संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ३२७

प्रभासक्षेत्र माहात्म्यम् - अध्याय ३२७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो महोदयं गच्छेत्तस्मादीशानसंस्थितम् ॥१॥
विधिना तत्र यः स्नाति तर्पयेत्पितृदेवताः ॥
प्रतिग्रहकृताद्दोषान्न भयं तस्य विद्यते ॥२॥
महोदयं महानन्ददायकं च द्विजन्मनाम् ॥
प्रतिग्रहप्रसक्तानां विषयासक्तचेतसाम् ॥
तेषामपि ददेन्मुक्तिं तेन ख्यातं महोदयम् ॥३॥
तस्य वै रक्षणार्थाय महाकालस्य चोत्तरे ॥
नियुक्ताश्च महादेवि मातरस्तत्र संस्थिताः ॥
तस्मिन्स्नात्वा नरः पूर्वं मातॄस्ताश्च प्रपूजयेत् ॥४॥
एवं देवि मया ख्यातं महोदयमहोदयम् ॥
सर्वपापहरं नृणामभिषेकाच्च मुक्तिदम् ॥५॥
अर्धक्रोशे च तत्तीर्थं समंतात्परिमंडलम् ॥
एतन्मध्यं महासारं सदैव मुनिवल्लभम् ॥६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये महोदयमाहात्म्यवर्णनंनाम सप्त विंशत्युत्तरत्रिशततमोऽध्यायः ॥३२७॥

N/A

References : N/A
Last Updated : January 13, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP