प्रभासक्षेत्र माहात्म्यम् - अध्याय ४९
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ईश्वर उवाच॥
तस्माच्छुक्रेश्वराद्गच्छेद्देवि लिंगं महाप्रभम्॥
शनैश्चरैश्वरंनाम महापातकनाशनम् ॥१॥
बुधेश्वरात्पश्चिमतो ह्यजादेव्यग्निगोचरे ॥
तस्या धनुः पंचकेन नातिदूरे व्यवस्थितम् ॥२॥
कल्पलिंगं महादेवि पूजितं देवदानवैः ॥
छायापुत्रेण संतप्तं तपः परमदुष्करम् ॥३॥
अनादि निधनो देवो येन लिंगेऽवतारितः ॥
प्राप्तवान्यो ग्रहेशत्वं भक्त्या शंभोः प्रसादतः ॥४॥
यस्य दृष्ट्या बिभेति स्म देवासुरगणो महान् ॥
न स कोऽप्यस्ति वै प्राणी ब्रह्मांडे सचराचरे ॥५॥
देवो वा दानवो वापि सौरिणा पीडितो न यः ॥
शनिवारेण संपूज्य भक्त्या सौरीश्वरं शिवम् ॥६॥
शमीपत्रैर्महादेवि तिलमाषगुडौदनैः ॥
संतर्प्य तु विधानेन दद्यात्कृष्णं वृषं द्विजे ॥७॥
स्तुत्वा स्तोत्रैश्च विविधैः पुराणश्रुतिसंभवैः ॥
अथ वैकेन देवेशः स्तोत्रेण परितोषितः ॥८॥
राज्ञा दशरथेनैव कृतेन तु बलीयसा ॥
स्तुत्यः सौरीश्वरो देवः सर्वपीडोपशांतये ॥९॥
॥देव्यु वाच॥
कथं दशरथो राजा चक्रे शानैश्चरीं स्तुतिम् ॥
कथं संतुष्टिमगमत्तस्य देवः शनैश्चरः ॥१०॥
॥ईश्वर उवाच॥
रघुवंशेऽति विख्यातो राजा दशरथो बली ॥
चक्रवर्ती स विज्ञेयः सप्तद्वीपाधिपः पुरा ॥११॥
कृत्तिकांते शनिं कृत्वा दैवज्ञैर्ज्ञापितो हि सः ॥
रोहिणीं भेद यित्वा तु शनिर्यास्यति सांप्रतम् ॥१२॥
उक्तं शकटभेदं तु सुरासुरभयंकरम् ॥
द्वादशाब्दं तु दुर्भिक्षं भविष्यति सुदारुणम् ॥१३॥
एतच्छ्रुत्वा मुनेर्वाक्यं मंत्रिभिः सहितो नृपः ॥
आकुलं तु जगद्दृष्ट्वा पौरजानपदादिकम् ॥१४॥
वदंति सततं लोका नियमेन समागताः ॥
देशाश्च नगर ग्रामा भयाक्रांताः समंततः ॥
मुनीन्वसिष्ठप्रमुखान्पप्रच्छ च स्वयं नृपः ॥१५॥
॥दशरथ उवाच॥
समाधानं किमत्रास्ते ब्रूहि मे द्विज सत्तम ॥१६॥
॥वसिष्ठ उवाच॥
प्राजापत्ये च नक्षत्रे तस्मिन्भिन्ने कुतः प्रजाः ॥
अयं योगो ह्यसाध्यस्तु ब्रह्मादींद्रादिभिः सुरैः ॥१७॥
तदा संचिंत्य मनसा साहसं परमं महत् ॥
समादाय धनुर्दिव्यं दिव्यैरस्त्रैः समन्वितम् ॥१८॥
रथमारुह्य वेगेन गतो नक्षत्रमंडलम् ॥।
रथं तु कांचनं दिव्यं मणिरत्नविभूषितम् ॥१९॥
ध्वजैश्च चामरैश्छत्रैः किंकिणैरथ शोभितम्॥
हंसवर्णहयैर्युक्तं महाकेतुसमन्वितम् ॥२०॥
दीप्यमानो महारत्नैः किरीटमुकुटोज्ज्वलः ॥
बभ्राज स तदाकाशे द्वितीय इव भास्करः ॥२१॥
आकर्णं चापमापूर्य संहारास्त्रं नियोज्य च ॥
कृत्तिकांते शनिं ज्ञात्वा प्रविश्य किल रोहिणीम् ॥२२॥
दृष्ट्वा दशरथोऽस्याग्रे तस्थौ सभ्रुकुटीमुखः ॥
संहारास्त्रं शनिर्दृष्ट्वा सुरासुरविमर्द्दनम् ॥२३॥
हसित्वा तद्रयात्सौरिरिदं वचनमब्रवीत् ॥
पौरुषं तव राजेंद्र परं रिपुभयंकरम् ॥२४॥
देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः ॥
मया विलोकिताः सर्वे भयं चाशु व्रजंति ते ॥२५॥
तुष्टोहं तव राजेंद्र तपसा पौरुषेण च ॥
वरं ब्रूहि प्रदास्यामि मनसा यदभीप्सितम् ॥२६॥॥
॥दशरथ उवाच॥
रोहिणीं भेदयित्वा तु न गंतव्यं त्वया शने ॥
सरितः सागरा यावद्यावच्चद्रार्कमेदिनी ॥२७॥
याचितं ते मया सौरे नान्य मिच्छामि ते वरम् ॥
एवमुक्तः शनिः प्रादाद्वरं तस्मै तु शाश्वतम् ॥२८॥
प्राप्यैवं तु वरं राजा कृतकृत्योऽभवत्तदा ॥
पुनरेवाब्रवीत्सौरिर्वरं वरय सुव्रत ॥२९॥
प्रार्थयामास हृष्टात्मा वरमेवं शनेस्तदा ॥
न भेत्तव्यं च शकटं त्वया भास्करनंदन ॥३०॥
द्वादशाब्दं तु दुर्भिक्षं न कर्तव्यं कदाचन ॥
कीर्तिरेषा मदीया च त्रैलोक्ये विचरिष्यति ॥३१॥
॥ईश्वर उवाच॥
वरद्वयं ततः प्राप्य हृष्टरोमा स पार्थिवः ॥
रथोपरि धनुर्मुक्त्वा भूत्वा चैव कृतांजलिः ॥३२॥
ध्यात्वा सरस्वतीं देवीं गणनाथं विनायकम् ॥
राजा दशरथः स्तोत्रं सौरेरिदमथाकरोत् ॥३३॥॥
॥राजोवाच॥
नमो नीलमयूखाय नीलोत्पलनिभाय च ॥
नमो निर्मांसदेहाय दीर्घश्मश्रुजटाय च ॥३४॥
नमो विशालनेत्राय शुष्कोदरभयान क ॥
नमः परुषगात्राय स्थूलरोमाय वै नमः ॥३५॥
नमो नित्यं क्षुधार्त्ताय नित्यतप्ताय वै नमः ॥
नमः कालाग्निरूपाय कृतांतक नमोस्तु ते ॥३६॥
नमो दीर्घाय शुष्काय कालदृष्टे नमोऽस्तु ते ॥
नमस्ते कोटराक्षाय दुर्निरीक्ष्याय वै नमः ॥३७॥
नमो घोराय रौद्राय भीषणाय करा लिने ॥
नमस्ते सर्वभक्षाय वलीमुख नमोऽस्तु ते ॥३८॥
सूर्यपुत्र नमस्तेऽस्तु भास्करे भयदायक ॥
अधोदृष्टे नमस्तुभ्यं वपुःश्याम नमोऽस्तु ते ॥३९॥
नमो मन्दगते तुभ्यं निस्त्रिंशाय नमोनमः ॥
नमस्त उग्ररूपाय चण्डतेजाय ते नमः ॥४०॥
तपसा दग्धदेहाय नित्यं योगरताय च ॥
नमस्ते ज्ञाननेत्राय कश्यपात्मजसूनवे ॥४१॥
तुष्टो ददासि वै राज्यं रुष्टो हरसि तत्क्षणात् ॥
देवासुरमनुष्याश्च पशुपक्षिसरीसृपाः ॥४२॥
त्वया विलोकिताः सौरे दैन्यमाशु व्रजंति च ॥
ब्रह्मा शक्रो यमश्चैव ऋषयः सप्ततारकाः ॥४३॥
राज्यभ्रष्टाश्च ते सर्वे तव दृष्ट्या विलोकिताः ॥
देशाश्च नगरग्रामा द्वीपाश्चैवाद्रयस्तथा ॥४४॥
रौद्रदृष्ट्या तु ये दृष्टाः क्षयं गच्छंति तत्क्षणात् ॥४५॥
प्रसादं कुरु मे सौरे वरार्थेऽहं तवाश्रितः
सौरे क्षमस्वापराधं सर्वभूतहिताय च ॥४६॥
॥ईश्वर उवाच॥
एवं स्तुतस्तदा सौरी राज्ञा दशरथेन च ॥
महराजः शनिर्वाक्यं हृष्टरो माऽब्रवीदिदम् ॥४७॥
॥शनिरुवाच॥
तुष्टोऽहं तव राजेन्द्र स्तवेनानेन सुव्रत ॥
वरं ब्रूहि प्रदास्यामि स्वेच्छया रघुनंदन ॥४८॥॥
॥दशरथ उवाच॥
अद्यप्रभृति पिंगाक्ष पीडा कार्या न कस्यचित् ॥
देवासुरमनुष्याणां पशुपक्षिसरीसृपाम् ॥४९॥
॥शनिरुवाच॥
ग्रहाणां दुर्ग्रहो ज्ञेयो ग्रहपीडां करोम्यहम् ॥
अदेयं प्रार्थितं राजन्किंचिद्युक्तं ददाम्यहम् ॥५०॥
त्वया प्रोक्तं मम स्तोत्रं ये पठि ष्यंति मानवाः ॥
पुरुषाश्च स्त्रियो वापि मद्भयेनोपपीडिताः ॥५१॥
देवासुरमनुष्यास्तु सिद्धविद्याधरोरगाः ॥
मृत्युस्थाने स्थितो वापि जन्मप्रांतगतस्तथा ॥५२॥
एककालं द्विकालं वा तेषां श्रेयो ददाम्यहम् ॥
पूजयित्वा जपेत्स्तोत्रं भूत्वा चैव कृतांजलिः ॥५३॥
तस्य पीडां न चैवाहमिह कुर्यां कदाचन ॥
जन्मस्थाने स्थितो वापि मृत्युस्थाने स्थितोऽपि च ॥५४॥
जन्मऋक्षे च लग्ने च दशास्वंतर्दशासु च ॥
रक्षामि सततं तस्य पीडां चान्यग्रहस्य च ॥५५॥
अनेनैव प्रकारेण र्पाडामुक्तस्त्वसौ भवेत् ॥
एतत्प्रोक्तं मया दत्तं वरं च रघुनंदन ॥५६॥
॥ईश्वर उवाच॥
वरद्वयं च संप्राप्य राजा दशरथः पुरा ॥
मेने कृतार्थमात्मानं नमस्कृत्य शनैश्चरम् ॥५७॥
शनिं स्तुत्वाऽभ्यनुज्ञातो रथमारुह्य वीर्यवान् ॥
स्वस्थानं गतवान्राजा पूज्यमानो दिवौकसैः ॥५८॥
य इदं प्रातरुत्थाय सौरिवारे पठेन्नरः ॥
सर्वग्रहोद्भवा पीडा न भवेद्भुवि तस्य तु ॥५९॥
शनैश्चरं स्मरेद्देवं नित्यं भक्तिसमन्वितः ॥
पूजयित्वा पठेत्स्तोत्रं तस्य तुष्यति भास्करिः ॥६०॥
इति ते कथितं देवि माहात्म्यं शनिदैवतम् ॥
सर्वपापोपशमनं सर्वकामफलप्रदम् ॥६१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमं प्रभासक्षेत्रमाहात्म्ये शनैश्चरेश्वरमाहात्म्यवर्णनंनामैकोनपञ्चाशोऽध्यायः ॥४९॥छ ॥
N/A
References : N/A
Last Updated : January 07, 2025

TOP