तस्यैवांत्या तथा परा ॥२३६॥शुक्ला त्रयो दशी माघे कार्तिकस्य तु सप्तमी ॥नवमी मार्गशीर्षस्य सप्तैताः कल्पकादिमाः ॥२३७॥कल्पतृप्तिर्भवेच्छ्राद्धे कल्पादौ तु कृते पुरा ॥इत्येवमुक्त्वा सा नन्दा देवानां प्रतिनन्दिनी ॥अन्तर्द्धानं जगामाशु दीपो वातहतो यथा ॥२३८॥इतीदं कौतुकं दृष्ट्वा सर्वे देवाः सवासवाः ॥ब्रह्मर्षयो देवर्षयः श्लोकं पौराणिकं जगुः ॥२३९॥अहो तीर्थस्य माहात्म्यं नन्दायास्तपसो बलम् ॥सकृच्छ्राद्धेन दत्तेन गयासप्तगुणं फलम् ॥२४०॥एवमुक्त्वा ततोदेवाश्चक्रुः श्राद्धादिकां क्रियाम्॥यथोक्तं फलमापुस्ते नंदिन्या पूर्वभाषितम् ॥२४१॥इत्थं त्वमपि राजेन्द्र गच्छ शीघ्रं हि गोष्पदम्॥तत्र श्राद्धादिकं कृत्वा लप्स्यसे फलमीप्सितम् ॥२४२॥अयं ते जनको राजन्पापिनां प्रवरः स्मृतः ॥नान्यैस्तीर्थशतैः शक्यः प्रोद्धर्तुं गोष्पदं विना ॥२४३॥तस्माद्व्रज महाराज मा कार्षीस्त्वं विलंबनम् ॥एवं श्रुत्वा तदा राजा प्रभासं क्षेत्रमागतः ॥२४४॥तत्र स्थानस्थितान्विप्रांस्तीर्थमाहात्म्यकोविदान्॥अग्रेकृत्य महाराजो ययौ न्यंकुमतीं नदीम् ॥२४५॥तै राज्ञो दर्शितं तीर्थं पदं प्रेतशिलास्थितम् ॥तद्दृष्ट्वा विमलं तीर्थं विस्मयोत्फुल्ललोचनः ॥चक्रे कुण्डानि वेदीश्च मण्डपान्यज्ञसिद्धये ॥२४६॥ततो यज्ञः समारब्धो विधिवद्भूरिदक्षिणः ॥प्रत्यक्षं पितर स्तस्य बभूवुर्ज्वलनप्रभाः ॥२४७॥ततः श्रद्धां समास्थाय श्राद्धैर्यज्ञैर्महोदयम् ॥ते चाब्रुवन्वचस्तुष्टाः पितरो राजसत्तमम् ॥२४८॥धन्योऽसि राजन्पुण्योऽसि वयं धन्यतरास्त्वया ॥यदत्र तीर्थे श्राद्धेन उद्धृता भवता वयम् ॥२४९॥एवमुक्त्वा ततः सर्वे वेनेन पितरः सह ॥विमानवरसंस्थाश्च जग्मुस्ते त्रिदिवालयम् ॥२५०॥गच्छन्नुवाच वेनस्तं राजानं पृथुवक्षसम् ॥राजञ्जन्मानि चत्वारि अभूवं चान्यजन्मनि ॥२५१॥कुष्ठी पापो दुराचारश्चांडालोच्छिष्टभुक्तथा ॥सोऽहं पापविनिर्मुक्तो गच्छामि त्रिदिवालयम् ॥२५२॥तद्गच्छ त्वं महाभाग राज्यं भुंक्ष्व चिराय च ॥कृतं ते सकलं कार्यं पुत्रेण क्रियते च यत् ॥२५३॥एवं श्रुत्वा तदा राजा मुमुदे ज्ञातिसंयुतः ॥ब्राह्मणान्हर्षयामास दानैर्भूकांचनादिभिः ॥२५४॥न तदस्ति जगत्यस्मिंस्तत्र यन्न ददौ नृपः ॥दृष्ट्वा प्रभावं तीर्थस्य प्रत्यक्षं पितृदर्शनम् ॥२५५॥एवं राजा स कृत्वा तु स्वकीयं स्थान माययौ ॥भुक्त्वा भूमिं तु सकलां प्रेत्य स्वर्गं समाप्तवान् ॥२५६॥एवं प्रभावं तत्क्षेत्रं प्रभासं पापनाशनम् ॥यस्मिन्नायांति तीर्थानि देवास्तिष्ठंति कोटिशः ॥२५७॥प्रभासं क्षेत्रमासाद्य योन्यत्तीर्थं हि मार्गते ॥स करस्थं समुत्सृज्य कूर्परेण समालिहेत् ॥२५८॥अब्रुवन्पितरश्चैनां गाथां पौराणिकीं प्रिये ॥गयां गंतुं न शक्नोति यदि पुत्रः कथंचन ॥तदा यत्नेन गंतव्यं गोष्पदं तीर्थमुत्तमम् ॥२५९॥कन्दैर्मूलैः फलैर्वापि पिण्याकेंगुदकेन वा ॥अपि नः स कुले भूयाद्योऽत्र श्राद्धं प्रदास्यति ॥२६०॥तत्र स्नात्वा प्रयत्नेन ब्राह्मणान्वेदवित्तमान् ॥आमंत्र्य विधिवच्छ्राद्धे भोजयित्वा प्रयत्नतः ॥पिंडदानं तु कर्त्तव्यं पितृणां तृप्तिमिच्छताम् ॥२६१॥ न तिथिर्न च नक्षत्रं पर्व मासादिकं न हि ॥सर्वदा तत्र गंतव्यं श्रद्धा युक्तेन चेतसा ॥२६२॥न कालनियमस्तत्र प्रमाणं दर्शनं यतः ॥तत्राक्षयतृतीयायां दुर्ल्लभं गमनं प्रिये ॥२६३॥कार्त्तिक्यां माघसप्तम्यां पद्मके वाऽथ पर्वणि ॥२६४॥हिरण्यदानं गोदानं वस्त्रं रूप्यं घृतं तिलाः ॥दातव्यास्तत्र युक्तेन पितॄणां तृप्तिमिच्छता ॥२६५॥एवं ते कथितं देवि तीर्थगुह्यं महोदयम् ॥न कथ्यं दुष्टबुद्धीनां पापिनां क्रूरचेतसाम् ॥२६६॥श्रद्धायुक्ताय दातव्यं पितृभक्तिरताय च ॥श्राद्धकाले विशेषेण पठे द्भक्त्या पुराणवित् ॥२६७॥पितॄणां जायते तृप्तिस्तेन द्वादशवार्षिकी ॥श्रोतव्यं प्रयतैर्नित्यं नरैर्नरकभीरुभिः ॥पठितव्यं सदा भक्त्या विप्राणां भुंजता पुरः ॥२६८॥पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः ॥श्राद्धं कृतं तेन समासहस्रं रहस्यमेतत्पितरो वदंति ॥२६९॥इदं रहस्य यशसो निधानमिदं पितॄणामतिवल्लभं च ॥इदं च वेदेष्वमृताय नित्यमिदं महापापहरं च पुंसाम् ॥२७०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये न्यंकुमतीनदीमाहात्म्ये गोष्पदतीर्थमाहात्म्यवर्णनंनाम षट्त्रिंशदुत्तरत्रिशततमोऽध्यायः ॥३३६॥ N/A References : N/A Last Updated : January 13, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP