संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ६१

प्रभासक्षेत्र माहात्म्यम् - अध्याय ६१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवीं क्षेत्रदूतीं तु वैष्णवीम् ॥
श्रीदैत्यसूदनाद्देवि पूर्वभागे व्यवस्थिताम् ॥१॥
योगेश्वर्यास्तथैशान्यां धनुषां सप्तके स्थिताम् ॥
महादौर्भाग्यदग्धानां स्थितां भेषजरूपिणीम् ॥२॥
चाक्षुषस्यांतरे देवि यदा दैत्या बलोत्कटाः ॥
हन्यमाना विष्णुनाऽथ दक्षिणां दिशमाविशन् ॥३॥
तत्र वर्षशतं साग्रं दैत्याश्चक्रुर्महाहवम् ॥
विष्णुना सह देवेशि दिव्यास्त्रैश्च पृथग्विधैः ॥४॥
दुःखवध्यांस्ततो ज्ञात्वा विष्णुः कमललोचनः ॥
सस्मार भैरवीं शक्तिं महामायां महाप्रभाम् ॥५॥
सा स्मृता क्षणमात्रेण विष्णुना प्रभविष्णुना॥
तत्रागता महादेवी आनंदस्फुरितेक्षणा ॥६॥
विशाले तु कृते देव्या लोचने विष्णुदर्शनात् ॥
विशालाक्षी ततो जाता तत्रस्था दैत्यनाशिनी ॥७॥
अस्मिन्कल्पेसमाख्याता ललितोमा वरानने ॥
उमाद्वयं समाख्यातं सोमेशे दैत्यसूदने ॥८॥
पूर्वं सोमेश्वरे पश्येत्पश्चाच्छ्रीदैत्यसूदने ॥
उमा द्वयं पूजयित्वा तीर्थयात्राफलं लभेत् ॥९॥
माघे मासि तृतीयायां विधिना योऽर्चयेत्तु ताम्॥
न संततिविहीनः स्यात्तस्यकोट्यन्वये नरः ॥१०॥
यो नित्यमीक्षते तत्र भक्त्या परमया युतः ॥
आरोग्यसुखसौभाग्यसंयुक्तोऽसौ भवेच्चिरम् ॥११॥
इति संक्षेपतः प्रोक्तं माहात्म्यं ललितोद्भवम्॥
श्रुतं यत्पापनाशाय जायते धर्मवृद्धये ॥१२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभास क्षेत्रमाहात्म्ये ललितोमाविशालाक्षी माहात्म्यवर्णनंनामैकषष्टितमोऽध्यायः ॥६१॥

N/A

References : N/A
Last Updated : January 08, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP