संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ५९

प्रभासक्षेत्र माहात्म्यम् - अध्याय ५९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
अथ वच्मि तृतीयां ते ज्ञानशक्तिं शिवात्मिकाम् ॥
प्रभासक्षेत्रमध्यस्थां दारिद्र्यौघविनाशिनीम् ॥१॥
अजेति नाम्नीं तां देवीं राह्वीशाद्दक्षिणे स्थिताम् ॥
मम वक्त्राद्विनिष्क्रांता षष्ठाद्वै विष्णुपूजितात् ॥२॥
 ॥देव्युवाच॥
पंचवक्त्राणि देवेश प्रसिद्धानि तव प्रभौ ॥
षष्ठं यद्वदनं देव तस्य किं नाम संस्मृतम् ॥
समुत्पन्ना कथं तस्मादजादेवीति या श्रुता ॥३॥
 ॥ईश्वर उवाच॥
साधु पृष्टं त्वया देवि यद्गोप्यं स्वसुतेष्वपि ॥
तत्तेऽहं संप्रवक्ष्यामि अप्रसिद्धागमोदितम् ॥४॥
वक्त्राणि मम देवेशि सप्तासन्पूर्वमेव हि ॥
सद्योजातादिपंचैव षष्ठं स्मृतमजेति च ॥५॥
सप्तमं पिचुनामेति सप्तैवं वदनानि मे ॥
तेभ्योऽजं ब्रह्मणे दत्तं पिचुवक्त्रं तु विष्णवे ॥६॥
तस्मादहं महादेवि पंचवक्त्रोऽधुनाऽभवम् ॥
अजस्तु ब्रह्मा सञ्जज्ञे पिचुर्विष्णुरजायत ॥७॥
अजवक्त्रान्महादेवि अजा जाता महाप्रभा ॥
अन्धासुररणे घोरे मम क्रोधेन भामिनि ॥८॥
खड्गचर्मधरादेवी सुरूपा सिंहवाहिनी ॥
मर्द्दयन्ती महादैत्यान्देवीकोटिसमन्विता ॥९॥
तस्या भयेन ये दैत्या विद्रुता दक्षिणार्णवम् ॥
पृष्ठतोऽनुययौ तान्वै सा देवी सिंहवाहिनी ॥१०॥
इतस्ततस्ते धावन्तो मार्यमाणाश्च तद्गणैः ॥
प्रभास क्षेत्रसंप्राप्ता नश्यमाना महार्णवम् ॥११॥
केचित्तत्र हता दैत्याः केचित्पातालमाययुः ॥
निःशेषान्निहतान्दृष्ट्वा सा देवी सिंहवाहिनी ॥१२॥
क्षेत्रं पवित्रमाज्ञाय तत्र स्थाने स्थिता शुभा ॥
सोमेशादीशकोणस्था सौरीशादुत्तरे स्थिता ॥१३॥
यस्तां तत्र स्थितां पश्येद्योषिद्वाथ नरोऽपि वा ॥
स भूयात्सत्त्वसौभाग्यैः सप्तजन्मानि संयुतः ॥१४॥
गीतवाद्यादिकं नृत्यं यस्तत्र कुरुते नरः ॥
तस्यान्वये न दौर्भाग्यं भूयात्तस्याः प्रसादतः ॥१५॥
घृतेन दीपकं तत्र या नारी संप्रयच्छति॥
रक्तवर्त्या महादेवि यावंतस्तत्र तंतवः ॥
तावज्जन्मांतराण्येव सा सौभाग्यमवाप्नुयात् ॥१६॥
यश्चैतत्तु पठेन्नित्यं तृतीयायां विशेषतः ॥
शृणुयाद्वाऽपि यो भक्त्या स कामानखिलाल्लँभेत् ॥१७॥
इति संक्षेपतः प्रोक्तो रुद्रशक्तित्रयक्रमः ॥१८॥
एताः शक्तीः पूजयित्वा सोमेशं पूजयेत्ततः ॥
सम्यग्यात्राफलापेक्षी एकां वा वरदामथ ॥१९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येऽजादेवीमाहात्म्यवर्णनंनामैकोनषष्टितमोऽध्यायः ॥५९॥

N/A

References : N/A
Last Updated : January 08, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP