संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय २५१

प्रभासक्षेत्र माहात्म्यम् - अध्याय २५१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि शंकरादित्यमुत्तमम् ॥
गंगेश्वरस्य पूर्वेण शंकरेण प्रतिष्ठितम् ॥१॥
षष्ठ्यां चैव तु शुक्लायामेनं यः पूजयिष्यति ॥
गमिष्यति परं स्थानं यत्र देवो दिवाकरः ॥२॥
रक्तचंदनमिश्रैश्च रक्तपुष्पैः समाहितः ॥
ताम्रपात्रे समाधाय योऽर्घ्यं दास्यति मानवः ॥
स यास्यति परां सिद्धिं न च याति दरिद्रताम् ॥३॥
तस्मात्सर्वप्रयत्नेन तस्मिन्क्षेत्रे वरानने ॥
पूजयेच्छंकरादित्यं सर्वकामफलप्रदम् ॥४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शंकरादित्यमाहात्म्यवर्णनंनामैकपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥२५१॥

N/A

References : N/A
Last Updated : January 13, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP