संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ३९

प्रभासक्षेत्र माहात्म्यम् - अध्याय ३९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
अथ संपूज्य विधिना देवदेवं कपर्द्दिनम् ॥
ततो गच्छेन्महादेवि लिगं केदारसंस्थितम् ॥१॥
तस्यैवाग्नेयभागस्थं भीमेश्वरसमीपगम्॥
स्वयंभूतं महादेवि कल्पलिंगं मम प्रियम् ॥२॥
मया संपूजितं देवि वृद्धिलिंग महाप्रभम्॥
निराहारस्तु यस्तत्र करोत्येकं प्रजागरम् ॥३॥
चतुर्दश्यां विशेषेण तस्य लोकाः सनातनाः ॥
रुद्रेश्वरेति देवस्य त्वासीन्नाम पुरा युगे ॥४॥
तिष्येस्मिंस्तु पुनः प्राप्ते म्लेच्छस्पर्शभयातुरः ॥
अस्मिँल्लिंगे लयं यातः केदारश्चाब्धिसंनिधौ ॥५॥
तेन केदारनामेति तस्य ख्यातं धरातले ॥
माघे मासि यताहारः स्नात्वा तु लवणोदधौ ॥६॥
पद्मके तु महाकुंडे मध्येस्य लवणांभसः ॥
रुद्रेशाद्दक्षिणे भागे धनुषां दशके स्थिते ॥७॥
स्नात्वा विधानतो देवि रुद्रेशं चार्चयिष्यति ॥
सम्यक्केदारया त्रायाः फलं तस्य भविष्यति ॥८॥
ब्रह्महत्यादिपापानां पूजनान्नाशनं महत् ॥
अथ तस्यैव देवस्य इतिहासं पुरातनम् ॥९॥
सर्वकामप्रदं नृणां कथ्यते ते सुरप्रिये ॥
आसीद्राजा पुरा देवि शशबिंदुरिति श्रुतः ॥१०॥
सार्वभौमो महीपालो विपक्षगणसूदनः ॥
कलिद्वापरयोः संधौ सभूतः पृथिवीपतिः ॥११॥
तस्य भार्याऽभवत्साध्वी प्राणेभ्योऽपि गरीयसी ॥
न देवी न च गन्धर्वी नासुरी न च पन्नगी ॥१२॥
तादृग्रूपा वरारोहे यथाऽस्य शुभलोचना॥
तस्य हेममयं पद्मं शतपत्रं मनोरमम् ॥१३॥
खेचरं वेगि नित्यं च तस्य राज्ञो महात्मनः॥
स तेन पर्यटँल्लोकान्सर्वान्देवि स्वकामतः ॥१४॥
एकदा फाल्गुने मासि शुक्लपक्षे वरानने ॥
चतुर्द्दश्यां तु संप्राप्तः प्रभासक्षेत्रमुत्तमम् ॥१५॥
अथापश्यदृषीन्सर्वाञ्छ्रीसोमेशपुरःस्थितान् ॥
रात्रौ जागरणार्थाय जपहोमपरायणान् ॥१६॥
स दृष्ट्वा सोमनाथं तु प्रणिपत्य विधानतः ॥
पूजयामास सर्वां स्तान्यथार्हं भक्तिसंयुतः ॥१७॥
ततः केदारमासाद्य संस्नाप्य विधिवत्प्रिये ॥
पूजयित्वा विचित्राभिः पुष्पमालाभिरीश्वरम् ॥१८॥
नैवेद्यैर्विविधैर्वस्त्रैर्भूषणैश्च मनोहरैः ॥
ततोऽत्र कारयामास जागरं सुसमाहितः ॥१९॥
ततस्ते मुनयः सर्वे कुतूहलसमन्विताः ॥
च्यवनो याज्ञवल्क्यश्च शांडिल्यः शाकटायनः ॥२०॥
रैभ्योऽथ जैमिनिः क्रौंचो नारदः पर्वतः शिलः ॥
मार्कंडं पुरतः कृत्वा जग्मुस्तस्य समीपतः ॥२१॥
चक्रुः कथाः सुविचित्रा इतिहासानि भूरिशः ॥
 कीर्त्तयंतः स्थितास्तत्र पप्रच्छू राजसत्तमम् ॥२२॥
 ॥ऋषय ऊचुः॥
कस्मात्सोमेश्वरं देवं परित्यज्य नराधिप ॥
केदारस्य पुरोऽकार्षीर्जागरं तद्ब्रवीहि नः ॥
नूनं वेत्सि फलं चास्य लिंगस्य त्वं महोदयम् ॥२३॥॥
 ॥राजोवाच॥
शृण्वंतु ब्राह्मणाः सर्वे अन्यदेहोद्भवं मम ॥
पुराऽहं शूद्रजातीय आसं ब्राह्मणपूजकः ॥२४॥
सौराष्ट्रविषये शुभ्रे धनधान्यसमाकुले ॥
अथ कालांतरे तत्र अनावृष्टिरभूद्द्विजाः ॥२५॥
ततोऽहं क्षुधयाविष्टः प्रभासं क्षेत्रमास्थितः ॥
अथापश्यं सरः शुभ्रं हरिणीमूलसंस्थितम् ॥२६॥
तच्च रामसरोनाम पद्मिनीषण्डमंडितम् ॥
क्षीरोदांबुधिसंकाशं दृष्ट्वा स्नातः क्लमान्वितः ॥२७॥
संतर्प्य च पितॄन्देवान्पीत्वा स्वच्छमथोदकम् ॥
ततोऽहं भार्यया प्रोक्तो गृहाणेमान्सरोरुहान् ॥२८॥
एतत्समीपतो रम्यं दृश्यते स्थानमुत्तमम् ॥
विक्रीणीमोऽत्र गत्वा तु येन स्याद्भोजनं विभो ॥२९॥
अथावतीर्य सलिलं गृहीतानि मया द्विजाः ॥
कमलानि सुभू रीणि प्रस्थितश्च पुरं प्रति ॥३०॥
तत्र गत्वा च रथ्यासु चत्वरेषु त्रिकेषु च ॥
प्रफुल्लकमलान्येव क्रेतुं वै मुनिसत्तमाः ॥३१॥
न कश्चित्प्रति गृह्णाति अस्तं प्राप्तो दिवाकरः ॥
प्रासादं कंचिदासाद्य सुप्तोहं सह भार्यया ॥३२॥
तत्र सुप्तस्य मे बुद्धिः श्रुत्वा गीतध्वनिं तदा ॥
समुत्पन्ना सभा र्यस्य क्षुधार्तस्य विशेषतः ॥
नूनं जागरणं ह्येतत्कस्मिंश्चिद्विबुधालये ॥३३॥
सरोरुहाणि चादाय व्रजाम्यत्र सुरालये ॥
यदि कश्चित्प्रगृह्णाति प्राणयात्रा ततो भवेत् ॥३४॥
अथोत्थाय समायातो ह्यत्राहं मुनिपुंगवाः ॥
अपश्यं लिंगमेतत्तु पूजितं कुसुमैः शुभैः ॥३५॥
रुद्रेश्वराभिधमिदं वृद्धलिंगं स्वयंभुवम् ॥
वेश्यानंगवतीनाम्नी शिवरात्रिपरायणा ॥३६॥
जागर्त्ति पुरतस्तस्य गीतनृत्योत्सवादिना ॥
ततः कश्चिन्मया दृष्टः किमेतद्रात्रिजागरम् ॥३७॥
केयं स्त्री दृश्यतेऽत्यर्थं गीतनृत्योत्सवे रता ॥
सोऽब्रवीच्छिवधर्मोक्ता शिवरात्रिः सुधर्मदा ॥३८॥
तां चानंगवतीनाम्नी वेश्येयं धर्मसंयुता ॥
जागर्त्ति परमं श्रेयः शिवरात्रिव्रतं शुभम् ॥३९॥
शिवरात्रिव्रतं ह्येतद्यः सम्यक्कुरुते नरः ॥
न स दुःखमवाप्नोति न दारि द्र्यं न बंधनम् ॥४०॥
दुष्टं चारिष्टयोगं वा न रोगं न भयं क्वचित् ॥
सुखसौभाग्यसंपन्नो जायते सत्कुले नरः ॥४१॥
तेजस्वी च यशस्वी च सर्वकल्याणभाजनम् ॥
भवेदस्य प्रसादेन एवमाहुर्मनीषिणः ॥४२॥
 ॥राजोवाच॥
अथ मे बुद्धिरुत्पन्ना तद्व्रतं प्रति निश्चला ॥
चिंतितं मनसा ह्येतन्मयाब्राह्मणसत्तमाः ॥४३॥
अन्नाभावान्ममोत्पन्न उपवासो बलाद्यतः ॥
तदहं पद्मके तीर्थेस्नात्वा च लवणांभसि ॥४४॥
एतैः सरोरुहैर्देवं पूजयामि महेश्वरम्॥
ततो मया सभार्येण रुद्रेशः संप्रपूजितः ॥४५॥
पद्मैश्च भक्तियुक्तेन सभार्येण विशेषतः ॥
जाग्रत्स्थितस्तु देवाग्रे तां रात्रिं सह भार्यया ॥४६॥
ततः प्रभातसमय उदिते सूर्यमण्डले ॥
सा वेश्या मामुवाचेदं कलधौतपलत्रयम् ॥४७॥
गृहाणमूल्यं पद्मानां न गृहीतं मया हि तत् ॥
सात्त्विकं भावमास्थाय सभार्येण द्विजोत्तमाः ॥४८॥
ततो भिक्षां समाहृत्य प्राणयात्रा मया कृता ॥
कालेन महता प्राप्तः कालधर्मं मुनीश्वराः ॥४९॥
इयं मे दयिता साध्वी प्राणेभ्योऽपि गरीयसी ॥
मम देहं समादाय प्रविष्टा हव्यवाहनम्॥५०॥
तत्प्रभावादहं जातः सर्वभौमो महीपतिः ॥
जातिस्मरः सभार्यस्तु सत्यमेतद्द्विजोत्तमाः ॥५१॥
एतस्मात्कारणादस्य भक्तिर्लिंगस्य चोपरि ॥
मम नित्यं सभार्यस्य सत्यमेतद्ब्रवीमि वः ॥५२॥
मया क्रियाविहीनेन भक्तिबाह्येन सत्तमाः ॥
व्रतमेतत्समाचीर्णं तस्येदं सुमहत्फ लम् ॥५३॥
अधुना भक्तियुक्तस्य यथोपकरणान्मम ॥
भविष्ये यत्फलं किंचिन्नो वेद्मि च मुनीश्वराः ॥
येन सोमेशमुत्सृज्य अत्राहं भक्ति तत्परः ॥५४॥
 ॥ईश्वर उवाच॥
एवं श्रुत्वा तु ते विप्रा विस्मयोत्फुल्ललोचनाः ॥
साधुसाध्विति जल्पंतो राजानं संप्रशंसिरे ॥५५॥
पूजयामासुरनिशं लिंगं तत्र स्वयंभुवम् ॥
ततोऽसौ पार्थिवश्रेष्ठो लिंगस्यास्यप्रसादतः ॥
संसिद्धिं परमां प्राप्तो दुर्ल्लभां त्रिदशैरपि ॥५६॥
सा च वेश्या भगवती शिवरात्रिप्रभावतः ॥
तस्य लिंगस्य माहात्म्याद्रंभानामाप्सराऽभवत् ॥५७॥
तस्मात्सर्वप्रयत्नेन तल्लिंगं पूजयेद्बुधः ॥
धर्मकामार्थमोक्षं च यो वांछत्यखिलप्रदम् ॥५८॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभास क्षेत्रमाहात्म्ये केदारेश्वर (रुद्रेश्वर)लिङ्गमाहात्म्यवर्णनं नामैकोनचत्वारिंशोऽध्यायः॥३९॥

N/A

References : N/A
Last Updated : January 07, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP