संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ३५

प्रभासक्षेत्र माहात्म्यम् - अध्याय ३५

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥देव्युवाच॥
भगवन्भार्गवे वंशे यस्त्वौर्वः कथितस्त्वया ॥
वैवस्वतेंऽतरे चास्मिंस्तस्योत्पत्तिं वद प्रभो ॥१॥
 ॥ईश्वर उवाच॥
ब्राह्मणा निहता ये तु क्षत्रियैर्वित्तकारणात् ॥
क्षयं नीतास्तु ते सर्वे सपुत्राश्च सगर्भतः ॥२॥
म्रियमाणेषु सर्वेषु एका स्त्री समतिष्ठत ॥
तया तु रक्षितो गर्भ ऊर्वोर्देशे निधाय च ॥३॥
अन्यासां चैव नारीणां सर्वासामपि भामिनि ॥
गर्भानि पातितास्तैस्तु द्रव्यार्थं क्षत्रियाधमैः ॥४॥
कालांतरे ततो भित्त्वा कुरुदेशं महाप्रभः ॥
निर्गतोत्तंभितशिरा ज्वलदास्योतिभीषणः ॥५॥
तद्वैरं हृदि चाधाय ददाह वसुधातलम् ॥
उत्पाद्य वह्निं तपसा रौद्रमौर्वं जलाशनम् ॥६॥
तमिन्द्रः प्लावयामास वृष्ट्यौघैर्वरवर्णिनि ॥
न शशाक यदा नेतुं तदा स यतवाक्स्थितः ॥७॥
ततो देवाः सगंधर्वा ब्रह्माणं शरणं गताः ॥
अभवन्भयसंत्रस्ताः सर्वे प्रांजलयः स्थिताः ॥८॥
 ॥देवा ऊचुः॥
भगवन्भार्गवे वंशे जातः कोऽपि महाद्युतिः ॥
अग्निरूपेण सर्वं स ददाह वसुधातलम्॥
कृतो यत्नः पुराऽस्माभिस्तद्विनाशाय सत्तम ॥
जलेन वृद्धिमायाति ततो नो भयमागतम् ॥१०॥
विनष्टे भूतले देव अग्निष्टोमादिकाः क्रियाः॥
उच्छिद्यते ततोऽस्माकं नाशो नूनं भविष्यति ॥११॥
तस्माद्यत्नं कुरु विभो त्रैलोक्यहितकाम्यया ॥१२॥
ततो ब्रह्मा सुरैः सार्द्धं भार्गवैश्च महर्षिभिः ॥
आगत्य चाब्रवीदौर्वं किमर्थं दहसि क्षितिम् ॥१३॥
विरामः क्रियतां सद्यो ममार्थं च द्विजोत्तम ॥१४॥
 ॥और्व उवाच॥
एष एव निवृत्तोऽहं तव वाक्येन सत्तम ॥
एष वह्निर्मयोत्सृष्टः स विभो तव शासनात् ॥१५॥
यथा गच्छेत्समुद्रांतं तथा नीतिर्विधीय ताम् ॥१६॥
समाहूय ततो देवीं स्वां सुतां पद्मसंभवः ॥
उवाच पुत्रि गच्छ त्वं गृहीत्वाग्निं महोदधिम् ॥
मद्वाक्यं नान्यथा कार्यं गच्छ शीघ्रं महाप्रभे ॥१७॥
 ॥सरस्वत्युवाच॥
एषास्मि प्रस्थिता देव तव वाक्यादसंशयम् ॥
इत्युक्ते साधु साध्वीति ब्रह्मणा समुदाहृता ॥ ॥१८॥
ततोभिमंत्रितं वह्निं क्षिप्त्वा कुंभे हिरण्मये ॥
प्रायच्छत सरस्वत्यै स्वयं ब्रह्मा पितामहः ॥
आशिषो विविधा दत्त्वा प्रोवाचेदं पुनः पुनः ॥१९॥
गच्छ पुत्रि न संतापस्त्वया कार्यः कथंचन ॥
अरिष्टं व्रज पंथानं मा संतु परिपन्थिनः ॥२०॥
 ॥ईश्वर उवाच॥
एवमुक्ता तदा तेन ब्रह्मणा च सरस्वती ॥
हिमवंतं गिरिं प्राप्य पिप्पलादाश्रमात्तदा ॥२१॥
उद्भूता सा तदा देवी अधस्ताद्वृक्षमूलतः ॥
तत्कोटर कुटीकोटिप्रविष्टानां द्विजन्मनाम् ॥२२॥
श्रूयन्ते वेदनिर्घोषा सरसारक्तचेतसाम् ॥
विष्णुरास्ते तत्र देवो देवानां प्रवरो गुरुः ॥२३॥
तस्मात्स्थानात्ततो देवी प्रतीच्यभिमुखं ययौ ॥
अन्तर्द्धानेन सा प्राप्ता केदारं हिममध्यगम् ॥२४॥
तत्संप्लाव्य गिरेः शृंगं केदारस्य पुरः स्थिता ॥
तेनाग्निना करस्थेन दह्यमाना सरस्वती ॥२५॥
भूमिं विदार्य तस्याधः प्रविष्टा गजगामिनी ॥
तदंतर्द्धानमार्गेण प्रवृत्ता पश्चिमामुखी ॥२६॥
पापभूमिमतिक्रम्य भूमिं भित्त्वा विनि(?)गता ॥
तत्र कूपः समभवन्नाम्ना गन्धर्वसंज्ञितः ॥२७॥
तस्मात्कूपात्पुनर्दृश्या सा बभूव महानदी ॥
मतिः स्मृतिस्तथा प्रज्ञा मेधा बुद्धिर्गिराधरा ॥२८॥
उपासिकाः सरस्वत्याः षडेताः प्रस्थितास्तदा ॥
पुनः प्रवृत्ता सा तस्मादुद्भेदात्पश्चिमामुखी ॥२९॥
भूतीश्वरं समायाता सिद्धो यत्र महामुनिः ॥
भूतीश्वरे समीपस्थं तत्र प्राप्ता मनोरमम् ॥३०॥
तस्य दक्षिणदिक्संस्थं रुद्रकोट्युपलक्षितम् ॥
श्रीकंठ देशं विख्यातं गता सर्वौषधीयुतम् ॥३१॥
तस्मात्पुण्यतमाद्देशाच्छ्रीकण्ठात्सा मनस्विनी ॥
संप्राप्ता वह्निना सार्द्धं कुरुक्षेत्रं सरस्वती ॥३२॥
पुनस्तस्मात्कुरुक्षेत्राद्विराटनगरस्य सा ॥
समुद्भूता समीपस्था अन्तर्द्धानान्मनोरमा ॥
गोपायनो गिरिर्यत्र तत्र सा पुनरुद्गता ॥३३॥
गोपायिता केशवेन यत्र ते पाण्डुनन्दनाः ॥
कुर्वंतः स्वानि कर्माणि न कैश्चिदुपलक्षिता ॥३४॥
तत्र कुंडे स्थिता देवी महापातकनाशिनी ॥
पुन र्गोपायनाद्देवी क्षेत्रं प्राप्तातिशोभनम् ॥३५॥
खर्जुरीवनमापन्ना नन्दानाम्नीति तत्र सा ॥
सरस्वती पुनस्तस्माद्वनात्खर्जूरसंज्ञितात् ॥३६॥
मेरुपादं समासाद्य मार्कंडाश्रममागता ॥
यत्र मार्कंडकं तीर्थं मेरुपादे समाश्रितम् ॥३७॥
सरस्वती पुनस्तस्मादर्बुदारण्यमाश्रिता ॥
गता वटवनं रम्यं मार्कंडेयाश्रमाच्छुभात् ॥३८॥
तपस्तप्तं पुरा यत्र वसिष्ठेन समाश्रितात् ॥
तस्माद्वटवनात्पुण्यादुदुम्बरवनं गता ॥
मेरुपादे च तत्रैव तण्डिर्यत्रा तपत्तपः ॥३९॥
ऊदुंबरवनात्तस्मात्पुनर्देवी सरस्वती ॥
अन्तर्द्धानेन शिखरमन्यत्प्राप्ता महानदी ॥४०॥
मेरुपादं तु सुमहत्सुरसिद्धनिषेवितम् ॥
भिन्नांजनचयाकारं गोलांगूलमिति स्मृतम् ॥४१॥
स्थानं मनोरमं तस्मादुद्गता सा सुमध्यमा ॥
वंशस्तंबात्सुविपुला प्रवृत्ता दक्षिणामुखी ॥४२॥
तत्रोद्गमवटस्तस्यास्तत्समाख्यो व्यवस्थितः ॥
ततः प्रभृति सा देवी सुप्रभं प्रकटा स्थिता ॥४३॥
अंतर्द्धानं परित्यज्य प्राणिनामनुकम्पया ॥
तस्यास्तटेषु रम्येषु संति तीर्थानि कोटिशः ॥४४॥
तेषु तीर्थेषु सर्वेषु धर्महेतुः सरस्वती ॥
रुद्रावतारमार्गेऽस्मिन्प्रवरं प्रथमं स्मृतम् ॥४५॥
तरत्तरंगनामाढ्यं काकतीर्थं महाप्रभम् ॥
तत्र तीर्थं पुनस्त्वन्यत्तीर्थं धारेश्वरं स्मृतम् ॥४६॥
धारेश्वरात्पुनश्चान्यद्गंगोद्भेदमिति स्मृतम् ॥
सारस्वतं तथा गांगं यत्रैकं संस्थितं जलम् ॥
तस्मादन्यत्परं तीर्थं पुंडरीकं ततः परम् ॥४७॥
मातृतीर्थं महापुण्यं सर्वातंकहरं परम् ॥
मातृतीर्थात्पुनस्तस्मान्नातिदूरे व्यवस्थितम् ॥४८॥
तीर्थं त्वनरकंनाम नरकार्ति भयापहम् ॥
ततस्तस्मादनरकात्तीर्थमन्यत्पुनः स्थितम् ॥४९॥
संगमेश्वरनामाढ्यं प्रसिद्धं तन्महीतले ॥
ततस्तस्मात्पुनश्चान्यत्तीर्थं कोटीश्वराह्वयम् ॥५०॥
ततस्तस्मान्महादेवि शंभुकुण्डेश्वरं स्मृतम् ॥
तीर्थे सरस्वतीतीरे तस्मिन्सिद्धेश्वरं स्मृतम् ॥५१॥
सिद्धेश्वरात्पुनस्तस्मात्प्रवृत्ता पश्चिमामुखी ॥
पश्चिमं सागरं गंतुं सखीं स्मृत्वा रुरोद सा ॥५२॥
स्थित्वा पूर्वमुखा देवी हा गंगेति विना त्वया॥
एकाकिनी मंदभाग्या क्व गमिष्याम्यबांधवा ॥५३॥
तां विज्ञाय ततो गंगा रुदतीं शोककर्शिताम् ॥
शीघ्रं स्वर्गात्समायाता तीर्थानां कोटिभिः सह ॥५४॥
ततो दुःखं परित्यज्य तत्र प्राची सरस्वती ॥
सर्वदेवगुणैयुक्ता एवं तत्र स्थिताऽभवत् ॥५५॥
तत्र सिद्धवटंनाम तीर्थं पैतामहं स्मृतम् ॥
वटेश्वरस्य पुरतः सर्वपापक्षयंकरम् ॥५६॥
त्रिकालं यत्र रुद्रस्तु समागत्य व्यवस्थितः ॥
तन्महालयमित्युक्तं स्थानं तस्य महात्मनः ॥५७॥
पिंडतारकमित्येतत्प्राचीनं तीर्थमुत्तमम् ॥
कुम्भकुक्षिगिरिस्थं तत्पित्र्ये कर्मणि सिद्धिदम् ॥५८॥
प्राचीनेश्वरदेवस्य पुरोभूतं प्रति ष्ठितम्॥
प्राची सरस्वती यत्र तत्र किं मृग्यते परम् ॥५९॥
निवृत्ते भारते युद्धे तत्र तीर्थे किरीटिना ॥
प्रायश्चित्तं पुरा चीर्णं विष्णुना प्रेरितात्मना ॥६०॥
तेन तस्माद्विनिर्मुक्तः पातकात्पूर्वसंचितात् ॥
नरतीर्थं ततः ख्यातं तत्र पापभयापहम् ॥६१॥
नरतीर्थादन्यतीर्थं पुंडरीकमिति स्मृतम् ॥
अर्जुनेन सहागत्य यत्र स्नातो हरिः प्रिये ॥६२॥
प्राचीनेशात्परं तीर्थं वालखिल्येश्वरं महत् ॥
तत्र तस्मान्महातीर्थात्तीर्थमन्यन्महोदयम् ॥६३॥
गंगासमागमंनाम तीर्थमन्यन्महोदयम् ॥
तत्रालोक्य पुनर्देवीं दीनास्यां दीनमानसाम् ॥६४॥
ब्रह्मासृजत्सखीं तस्याः कपिलां विपुलेक्षणाम् ॥
हरिणीं हरिरप्याशु वज्रिणीमपि देवराट् ॥
न्यंकुं विनोदनार्थं च सरस्वत्या ददौ हरः ॥६५॥
ततः प्रहृष्टा सा देवी देवादेशात्सरस्वती ॥
तस्माद्गन्तुं समारब्धा प्राचीना पापनाशिनी ॥६६॥
 ॥ईश्वर उवाच॥
दक्षिणां दिशमास्थाय पुनः पश्चान्मुखी तदा ॥
सरस्वती महादेवी वडवानलधारिणी ॥
तदुत्तरे तटे तीर्थमेकद्वारमिति स्मृतम् ॥६७॥
एकद्वारेण यत्सेना स्वर्गं प्राप्ता ततो वरात् ॥
तस्मात्तीर्थात्पुनश्चान्यत्तीर्थं यत्र गुहेश्वरः ॥६८॥
गुहेन स्थापितः पूर्वं यत्र देवो महेश्वरः ॥
गुहेश्वरान्नातिदूरे वटेश्वरमिति स्मृतम् ॥६९॥
दिव्यं सरस्वतीतीरे व्यासेनाराधितं पुरा ॥
आमर्द्दकी नदी यत्र सरस्वत्या सहैकताम् ॥७०॥
संप्राप्ता तन्महातीर्थं फलदं सर्वदेहिनाम् ॥
आमर्दकी संगमं तं नापुण्यो वेद कश्चन ॥
संगमेश्वरनामेति तत्र लिंगं प्रतिष्ठितम् ॥७१॥
मुण्डीश्वरेति च तथा प्रसिद्धिमगमत्क्षितौ ॥
मुंडीश्वरसमीपस्थं सरस्वत्यां महोदयम् ॥७२॥
नाम्ना यत्प्राङ्मुखं तीर्थं सरस्वत्यास्तटे स्थितम् ॥
मांडव्येश्वरनाम्ना वै यत्रेशः संप्रतिष्ठितः ॥७३॥
पीलुकर्णिकसंज्ञं तु तीर्थमन्यत्पुनस्ततः ॥
सरस्वतीतीरगतमृषिणा सेवितं महत् ॥७४॥
तस्मादन्यत्सरस्वत्यां तीर्थं द्वारवती स्मृतम् ॥
तीर्थानां प्रवरं देवि यत्र संनिहितो हरिः ॥७५॥
ततस्तस्य समीपस्थं तीर्थं गोवत्ससंज्ञितम् ॥
यत्रावतीर्य गोवत्सस्वरूपेणांबिकापतिः ॥७६॥
स्वयं भूलिंगरूपेण संस्थितस्तेजसां निधिः ॥
गोवत्सान्नैर्ऋते भागे दृश्यते लोहयष्टिका ॥७७॥
स्वयंभूलिंगरूपेण रुद्रस्तत्र स्वयं स्थितः ॥
एकविंशति वारस्य भक्त्या पिंडस्य यत्फलम् ॥७८॥
गंगायां प्राप्यते पुंसां श्राद्धेनैकेन तत्र तत् ॥
ततस्तस्मान्महातीर्थाद्बालक्रीडनकी यथा ॥७९॥
सखीभिः सहिता तत्र क्रीडताऽसौ यथेच्छया ॥
आनुलोम्यविलोम्येन दक्षिणेनोत्तरेण च ॥८०॥
रुल्लं प्राप्य पुनर्देवी समुद्भूता मनोरमा ॥
रुल्लं नाम पुरं यत्र सृष्टं देवेन शंभुना ॥८१॥
सह देवैस्तु पार्वत्या धारायंत्रप्रयोगकैः ॥
एकं वर्षसहस्रं तु शंभुना तत्र रुल्लितम् ॥८२॥
रुल्लं तत्र ह्रदं नाम सरस्वत्यां महोदयम् ॥
साक्षात्तत्र महादेव आनंदेश्वरसंज्ञितः ॥८३॥
पश्चिमेन स्थितं तत्र शम्भोरायतनस्य तु ॥
स मेरोर्दक्षिणे पादे नखस्तु परिकीर्तितः ॥८४॥
पश्यंति ये नराः सम्यक्तेऽपि पापविवर्जिताः ॥
अश्वमेधसहस्रस्य प्राप्नुवंति फलं ध्रुवम् ॥८५॥
परतस्तस्य कूष्मांडमुनेस्तत्राश्रमं महत् ॥
कूष्मांडेश्वरसंज्ञं तु तीर्थं त्रैलोक्यविश्रुतम् ॥८६॥
कोल्लादेवी स्थिता तत्र सर्वपापभयापहा ॥
अन्तर्द्धानेन तां कोल्लां संप्राप्ता सा महानदी ॥८७॥
ततोऽप्यंतर्हिता भूत्वा संप्राप्ता तु मनोरमम् ॥
सानुं मदनसंज्ञं तु क्षेत्रं सिद्धनिषेवितम् ॥८८॥
ततोऽप्यंतर्हिता भूत्वा पुनः प्राप्ता हिमाचलम् ॥
खादिरामोदनामानं सर्वर्तुकुसुमोज्ज्वलम् ॥८९॥
तत्रारुह्य विलोक्याथ ददर्श सुमनोरमम ॥
क्षारोदं पश्चिमाशास्थं घनवृंदमिवोन्नतम् ॥९०॥
एवंविधं च तं तत्र सा विलोक्य महाप्रभा ॥
हर्षात्पंचानना भूत्वा देवकार्यार्थमुद्यता ॥९१॥
हरिणी वज्रिणी न्यंकुः कपिला च सरस्वती ॥
पंचस्रोताः स्थिता तत्र मुनिनोक्ता सरस्वती ॥९२॥
श्रमापनोदं कुर्वाणा मुनीनां यत्र संस्थिता ॥
तत्तत्पादकमित्युक्तं तीर्थं तीर्थार्थिनां नृणाम् ॥
सर्वेषां पातकानां च शोधनं तद्वरानने ॥९३॥
खादिरामोदमासाद्य तत्रस्था वीक्ष्य सागरम् ॥
गन्तुं प्रवृत्ता तं वह्निमादाय सुरसुन्दरि ॥९४॥
दग्ध्वा कृतस्मरं देवी पुनरादाय वाडवम् ॥
समुद्रस्य समीपस्था स्थिता हृष्टतनूरुहा ॥९५॥
ततः प्रविष्टा सा देवी अगाधे लवणांभसि ॥
वाडवं वह्निमादाय जलमध्ये व्यसर्जयत् ॥९६॥
ततस्तस्याः पुनः प्रीतः स्वयमेव हुताशनः ॥
तद्दृष्ट्वा दुष्करं कर्म वचनं चेदमब्रवीत् ॥९७॥
परितुष्टोऽस्मि ते भद्रे वरं वरय सुव्रते ॥
तत्ते दास्याम्यहं प्रीतो यद्यपि स्यात्सुदुर्लभम् ॥९८॥
 ॥ईश्वर उवाच॥
प्रगृह्य वलयं हस्तादिदं वचनमब्रवीत् ॥
इदं मे वलयं वह्ने वक्त्रे धार्यं सदा त्वया ॥९९॥
अनेन शक्यते यावत्तावत्तोयं समाहर ॥
न त्वया शोषणीयोऽयं समुदः सरितांपतिः ॥१००॥
बाढमित्येव चोक्त्वा स प्रविष्टो निधिमंभसाम्॥
एवमेषा महादेवि प्रभासे तु सरस्वती ॥
गृहीत्वा वाडवं प्राप्ता तुष्ट्यर्थं च मनीषिणाम् ॥१०१॥
सा विश्रांता कुरुक्षेत्रे भद्रावर्ते च भामिनि ॥
पुष्करे श्रीकला देवी प्रभासे च महानदी ॥१०२॥
देवमातेति सा तत्र संस्थिता लवणोदधौ ॥
अस्मिन्मन्वंतरे देवि आदौ त्रेतायुगे पुरा ॥१०३॥
इति वृत्तं सरस्वत्या वाडवाग्नेस्तथाभवत् ॥
मन्वन्तरे व्यतीतेऽस्मिन्भविताऽन्यस्तु वाडवः ॥१०४॥
ज्वालामुखेति नाम्ना वै रुद्रक्रोधाद्भविष्यति ॥
सरस्वत्यास्तथा नाम ख्यातिं ब्राह्मीति यास्यति ॥१०५॥
सरस्वतीति वै लोके वर्तते नाम सांप्रतम् ॥
अतीतं नाम यत्तस्याः कमंडलुभवेति च ॥
रत्नाकरेति सामुद्रं सत्यं नामांतरं पुरा ॥१०६॥
अस्मिन्मन्वंतरे देवि सागरेति प्रकीर्तितम् ॥
क्षारोदेति भविष्यं तु नाम देवि प्रकीर्तितम् ॥१०७॥
एवं जानाति यः कश्चित्स तीर्थफलमश्नुते ॥
स्वर्गनिःश्रेणिसंभूता प्रभासे तु सरस्वती ॥१०८॥
नापुण्यवद्भिः संप्राप्तुं पुंभिः शक्या महानदी ॥
प्राची सरस्वती देवि सर्वत्र च सुदुर्लभा ॥
विशेषेण कुरुक्षेत्रे प्रभासे पुष्करे तथा ॥१०९॥
एवंप्रभावा सा देवी वडवानल धारिणी॥
अग्नितीर्थसमीपस्था स्थिता देवी सरस्वती ॥११०॥
तामादौ पूजयेद्यस्तु स तीर्थफलमश्नुते ॥
सागरं यच्च तत्तीर्थं पापघ्नं पुण्यवर्द्धनम् ॥१११॥
दर्शनादेव तस्यैव महाक्रतुफलं लभेत् ॥
अग्निचित्कपिला सत्री राजा भिक्षुर्महोदधिः ॥११२॥
दृष्टमात्राः पुनंत्येते तस्मात्पश्येद्धि भावितः ॥
अग्नितीर्थे नरः स्नात्वा पावके प्रक्षिपेत्ततः ॥
गुग्गुलं भारसहितं सोग्निलोके महीयते ॥११३॥
एवं संक्षेपतः प्रोक्तो ह्यग्नि तीर्थमहोदयः ॥
सरस्वत्याश्च माहात्म्यं सर्वपातकनाशनम् ॥११४॥
स्नात्वाग्नितीर्थे विधिवत्कंकणं प्रक्षिपेततः ॥
सुवर्णस्य महादेवि यथावित्तानुसारतः ॥११५॥
ततः सरस्वतीं पूज्य कपर्दिनमथार्चयेत् ॥११६॥
ततः केदारनामानं भीमेश्वरमतःपरम् ॥
भैरवेश्वरनामानं चण्डीश्वरमतः परम् ॥११७॥
ततः सोमेश्वरं देवं पूजयेद्विधिवन्नरः ॥
नवग्रहेश्वरानिष्ट्वा रुद्रैकादशकं तथा ॥११८॥
ततः संपूजयेद्देवं ब्रह्माणं बालरूपिणम् ॥
एवं रौद्री समाख्याता यात्रा पातकनाशिनी ॥११९॥
माहात्म्यमखिलं तस्या यो जानाति नरोत्तमः॥
निवसन्क्षेत्रमध्ये तु स तीर्थफलमश्नुते ॥१२॥।
एवं कृत्वा ततो गच्छेन्महादेवीं सरस्वतीम् ॥१२१॥
सरस्वतीवाससमा कुतो गुणाः सरस्वतीवाससमा कुतो रतिः॥
सरस्वतीं प्राप्य दिवं गता नराः पुनः स्मरिष्यंति नदीं सरस्वतीम् ॥१२२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभास क्षेत्र माहात्म्ये सरस्वत्यब्धिसमागमाग्नितीर्थमाहात्म्यवर्णनंनाम पञ्चत्रिंशोऽध्यायः ॥३५॥

N/A

References : N/A
Last Updated : January 07, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP