संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ५१

प्रभासक्षेत्र माहात्म्यम् - अध्याय ५१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि केतुलिंगं महाप्रभम् ॥
राह्वीशानादुत्तरे च मंगलायाश्च दक्षिणे ॥१॥
धनुषोंतरमानेन नातिदूरे व्यवस्थितम् ॥
लिंगं महाप्रभावं हि सर्वपातकनाशनम् ॥२॥
केतुर्नाम ग्रहोत्युग्रः शिवसद्भावभावितः ॥
वर्तुलोऽतीव विस्तीर्णो लोचनाभ्यां सुभीषणः ॥३॥
पलालधूमसंकाशो ग्रहपीडापहारकः ॥
तत्राकरोत्तपश्चोग्रं दिव्याब्दानां शतं प्रिये ॥४॥
तस्य तुष्टो महादेवो ग्रह त्वं प्रददौ प्रिये ॥
एकादशशतानां च ग्रहाणामाधिपत्यताम् ॥५॥
तत्रस्थं पूजयेद्भक्त्या केतुलिंगं महाप्रभम् ॥
केतूदये महाघोरे तस्मिन्दृष्टे विशेषतः ॥६॥
ग्रहपीडासु चोग्रासु पूजयेत्तं विधानतः ॥
पुष्पैर्गंधैस्तथा धूपैर्नैवेद्यैर्विविधैः शुभैः ॥७॥
तोषयेद्विधिवद्देवं केतुं कल्मषनाशनम् ॥८॥
इति संक्षेपतः प्रोक्तं केतुलिंगं महोदयम् ॥
ग्रहपीडोपशमनं सर्वपातकनाशनम् ॥९॥
एतानि नव लिंगानि ग्रहाणां कथितानि ते ॥
यः पश्यति नरो नित्यं तस्य पीडाभयं कुतः ॥१०॥
न दौर्भाग्यं कुले तस्य न रोगी नैव दुःखितः ॥
जायते पुत्रवद्देवि तं रक्षंति महाग्रहाः ॥११॥
इति ते कथितं सम्यक्चतुर्दशायतनं प्रिये ॥
विघ्नेश्वरं समारभ्य यावत्केतुप्रतिष्ठितम् ॥१२॥
नवग्रहेश्वराणां तु माहात्म्यं पापनाशनम् ॥
तथैव पंचलिंगानां श्रुत्वा पापैः प्रमुच्यते ॥१३॥
कपर्द्दिनं समारभ्य चंडनाथांतकानि च ॥
पंचैव मुद्रालिंगानि नापुण्यो वेद मानवः ॥१४॥
सूर्येश्वरं समारभ्य केतुलिंगांतकानि वै ॥
नवग्रहाणां लिंगानि नान्यो जानाति कश्चन ॥१५॥
चतुर्दशविधा त्वेवं प्रोक्ताऽऽयतनसंगतिः ॥
यश्चैनां वेद भावेन स क्षेत्रफलमश्नुते ॥१६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये केत्वीश्वरमाहात्म्यवर्णननामैकपंचाशोऽध्यायः ॥५१॥

N/A

References : N/A
Last Updated : January 08, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP