संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय १३३

प्रभासक्षेत्र माहात्म्यम् - अध्याय १३३

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
तत्रैव संस्थिता देवि महाकालीति विश्रुता ॥
अधः स्थिते महापीठे पातालविवरान्विते ॥१॥
सर्वदुःखप्रशमनी सर्वशत्रुक्षयंकरी ॥
पूजनीया विधानेन कृष्णाष्टम्यां महानिशि ॥
गन्धैः पुष्पैस्तथा धूपैः क्रव्यैर्बलिभिरेव च ॥२॥
फलतृतीयां नारी च कुर्याद्वै तत्र भाविता ॥
वर्षमेकं सिते पक्षे देवीं पूज्य विधानतः ॥
फलानि ब्राह्मणे देयान्येव नूनं विधानतः ॥३॥
एतानि वर्जयेन्नक्ते ह्यन्नानि सुरसुन्दरि ॥
निष्पावा आढकी मुद्गा माषाश्चैव कुलित्थकाः॥४॥
मसूरा राजमाषाश्च गोधूमास्त्रिपुटास्तथा ॥
चणका वर्तला वापि मकुष्ठाश्चैवमादयः ॥५॥
न भक्ष्यास्तावत्ते देवि यावद्गौरीव्रतं चरेत् ॥
तस्याः पुण्यफलं वक्ष्ये कथ्यमानं शृणुष्व मे ॥६॥
धनं धान्यं गृहे तस्या न कदाचित्क्षयं व्रजेत् ॥
दुःखिता दुर्भगा दीना सप्त जन्मानि नो भवेत् ॥७॥
महाकालीव्रतं प्रोक्तं देव्या माहात्म्यसंयुतम् ॥
कृतं पातकनाशाय सर्वकामसमृद्धये ॥८॥
एवं देवि समाख्यातं महाकालीमहोदयम् ॥
क्षेत्रपीठं महादेवि मन्त्रसिद्धिप्रदायकम् ॥९॥
आश्वयुक्छुक्लपक्षे तु नवम्यां तत्र जागृयात् ॥
पीठे पूजाबलिं दत्त्वा मन्त्रं कामं जपन्निशि ॥
सौम्यचित्तः समाप्नोति वांछितां सिद्धिमुत्तमाम् ॥१०॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये महाकालीमाहात्म्यवर्णनंनाम त्रयस्त्रिंशदुत्तरशततमोऽध्यायः ॥१३३॥

N/A

References : N/A
Last Updated : January 10, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP