संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय १०४

प्रभासक्षेत्र माहात्म्यम् - अध्याय १०४

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि कोटीश्वरमनुत्तमम् ॥
तस्मादुत्तरतो देवि कोटीशमिति विश्रुतम् ॥१॥
पापघ्नं सर्वजंतूनां पशुपाशविमोक्षदम् ॥
पुरा पाशुपता देवि कपालेश्वरसंनिधौ ॥२॥
तपः कुर्वंति विपुलं भस्मोद्धूलितविग्रहाः ॥
जटामुकुटसंयुक्ता मुंजमेखलधारिणः ॥३॥
शांताः सर्वे जितक्रोधा ब्राह्मणाः शिवयोगिनः ॥
तपः कुर्वंति तत्रस्था व्याप्य क्षेत्रं चतुर्द्दिशम् ॥४॥
कोटिसंख्या महादेवि मन्त्रजाप्यपरायणाः ॥
सम्यक्संस्थाप्य ते लिंगं कपालेशसमीपगम् ॥५॥
ततस्ते पूजयांचक्रुस्तल्लिंगं भक्तिसंयुताः ॥
ततस्तुष्टो महादेवो मुक्तिं तेषां ददौ हरः ॥६॥
ऋषयः कोटिसंख्यातास्तस्मिन्सिद्धा यतः प्रिये ॥
तेन कोटीश्वरं लिंगं नाम्ना ख्यातं धरातले ॥७॥
यस्तं पूजयते भक्त्या कोटीश्वरमनामयम् ॥
स कोटिमन्त्रजाप्यस्य फलं प्राप्स्यति मानवः ॥८॥
हिरण्यं तत्र दातव्यं ब्राह्मणे वेदपारगे ॥
कोटिहोमफलं तस्य सम्यग्यात्राफलं भवेत् ॥९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कोटीश्वरमाहात्म्यवर्णनंनाम चतुरधिक शततमोऽध्यायः ॥१०४॥

N/A

References : N/A
Last Updated : January 09, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP