संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ८४

प्रभासक्षेत्र माहात्म्यम् - अध्याय ८४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि आदिनारायणं हरिम् ॥
तस्याश्च पूर्वदिग्भागे सर्वपातकनाशनम् ॥१॥
पादुकासनसंयुक्तं सर्वदैत्यांतकारिणम् ॥
आदौ कृतयुगे देवि दैत्योऽभून्मेघवाहनः ॥२॥
महाबलो महाकायो योजनायुतविस्तरः ॥
अजेयः सर्वदेवानां त्रैलोक्यक्षयकारकः ॥
ब्रह्मणा तस्य तुष्टेन वरो दत्तो वरानने ॥३॥
यदा पादुकया विष्णुस्त्वां हनिष्यति संयुगे ॥
तदैव मृत्युर्भविता नान्यथा मरणं तव ॥४॥
इति लब्धवरो दैत्यः संतापयति भूतलम् ॥
युगानां कोटिमेकां तु सदेवासुरमानुषम् ॥५॥
संतप्य बहुधा देवि दक्षिणो दधिमागतः ॥
तत्र विध्वंसयामास ऋषीणामाश्रमाणि वै ॥६॥
ततस्त ऋषयः सर्वे विध्वस्ताश्रममण्डलाः ॥
शरणं चैव संप्राप्ता देवदेवं तु केशवम् ॥
अजेयं तं तु संज्ञात्वा तुष्टुवुर्गरुडध्वजम् ॥७॥
 ॥ऋषय ऊचुः ॥
नमः परमकल्याणकल्याणायात्मयोगिने ॥
जनार्द्दनाय देवाय श्रीधराय च वेधसे ॥८॥
नमः कमलकिंजल्कसुवर्णमुकुटाय च ॥
केशवायातिसूक्ष्माय बृहन्मूर्ते नमोनमः ॥९॥
महात्मने वरेण्याय नमः पंकजनाभये ॥
नमोऽस्तु मायाहरये हरये हरिवेधसे ॥१०॥
हिरण्यगर्भगर्भाय जगतः कारणात्मने ॥
अच्युताय नमो नित्यमनन्ताय नमोनमः ॥११॥
नमो मायापटच्छन्न जगद्धात्रे महात्मने ॥
संसारसागरोत्तार ज्ञानपोतप्रदायिने ॥
अकुंठमतये धात्रे सर्गस्थित्यंत कर्मणे ॥१२॥
यथा हि वासुदेवेति प्रोक्ते नश्यति पातकम् ॥
तथा विलयमभ्येतु दैत्योऽयं मेघवाहनः ॥१३॥
यथा विष्णुः स्वभक्तेषु पापमाप्नोति संस्थितम्॥
तथा विनाशमायातु दैत्योऽयं पापकर्मकृत् ॥१४॥
स्मृतमात्रो यथा विष्णुः सर्वं पापं व्यपोहति ॥
तथा प्रणाशमभ्येतु दैत्योऽयं मेघवाहनः ॥१५॥
भवंतु भद्राणि समस्तदोषाः प्रयांतु नाशं जगतोऽखिलस्य ॥
अभेद्यभक्त्या परमेश्वरेशे स्मृते जगद्धातरि वासुदेवे ॥१६॥
ये भूतले ये दिवि येऽन्तरिक्षे रसातले प्राणिगणाश्च केचित् ॥
भवन्तु ते सिद्धियुता नरोत्तमाः स्मृते जगद्धातरि वासुदेवे ॥१७॥
ये प्राणिनः कुत्रचिदत्र संति ब्रह्माण्डमध्ये परतश्च केचित् ॥
तेषां तु सिद्धिः परमास्त्वनिंद्या स्तुते जगद्धातरि वासुदेवे ॥१८॥
 ॥ईश्वर उवाच ॥]।
इति स्तुतस्तदा देवि आदिनारायणो हरिः ॥
ज्ञात्वा स भावि कार्यं तत्समारुह्य च पादुकाम् ॥१९॥
बभूव तेषां प्रत्यक्ष ऋषीणां पापनाशनः ॥
उवाच प्रणतान्सर्वान्किं वा कार्यं हृदि स्थितम् ॥२०॥
कथ्यतां तत्करिष्यामि युष्मत्स्तोत्रेण तर्पितः ॥२१॥
इत्युक्ता ऋषयः सर्वे कृतांजलिपुटाः स्थिताः ॥
आदिदेवं हरिं प्रोचुः सर्वे नतशिरोधराः ॥२२॥
 ॥ऋषय ऊचुः॥
जानासि सर्वं त्वं देव न चास्त्यविदितं तव ॥
इमं दैत्यं महादेव संहरस्व महाबलम्॥
यथेदं सकलं विश्वं निरातंकं भवेत्प्रभो ॥२३॥
इत्युक्तस्तैस्तदा विष्णुर्दैत्यमाहूय संयुगे ॥
ताडयामास तं दैत्यं हृदि पादुकया शुभे ॥२४॥
स हतः पतितो दैत्यो विगतासुर्महोदधौ॥
हत्वा दैत्यवरं देवस्तत्र स्थाने स्थितोऽभवत्॥
पादुकासनसंस्थस्तु तत्राद्यापि वरानने ॥२५॥
यस्तं पूजयते भक्त्या एकादश्यां नरोत्तमः ॥
सोश्ववमेधफलं प्राप्य मोदते दिवि देववत् ॥२६॥
गोलक्षं ब्राह्मणे दत्त्वा यत्फलं प्राप्नुयान्नरः ॥
तदादिदेवे गोविन्दे दृष्टे भक्त्या फलं लभेत् ॥२७॥
कलौ कृतयुगं तेषां क्लेशस्तेषां सुखाधिकः ॥
आदिनारायणो देवो येषां हृदयसंस्थितः ॥२८॥
एकादश्यां रविदिने स्नात्वा संनिहिता जले ॥
आदिनारायणं पूज्य मुच्यते भवबन्धनात् ॥२९॥
इति ते कथितं देवि माहात्म्यं विष्णुदैवतम् ॥
श्रुतं पापहरं नृणां दारिद्यौघविनाशनम् ॥३०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य आदिनारायणमाहात्म्यवर्णनंनाम चतुरशीतितमोध्यायः ॥८४॥

N/A

References : N/A
Last Updated : January 08, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP