संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ७९

प्रभासक्षेत्र माहात्म्यम् - अध्याय ७९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि लकुलीशं महाप्रभम् ॥
तस्य पश्चिमदिग्भागे धनुषां सप्तके स्थितम् ॥१॥
पापघ्नं सर्वजंतूनां शांतं मूर्तिस्थितं प्रभुम् ॥
समायातं महाक्षेत्रे तत्र कायावरोहणात् ॥२॥
कृत्वा तत्र तपश्चोग्रं दीक्षयित्वात्मशिष्य कान् ॥
कुशकादींश्च चतुर उक्त्वा शास्त्राण्यनेकशः ॥३॥
न्यायवैशेषिकादीनि ततः सिद्धिं परां गतः॥
एवं ज्ञात्वा तु यः सम्यक्तं समर्चयते नरः ॥४॥
कार्त्तिक्यां तु विशेषेण अयने चोत्तरेपि वा ॥
विद्यादानं च तत्रैव दद्याद्विप्राय शालिने ॥५॥
सप्तजन्मानि विप्रस्य धनाढ्यस्य कुले शुभे ॥
जायते मतिमान्धीमाञ्छ्रीमानेवं पुनःपुनः ॥६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभास क्षेत्रमाहात्म्ये लकुलीश्वरमाहात्म्य वर्णनंनामैकोनाशीतितमोऽध्यायः ॥७९॥॥

N/A

References : N/A
Last Updated : January 08, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP