संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय १९९

प्रभासक्षेत्र माहात्म्यम् - अध्याय १९९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि तस्य दक्षिणतः स्थितम् ॥
सरस्वत्यास्तटे रम्ये देवं तत्र कृतस्मरम् ॥१॥
स्वयंभूतं महादेवि सर्वपापप्रणाशनम् ॥
तस्योत्पत्तिं प्रवक्ष्यामि यथा जातं महीतले ॥२॥
पुरा कामो मया दग्धो यदा तत्र वरानने ॥
तदा रतिः समागम्य विललाप सुदुःखिता ॥३॥
तां तु शोकातुरां दृष्ट्वा तत्राहं करुणान्वितः ॥
अवोचं मा रुदिष्वेति तव भर्ता पुनः शुभे ॥
समुत्थास्यति कालेन मत्प्रसादान्न संशयः ॥४॥
 ॥देव्युवाच॥
किमर्थं स पुरा दग्धः कामदेवस्त्वया विभो ॥
कथमाप पुनर्जन्म विस्तरात्कथयस्व मे ॥५॥
 ॥ईश्वर उवाच॥
दक्षः प्रजापतिः पूर्वं बभूव त्वत्पिता प्रिये ॥
शतं सुतानां जज्ञेऽस्य गौरीणां दीर्घचक्षुषाम् ॥६॥
ददौ त्वां प्रथमं मह्यं सतीनामेति कीर्तिताम् ॥
ददौ दश च धर्माय श्रद्धा मेधा धृतिः क्षमा ॥७॥
अनसूया शुचिर्लज्जा स्मृतिः शक्तिः श्रुतिस्तथा ॥
द्वे भार्ये कामदेवाय रतिः प्रीतिस्तथैव च ॥८॥
एकां स्वाहां ददौ वह्नेः पितॄणां च ततः स्वधाम् ॥
सप्तविंशच्छशाङ्काय अश्विन्याद्याः प्रकीर्तिताः ॥९॥
तवापि विदिता देवि रेवत्यन्तास्तथा जने ॥
कश्यपाय ददौ देवि स तु कन्यास्त्रयोदश ॥१०॥
अदितिश्च दितिश्चैव विनता कद्रुरेव च ॥
सिंहिका सुप्रभा चैव उलूकी या वरानने ॥११॥
अनुविद्धा सिता चैव ईर्ष्या हिंसा तथा परा ॥
माया निष्कृतिसंयुक्ता दक्षः पूर्वं महामतिः ॥१२॥
गौरी च सुप्रभा चैव वार्त्ता साध्वी सुमालिका ॥
वरुणाय ददौ पञ्च तदाऽसौ पर्वतात्मजे ॥१३॥
भद्रा च मदिरा चैव विद्या धन्या धना शुभा ॥
ददौ पञ्च कुबेराय पत्न्यर्थं पर्वतात्मजे ॥१४॥
जया च विजया चैव मधुस्पन्दा इरावती ॥
सुप्रिया जनका कान्ता सुभद्रा धार्मिका शुभा ॥१५॥
रुद्राणां प्रददौ कन्या दशानां धर्मवित्तदा ॥
प्रभावती सुभद्रा च विमला निर्मलाऽनृता ॥१६॥
तीव्रा दक्षारुणा विद्या धारपाला च वर्चसा ॥
आदित्यानां ददौ दक्षः कन्याद्वादशकं प्रिये ॥१७॥
योगनिद्राभिभूतस्य संसर्पा सरमा गुहा ॥
माला चंपा तथा ज्योत्स्ना स विश्वेभ्यश्च एव च ॥१८॥
अश्विभ्यां द्वे तथा कन्ये सुवेषा भूषणा शुभा ॥
एका कन्या तथा वायोर्दत्ता एताः प्रकीर्तिताः ॥१९॥
सावित्रीं ब्रह्मणे प्रादाल्लक्ष्मीं विष्णोर्महात्मनः ॥
कस्यचित्त्वथ कालस्य स ईजे दक्षिणावता ॥२०॥
यज्ञेन पर्वतसुते हिमवन्ते महागिरौ ॥
यज्ञवाटो ह्यभूत्तस्य सर्वकामसमृद्धिमान् ॥२१॥
तस्मिन्यज्ञे समायाता आदित्या वसव स्तथा ॥
विश्वेदेवाश्च मरुतो लोकपालाश्च सर्वशः ॥२२॥
ब्रह्मा विष्णुः सहस्राक्षो वारुणो यम एव च ॥
धनदश्च कुमारश्च तथा नद्यश्च सागराः ॥ ॥२३॥
वाप्यः कूपास्तथा चैव तडागाः पल्वलानि च ॥
सुपर्णश्चाथ ये नागाः सर्वे मूर्ता व्यवस्थिताः ॥२४॥
दानवाप्सरसश्चैव यक्षाः किन्नरगुह्यकाः ॥
सानुगास्ते सभार्याश्च वेदवेदांगपारगाः ॥२५॥
महर्षयो महाभागास्तथा देवर्षयश्च ये ॥
ते भार्यासहितास्तत्र वसंति च वरानने ॥२६॥
कपालमालाभरणश्चिताभस्म बिभर्ति यः ॥
अपवित्रतया शंभुर्नाहूतस्तु तथाविधः ॥२७॥
यतस्ततः समायाताः कैलासे पर्वतोत्तमे ॥
अश्विन्याद्या भगिन्यस्तास्त्वां प्रतीदं वचोऽबुवन् ॥२८॥
किं तुष्टेव च कल्याणि तिष्ठसि त्वं सुमध्यमे ॥
वयं च प्रस्थिताः सर्वाः पितुर्यज्ञे सभर्तृकाः ॥२९॥
वयमाकारितास्तेन सुताः सर्वा यशस्विनि ॥
न त्वामाहूतवान्दक्षस्त्रपते शंकराद्यतः॥३०॥
तासां वचनमाकर्ण्य सती प्राह क्रुधान्विता॥
हा धिग्दक्ष दुराचार किं वदिष्ये महेश्वरम् ॥३१॥
कथं संदर्शये वक्त्रमित्युक्त्वाऽऽत्मानमात्मना ॥
विससर्ज तपोयोगात्सस्मारान्यन्न किञ्चन ॥३२॥
अथ दृष्ट्वा महादेवः सतीं प्राणैर्विना स्थिताम् ॥
अवमानात्तथाऽऽत्मानं त्यक्त्वा मत्वा कपालिनम् ॥३३॥
गणान्संप्रेषयामास यज्ञविध्वंसनाय च ॥
ते गताश्च गणा रौद्राः शतशोऽथ सहस्रशः ॥३४॥
विकृता विकृताकारा असंख्याता महाबलाः ॥
रुद्रेण प्रेरितान्दृष्ट्वा वीरभद्रपुरोगमान् ॥३५॥
ततो देवगणाः सर्वे वसवः सह भास्करैः ॥
विश्वेदेवाश्च साध्याश्च धनुर्हस्ता महाबलाः ॥३६॥
युद्धाय च विनिष्क्रान्ता मुञ्चन्तः सायकाञ्छितान् ॥
ते समेत्य ततोऽन्योन्यं प्रमथा विबुधैः सह ॥३७॥
मुमुचुः शरवर्षाणि वारिधारां यथा घनाः ॥
तेषां हस्ती गणेनाथ शूलेन हृदि भेदितः ॥३८॥
स तु तेन प्रहारेण विसंज्ञो निषसाद ह ॥
अथ मुष्ट्या हतः कुम्भे नाग ऐरावणस्तदा ॥३९॥
सहसा स हतस्तेन वारणो भैरवान्रवान्॥
विनदञ्जवमास्थाय यज्ञवाटमुपाद्रवत् ॥४०॥
विश्वेदेवा निरुच्छ्वासाः कृता रौद्रैर्महाशरैः ॥
चकर्ष स धनुष्येण वसुमान्बलवतरः ॥४१॥
निस्तेजसस्तदादित्याः कृतास्तेन रणाजिरे ॥
एतस्मिन्नन्तरे देवाः कृतास्तेन पराङ्मुखाः ॥४२॥
ततस्ते शरणं जग्मुर्विष्णुं तत्र च संस्थितम् ॥
ततः कोपसमाविष्टो विष्णुर्देवान्सवासवान् ॥४३॥
दृष्ट्वा विद्रावितान्सर्वान्मुमोचाशु सुदर्शनम् ॥
तमापतन्तं वेगेन विष्णोश्चक्रं सुदर्शनम् ॥४४॥
प्रसार्य वक्त्रं सहसा उदरस्थं चकार ह ॥
तस्मिंश्चक्रे तदा ग्रस्ते अमोघे पर्वतात्मजे ॥४५॥
चुकोप भगवान्विष्णुः शार्ङ्गहस्तो ऽभ्यधावत ॥
स हत्वा दशभिस्तीक्ष्णैर्नंदिं भृङ्गिं शतेन च ॥४६॥
महाकालं सहस्रेण ह्ययुतेन गणाधिपम् ॥
बाणानामयुतैर्भित्त्वा वीरभद्रमुपाद्रवत् ॥४७॥
तं हत्वा गदया विष्णुर्विह्वलं रुधिरोक्षितम् ॥
गृहीत्वा पादयोर्भूमौ निजघानातिरोषितः ॥४८॥
हन्यमानस्य तस्याथ भूमौ चक्रं सुदर्शनम्॥
रुधिरोद्गारसंयुक्तं प्रहारमकरोन्न तु ॥४९॥
रुद्रलब्धवरो देवि वीरभद्रो गणेश्वरः ॥
यन्न पञ्चत्वमापन्नो गदया पीडितोऽपि सः ॥५०॥
पतितं वीक्ष्य तं सर्वे विष्णुतेजोबलार्दिताः ॥
विद्रुताः सर्वतो याता यत्र देवो महेश्वरः ॥५१॥
तस्मै सर्वं तथा वृत्तं समाचख्युः पराभवम् ॥
विक्रमं वीरभद्रस्य ततः क्रुद्धो महेश्वरः ॥५२॥
प्रगृह्य सहसा शूलं प्रस्थितः स्वगणैः सह ॥
यज्ञवाटं तु दक्षस्य पराभवभवं ततः ॥
विक्रमन्वीरभद्रेण यत्र विष्णुः स्वयं स्थितः ॥५३॥
तमायान्तं समालोक्य कोपयुक्तं महेश्वरम् ॥
संग्रामे सोऽजयं मत्वा तत्रैवान्तरधीयत ॥५४॥
मरुद्भिः सार्धमिन्द्रोऽपि वसुभिः सह किन्नरैः ॥
शिवः क्रोधपरीतात्मा ततश्चादर्शनं गतः ॥५५॥
केवलं ब्राह्मणास्तत्र स्थिताः सदसि भामिनि ॥
ते दृष्ट्वा शंकरं प्राप्तं कोपसंरक्तलोचनम् ॥५६॥
होमं चक्रुस्ततो भीता रुद्रमंत्रैः समंततः ॥
अन्ये त्राससमायुक्ताः पलायंते दिशो दश ॥५७॥
अथागत्य महादेवो दृष्ट्वा तान्ब्राह्मणोत्तमान् ॥
अपश्यमानो विबुधांस्तत्र यज्ञं जघान सः ॥५८॥
स च मृगवपुर्भूत्वा प्रणष्टः शिवभीतितः ॥
पृष्ठतस्तु धनुष्पाणिर्जगाम भगवाञ्छिवः ॥
अद्यापि दृश्यते व्योम्नि तारारूपो महेश्वरि ॥५९॥
 इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये दक्षयज्ञविध्वंसनोनाम नवनवत्युत्तरशततमोऽध्यायः ॥१९९॥

N/A

References : N/A
Last Updated : January 12, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP