संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ९४

प्रभासक्षेत्र माहात्म्यम् - अध्याय ९४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि भैरवेश्वरमुत्तमम् ॥
तस्यैव वह्निकोणस्थं धनुषांदशके स्थितम् ॥१॥
सर्वकामप्रदं देवि दारिद्र्यौघविनाशनम् ॥
पूर्वं चण्डेश्वरंनाम ख्यातं कृतयुगे प्रिये ॥२॥
चण्डोनाम गणो देवि तेन चाराधितं पुरा ॥
दिव्याब्दानां सहस्रं तु तेन चण्डेश्वरं स्मृतम् ॥३॥
तं दृष्ट्वा देवदेवेशं स्पृष्ट्वा च सुसमाहितः ॥
मुच्यते सकलात्पापादाजन्ममरणांतिकात् ॥४॥
तत्र कृष्णचतुर्दश्यां मासे भाद्रपदे प्रिये ॥
उपवास परो भूत्वा यः करोति प्रजागरम् ॥
स याति परमं स्थानं यत्र देवो महेश्वरः ॥५॥
वाचिकं मानसं पापं कर्मणा यदुपार्जितम् ॥
तत्सर्वं नाशमायाति तस्य लिंगस्य दर्शनात् ॥६॥
तिला हिरण्यं वस्त्राणि तत्र देयं मनीषिणे ॥
सर्वकिल्विषनाशार्थं सम्यग्यात्राफलेप्सुना ॥७॥
भैरवाकारमास्थाय कल्पान्ते स हरेद्यतः ॥
विश्वं समग्रं देवेशि तेनासौ भैरवः स्मृतः ॥८॥
अस्मिन्कल्पे महादेवि प्रभासक्षेत्रमास्थितः ॥
बभूव भैरवो रुद्रः कल्पान्ते लिंगमूर्तिमान् ॥९॥
एवं संक्षेपतः प्रोक्तं माहात्म्यं भैरवेश्वरम् ॥
यच्छ्रुत्वा मुच्यते जन्तुः पातकादतिभैरवात् ॥१०॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादशरुद्रमाहात्म्ये भैरवेश्वरमाहात्म्य वर्णनंनाम चतुर्णवतितमोऽध्यायः ॥९४॥छ ॥

N/A

References : N/A
Last Updated : January 08, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP