संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ७८

प्रभासक्षेत्र माहात्म्यम् - अध्याय ७८

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि देवं वैश्वानरेश्वरम् ॥
तस्यैवाग्नेयकोणस्थं धनुषां पंचके स्थितम् ॥१॥
पापघ्नं सर्वजंतूनां दर्शनात्स्पर्शनादपि ॥
तत्र कश्चिच्छुकः पूर्वं नीडं देवि चकार ह ॥२॥
प्रासादे भार्यया सार्द्धं निवस न्सुचिरं स्थितः ॥
ततस्तौ दंपती नित्यं प्रदक्षिणं प्रचक्रतुः ॥३॥
कुलायस्य वशाद्देवि न तु भक्त्या कथंचन ॥
कालेन महता तौ च पंचत्वं समुपस्थितौ ॥४॥
जातौ तेन प्रभावेन उक्तौ जातिस्मरौ भुवि ॥
लोपामुद्रागस्त्यनामप्रसिद्धिं परमां गतौ ॥५॥
अथ गाथा पुरी गीता अगस्त्येन महात्मना ॥
स्मरता पूर्वदेहं तु विस्मयेनानुभूतिजा ॥६॥
कृत्वा प्रदक्षिणं सम्यग्वह्नीशं यः प्रपश्यति ॥
नूनं प्रसिद्धिमाप्नोति इतश्चाहं यथा पुरा ॥७॥
एवं देवि तवाख्यातं माहात्म्यं वह्निदैवतम् ॥
श्रुतं पापहरं नृणां सर्वकामफलप्रदम् ॥८॥
घृतेन तं तु संस्नाप्य विधिना वै समर्चयेत् ॥
हेम दद्याच्च विप्रेंद्र सम्यक्छ्रद्धासमन्वितः ॥९॥
एवं कृत्वा विधानेन सम्यग्यात्राफलं लभेत् ॥
वह्निलोकं तु संप्राप्य मोदते कालमक्षयम् ॥१०॥
इति श्रीस्कांदे महापुराण एकाशीति साहरुया संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये वैश्वानरेश्वरमाहात्म्यवर्णनंनामाष्टसप्तति तमोऽध्यायः ॥७८॥

N/A

References : N/A
Last Updated : January 08, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP