संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय ८०

प्रभासक्षेत्र माहात्म्यम् - अध्याय ८०

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
तस्यैव पूर्वदिग्भागे लिंगं पातकनाशनम् ॥
गौतमेश्वरनामाढ्यं दैत्यसूदनपश्चिमे ॥१॥
धनुषां पंचके देवि संस्थितं सर्वकामदम् ॥
शल्येनाराधितं यद्वै मद्रराजेन भामिनि ॥२॥
ततः कृतं तपश्चोग्रं समाराध्य महेश्वरम् ॥
अन्योऽप्येवं नरो यस्तु तं समाराधयिष्यति ॥३॥
स प्राप्स्यति परां सिद्धिं यथा शल्यो महामनाः ॥
चैत्र शुक्लचतुर्द्दश्यां स्नापयेत्पयसा तु यः ॥४॥
गंधोदकेन च ततः पूजयेत्कुसुमोत्तमैः ॥
तथैव विधिवद्भक्त्या सोऽश्वमेधफलं लभेत् ॥५॥
वाचा कृतं च यत्पापं मनसा कर्मणाऽथ वा ॥
तत्सर्वं नश्यते देवि तस्य लिंगस्य दर्शनात् ॥६॥
इति श्रीस्कांदे महापुराण एका शीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गौतमेश्वरमाहात्म्यवर्णनंनामाशीतितमोऽध्यायः ॥८०॥॥

N/A

References : N/A
Last Updated : January 08, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP