संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय २९

प्रभासक्षेत्र माहात्म्यम् - अध्याय २९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
अग्नितीर्थं ततो गच्छेत्सागरस्य तटे शुभे ॥
यत्राऽसौ वाडवो मुक्तः सरस्वत्या वरानने ॥१॥
दक्षिणे सोमनाथस्य सर्वपापप्रणाशनम् ॥
तीर्थं त्रैलोक्यविख्यातं पद्मकं नाम नामतः ॥२॥
धन्वंतरशते प्रोक्तं सोमेशाज्जलमध्यगम्॥
कुण्डं पापहरं प्रोक्तं शतहस्तप्रमाणतः ॥
तत्र स्नानं प्रकुर्वीत विगाह्य निधिमंभसाम् ॥३॥
आदौ कृत्वा तु वपनं सोमेश्वरसमीपतः ॥
शंकरं मनसा ध्यायन्केशांस्तत्र परित्यजेत् ॥
समुत्तार्य ततः केशान्भूयः स्नानं समाचरेत् ॥४॥
यत्किंचित्कुरुते पापं मनुष्यो वृत्तिकर्शितः ॥
तदेव पर्वतसुते सर्वं केशेषु तिष्ठति ॥५॥
तस्मात्सर्वप्रयत्नेन केशांस्तत्र विनिक्षिपेत् ॥
तदेव सोमनाथाग्रे कृत्वा तु द्विगुणं फलम् ॥६॥
अग्नितीर्थसमीपस्थं कपर्द्दिद्वारमध्यगम् ॥
तत्रैव द्विगुणं ज्ञेयमन्यत्रैकगुणं स्मृतम् ॥७॥
क्षुरकर्म न शस्तं स्याद्योषितां तु वरानने ॥
सभर्तृकाणां तत्रैव विधिं तासां शृणुष्व मे ॥८॥
सर्वान्केशान्समुद्धृत्य च्छेदयेदंगुलद्वयम् ॥
ततो देवान्विधानेन तर्प्पयेत्पितृदेवताः॥९॥
मुण्डनं चोपवासश्च सर्वतीर्थेष्वयं विधिः ॥१०॥
गंगायां भास्करे क्षेत्रे मातापित्रोर्गुरौ मृते ॥
आधाने सोमपाने च वपनं सप्तसु स्मृतम् ॥११॥
अश्वमेधसहस्राणां सहस्रं यः समाचरेत् ॥
नासौ तत्फलमाप्नोति वपनाद्यच्च लभ्यते ॥१२॥
विना मन्त्रेण यस्तत्र देवि स्नानं समाचरेत् ॥
समाप्नोति क्वचिच्छ्रेयो मुक्त्वैकं पर्ववासरम् ॥१३॥
विना मंत्रं विना पर्व क्षुरकर्म विना नरैः ॥
कुशाग्रेणापि देवेशि न स्प्रष्टव्यो महोदधिः ॥ ॥१४॥
एवं स्नात्वा विधानेन दत्त्वाऽर्घ्यं च महोदधौ ॥
संपूज्य पुष्पगंधैश्च वस्त्रैः पुण्यानुलेपनैः ॥१५॥
हिरण्मयं यथाशक्त्या निक्षिपेत्तत्र कंकणम् ॥१६॥
एवं कृत्वा विधानं तु स्पर्शयेल्लवणोदधिम् ॥
मन्त्रेणानेन देवेशि ततः सांनिध्यतां व्रजेत् ॥१७॥
ॐ नमो विष्णुगुप्ताय विष्णुरूपाय ते नमः ॥
सांनिध्ये भव देवेश सागरे लवणाम्भसि ॥१८॥
अग्निश्च रेतो मृडया च देहो रेतोधा विष्णुरमृतस्य नाभिः ॥
एतद्ब्रुवन्पार्वति सत्यवाक्यं ततोऽवगाहेत्तु पतिं नदीनाम् ॥१९॥
ॐ नमो रत्नगर्भाय मन्त्रेणानेन भामिनि ॥
कंकणं प्रक्षिपेत्तत्र ततः स्नायाद्यदृच्छया ॥२०॥
ततश्च तर्पयेद्देवान्मनुष्यांश्च पितामहान्॥
तिलमिश्रेण तोयेन सम्यक्छ्रद्धासमन्वितः ॥२१॥
आजन्मशतसाहस्रं यत्पापं कुरुते नरः॥
सकृत्स्नात्वा व्यपोहेत सागरे लवणाम्भसि ॥२२॥
वृषभस्तत्र दातव्यः प्रवृत्ते क्षुरकर्मणि॥
आत्मप्रकृतिदानं च पीतवस्त्रं तथैव च ॥२३॥
अनेन विधिना तत्र सम्यक्स्नानं समाचरेत् ॥
स्पर्शयेद्वाडवं तेजश्चान्यथा दोषभाग्भवेत् ॥२४॥
वरः शापश्च तस्यायं पुरा दत्तो यथा द्विजैः ॥। २५॥
 ॥देव्युवाच॥
कुत्र कुत्र महादेव जलस्नानाद्विशुध्यति ॥
किमर्थं सागरे दोषः प्राप्यते कौतुकं महत् ॥२६॥
यत्र गंगादयः सर्वा नद्यो विश्रांतिमागताः ॥
यत्र विष्णुः स्वयं शेते यत्र लक्ष्मीः स्वयं स्थिता ॥२७॥
किमर्थं वरशापं तु तस्य दत्तं द्विजैः पुरा ॥
सर्वं विस्तरतो ब्रूहि महान्मे संशयोऽत्र वै ॥२८॥
 ॥ईश्वर उवाच॥
दीर्घसत्रं पुरा देवि प्रारब्धं सुरसत्तमैः ॥
प्रभासं तीर्थमासाद्य सम्यक्छ्रद्धा समन्वितैः ॥२९॥
ततः सत्रावसाने तु दत्त्वा दानमनेकधा ॥
सर्वस्वं ब्राह्मणेन्द्राणां प्रभासक्षेत्रवासिनाम् ॥३०॥
तावदन्ये द्विजास्तत्र दक्षिणार्थं समागताः ॥
देशीयास्तत्र वास्तव्याः शतशोऽथ सहस्रशः ॥३१॥
प्रार्थनाभङ्गभीताश्च ततो देवाः सवासवाः ॥
प्रणष्टास्तान्सुरान्दृष्ट्वा ब्राह्मणाश्चानुवव्रजुः ॥३२॥
खेचरत्वं पुरा देवि ह्यासीदग्रभुवां महत् ॥
तेन यांति द्रुतं सर्वे यत्र यत्र सुरालयाः ॥३३॥
एवं सर्वत्रगामित्वं तेषां वीक्ष्य दिवौकसः ॥
प्रविष्टाः सागरं भीता ऊचुर्वाक्यं च तं पुनः ॥३४॥
शरणं ते वयं प्राप्ता ब्राह्मणेभ्यो भयं गताः ॥
नास्ति वित्तं च दानार्थं तस्माद्रक्ष महोदधे ॥३५॥
एकतः क्रतवः सर्वे समाप्तवरदक्षिणाः ॥
एकतो भयभीतस्य प्राणिनः प्राणरक्षणम्॥
विशेषतश्च देवानां रक्षणं बहुपुण्यदम् ॥३६॥
 ॥समुद्र उवाच॥
ब्राह्मणेभ्यो न भीः कार्या कथंचित्सुरसत्तमाः ॥
अहं वो रक्षयिष्यामि प्रविशध्वं ममोदरे ॥३७॥
ततस्ते विबुधाः सर्वे तस्य वाक्येन हर्षिताः ॥
प्रविष्टा गह्वरां कुक्षिं तस्यैव भय वर्ज्जिताः ॥३८॥
समुद्रोऽपि महत्कृत्वा निजरूपं च भूरिशः ॥
जलजाञ्जीवसंघातान्धृत्वा तीरसमीपतः ॥३९॥
ततश्चक्र उपायं स ब्राह्मणानां निपातने ॥
मत्स्यानामामिषं पक्त्वा महान्नेन च गोपितम् ॥४०॥
अथोवाच द्विजान्सर्वान्प्रणिपत्य कृतांजलिः ॥
प्रसादः क्रियतां विप्रा मुहूर्त्तं मम सांप्रतम् ॥४१॥
आतिथ्यग्रहणादेव दीनस्य प्रणतस्य च ॥
युष्मदर्थं मया सम्यगेतत्पाकं समावृतम् ॥
क्रियतां भोजनं भूयो गंतव्यमनु नाकिनाम् ॥४२॥
अथ ते ब्राह्मणा मत्वा समुद्रं श्रद्धयान्वितम् ॥
बाढमित्येव तं प्रोच्य बुभुजुः स्वर्णभाजने ॥४३॥
न व्यजानंत तन्मांसं गुप्तं स्वादु क्षुधार्द्दिताः ॥४४॥
ततस्तृप्ताश्च ते विप्रा ब्राह्मणा विगतक्षुधः ॥
आशीर्वादं ददुः सर्वे ब्राह्मणाः शंसित व्रताः ॥४५॥
भोजनांतो ब्राह्मणानां प्राणांतः क्षत्रजन्मनाम् ॥
आशीविषाणां सर्पाणां कोपो ज्ञेयो मृतावधिः ॥
प्रेरयामास देवान्वै गम्यतामित्युवाच तान् ॥४६॥
ततो देवाः सगंधर्वा गच्छंतः शीघ्रगा वियत् ॥
गच्छतस्तांस्ततो दृष्ट्वा ब्राह्मणास्तत्र वंदिता ॥४७॥
दक्षिणार्थं समुत्पेतुः सुरानुद्दिश्य पृष्ठतः ॥४८॥
ततः प्रपतिता भूमौ द्विजास्ते सहसा पुनः ॥
अभक्ष्यभक्षणात्ते वै ब्राह्मणा मांसभक्षणात् ॥४९॥
निष्कृतिं तां परिज्ञाय समुद्रस्य रुषान्विताः ॥
ददुः शापं महादेवि रौद्रं रौद्रवपुर्द्धराः ॥५०॥
यस्मादभक्ष्यं मांसं वै ब्राह्मणानां परं स्मृतम् ॥
त्वयोपहृतमस्माकं सुगुप्तं भक्ष्यसंयुतम् ॥५१॥
एकतः सर्वमांसानि मत्स्यमांसं तथैकतः ॥
एकतः सर्वपापानि परदारास्तथैकतः ॥५२॥
एवं वयं विजानन्तो यदि मांसस्य दूषणम् ॥
तथापि वंचिताः सर्वे अपरीक्षितकारिणः ॥५३॥
यस्मात्पापमते क्रूरं त्वया वै वञ्चिता वयम् ॥
मांसस्य भक्षणात्तस्मादपेयस्त्वं भविष्यसि ॥५४॥
अस्पृश्यस्त्वं द्विजेंद्राणामन्येषां च नृणां भुवि ॥
तवोदकेन ये मर्त्त्याः करिष्यंति कुबुद्धयः ॥५५॥
स्नानं ते नरकं घोरं प्रयास्यंति न संशयः ॥
कृतघ्नानां च ये लोका ये लोकाः पापकर्मिणाम् ॥५६॥
तांस्तवोदक संस्पर्शाल्लप्स्यंते मानवा भुवि ॥५७॥
 ॥ईश्वर उवाच॥
एवं शप्तः समुद्रस्तैर्ब्राह्मणैर्वरवर्णिनि ॥
ततो वर्षसहस्रं तु ह्यस्पृश्यः संबभूव ह ॥५८॥
ततस्त्रासाकुलो भूत्वा सर्वांस्तानिदमब्रवीत् ॥
देवकार्यमिदं विप्रा मया कृतमबुद्धिना ॥५९॥
बुभूषता परं धर्मं शरणागतसंभवम् ॥
कामात्क्रोधाद्भयाल्लोभाद्यस्त्यजेच्छरणागतम् ॥६०॥
सत्याद्वापि स विज्ञेयो महापातककारकः ॥
युष्मद्भीत्या समायाताः स्वर्गिणः शरणं मम ॥६१॥
ते मया रक्षिताः सम्यग्यथाशक्त्या ह्युपायतः ॥
शोषयिष्येऽहमात्मानं यस्माच्छप्तः प्रकोपतः ॥६२॥
भवद्भिर्नोत्सहे स्थातुं जनस्पर्शविनाकृतः ॥
एवमुक्त्वा ततो देवि समुद्रः सरितांपतिः ॥
आत्मानं शोषयामास दुःखेन महता स्थितः ॥६३॥
ततो देवगणाः सर्वे स्थलाकारं महार्णवम् ॥
शनैःशनैः प्रपश्यंतो भयेन महताऽन्विताः ॥६४॥
ऊचुर्गत्वा तु लोकेशं देवदेवं पितामहम् ॥
अस्मत्कृते द्विजैः शप्तः सागरो ब्राह्मणोत्तमैः ॥६५॥
स शोषयति चात्मानं दुःखेन महतान्वितः ॥
समुद्राज्जलमादाय प्रवर्षंति बलाहकाः ॥६६॥
ततः संजायते सस्यं सस्याद्यज्ञा भवंति च ॥
यज्ञैः संजायते तृप्तिः सर्वेषां त्रिदिवौकसाम् ॥६७॥
एवं तस्य विनाशेन नाशोऽस्माकं भविष्यति ॥
तस्मात्त्वं रक्ष तं गत्वा यथा शोषं न गच्छति ॥६८॥
यथा तुष्यंति विप्रास्ते तथा नीतिर्विधीयताम् ॥६९॥
देवानां वचनाद्ब्रह्मा गत्वा सागरसन्निधौ ॥
समुद्रार्थे ययाचे तान्ब्राह्मणान्क्षेत्रवासिनः ॥७०॥
 ॥ब्रह्मोवाच॥
प्रसादः क्रियतामस्य सागरस्य द्विजोत्तमाः ॥
यथा पवित्रतां याति मद्वाक्यात्क्रियतां तथा ॥७१॥
प्रदास्यति स युष्मभ्यं रत्नानि विविधानि च ॥७२॥
यूयं भविष्यथात्यंतं भूमिदेवा इति क्षितौ ॥
नाम्ना मद्वचनान्नूनं सत्यमेतन्मयोदितम् ॥७३ ।
 ॥ब्राह्मणा ऊचुः॥
नान्यथा कर्तुमिच्छामस्तव वाक्यं जगत्पते ॥
न च मिथ्याऽऽत्मनो वाक्यं प्रमाणं चात्र वै भवान् ॥७४॥
तन्नो वाक्यात्सुरश्रेष्ठ हितं वा यदि वाहितम् ॥
परं स्याज्जगतां श्रेयः सर्वेषां च दिवौकसाम् ॥
तथा कुरु जगन्नाथ अस्माकं हितकारणम् ॥७६॥
अथोवाच नदीनाथं ब्रह्मा लोकपितामहः॥
मा शोषय त्वमात्मानं हितं वाक्यं शृणुष्व मे ॥७६॥
नान्यथा शक्यते कर्त्तुं द्विजानां वचनं हि तत् ॥
ब्राह्मणाः कुपिता नूनं भस्मीकुर्युः स्वतेजसा ॥७७॥
देवान्कुर्युरदेवांश्च तस्मात्तान्नैव कोपयेत् ॥
यस्मादेव तव स्पर्शस्त्रिधा मेध्यो भविष्यति ॥७८॥
पर्वकाले च संप्राप्ते नदीनां च समागमे ॥
सेतुबंधे तथा सिंधौ तीर्थेष्वन्येषु संयुतः ॥७९॥
इत्येवमादिसर्वेषु मध्येऽन्यत्र न कर्मणि ॥
यत्फलं सर्वतीर्थेषु सर्वयज्ञेषु यत्फलम् ॥
तत्फलं तव तोयस्य स्पर्शादेव भविष्यति ॥८०॥
गयाश्राद्धे तु यत्पुण्यं गोग्रहे मरणेन च ॥
तत्फलं तव तोयस्य स्पर्शादेव भविष्यति ॥८१॥
अपेयस्त्वं तथा भावि स्वादमात्रेण केवलम् ॥
गंडूषमपि पीतं च तोयस्याशुभनाशनम् ॥८२॥
भविष्यति नृणां लोके तव सौख्यविवर्द्धनम् ॥
पितॄणां तव तोयेन यः करिष्यति तर्पणम् ॥
पूर्वोक्तेन विधानेन तस्य पुण्यफलं शृणु ॥९३॥
यावत्त्वं तिष्ठसे लोके यावच्चद्रार्कतारकाः ॥
तवोदकामृतैस्तृप्तास्तावत्स्थास्यंति पूर्वजाः ॥८४॥
माघे मासि च यः स्नायान्नैरंतर्येण भावितः ॥
पौंडरीकफलं तस्य दिवसेदिवसे भवेत् ॥८९॥
यात्रायामथवान्यत्र पर्वकाले शशिग्रहे ॥
अत्र स्नास्यति यः सम्यक्सागरे लवणांभसि ॥
अश्वमेधसहस्रस्य फलं प्राप्स्यति मानवः ॥८६॥
श्रीसोमेशसमुद्रस्य अंतरे ये मृता नराः ॥
पापिनोऽपि गमिष्यंति स्वर्गं निर्धूतकल्मषाः ॥८७॥
एवं भविष्यति सदा तव मद्वचनाद्विभो ॥
प्रयच्छस्व द्विजेंद्राणां रत्नानि विविधानि च ॥८८॥
तेन तुष्टा वरं भूयः प्रदास्यंति तवेप्सितम् ॥८९॥
 ॥ईश्वर उवाच॥
पितामहवचः श्रुत्वा बाढमित्येव सागरः ॥
ब्राह्मणेभ्यः सुरत्नानि ददौ श्रद्धा समन्वितः ॥९०॥
ब्राह्मणैर्ब्रह्मणो वाक्यमशेषं समनुष्ठितम् ॥
क्षुरकर्म तथा कृत्वा स्नानं सर्वेऽपि चक्रिरे ॥९१॥
एवं पवित्रतां प्राप्तस्तीर्थत्वं लव णोदधिः ॥
तस्य मध्ये महादेवि लिंगानां पंचकोटयः ॥९२॥
अस्मिन्मन्वंतरे देवि अदृश्याः सागरे कृताः ॥
अग्निकुण्डं च तत्रैव तथान्यत्पद्मकं सरः ॥९३॥
मध्ये तु प्रावृतं सर्वमस्मिन्मन्वंतरे प्रिये ॥
चक्रमैनाकयोर्मध्ये दिशि दक्षिणमुच्यते ॥९४॥
शातकुम्भमये कुम्भे धनुषायुतविस्तृते॥
तत्र कुंभस्य मध्यस्थो वडवानलसंज्ञितः ॥९५॥
सूचीवक्त्रो महाकायः स जलं पिबते सदा ॥
एतदंतरमासाद्य अग्नितीर्थं प्रचक्षते ॥९६॥
तस्य मध्ये महासारं वाडवं यत्र वै मुखम् ॥
श्रीसोमेशाद्दक्षिणतो धन्वंतरशतावधि ॥
उत्तरान्मानसात्पूर्वं यावदेव कृतस्मरम् ॥९७॥
एतद्गोप्यं वरारोहे न देयं यस्य कस्यचित् ॥
ब्रह्मघ्नोपि विशुध्येत श्रुत्वैतन्नात्र संशयः ॥९८॥
एवं शापो वरो दत्तः सागरस्य यथा द्विजैः ॥
पूर्वं रुष्टैस्ततस्तुष्टैस्तत्सर्वं कथितं मया ॥९९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये समुदस्यापेयताकारण वर्णनंनामैकोनत्रिंशोऽध्यायः ॥२९॥

N/A

References : N/A
Last Updated : January 07, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP