संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|प्रभासखण्ड|प्रभासखण्डे प्रभासक्षेत्र माहात्म्यम्|
अध्याय १२९

प्रभासक्षेत्र माहात्म्यम् - अध्याय १२९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


 ॥ईश्वर उवाच॥
ततो गच्छेन्महादेवि अक्षमालेश्वरं परम् ॥
सागरार्कादीशकोणे पंचाशद्धनुषान्तरे ॥१॥
संस्थितं पापशमनं युगलिंगं महाप्रभम् ॥
अक्षमालेश्वरंनाम पुरा तस्य प्रकीर्तितम् ॥
उग्रसेनेश्वरं नाम ख्यातं तस्यैव साम्प्रतम् ॥२॥
 ॥देव्युवाच॥
अक्षमालेश्वरं नाम यत्पूर्वं समुदाहृतम् ॥
कथं तदभवद्देव कथयस्व प्रसादतः ॥३॥
 ॥ईश्वर उवाच॥
आसीत्पुरा महादेवि सती चाध मयोनिजा ॥
अक्षमालेति वै नाम्ना सतीधर्मपरायणा ॥४॥
कदाचित्समनुप्राप्ते दुर्भिक्षे कालपर्ययात् ॥
ऋषयश्च महादेवि क्षुधाक्रान्ता विचेतसः ॥५॥
सर्वे चान्नं परीप्संतो गताश्चण्डालवेश्मनि ॥
ज्ञात्वान्नसंग्रहं तस्य प्रार्थयाञ्चक्रुरन्त्यजम् ॥६॥
भोभोऽन्त्यज महाबुद्धे रक्षास्मानन्नदानतः ॥
प्राणसंदेहमापन्नान्कृशांगान्क्षुत्प्रपीडितान् ॥७॥
अहो धन्योऽसि पूज्योऽसि न त्वमन्त्यज उच्यसे ॥
यदस्मिन्प्रलये याते स्थितं धान्यं गृहे तव ॥८॥
अनावृष्टिहते देशे सस्ये च प्रलयं गते ॥
एकं यो भोजयेद्विप्रं कोटिर्भवति भोजिता ॥९॥
 ॥अन्त्यज उवाच ॥
अहो आश्चर्यमतुलं यदेतद्दृश्यतेऽधुना ॥
यदेतन्मद्गृहं प्राप्ता ऋषयश्चान्नकांक्षिणः ॥१०॥
शूद्रान्नमपि नादेयं ब्राह्मणैः किमुतान्त्यजात् ॥११॥
आमं वा यदि वा पक्वं शूद्रान्नं यस्तु भक्षति ॥
स भवेच्छूकरो ग्राम्यस्तस्य वा जायते कुले ॥१२॥
अमृतं बाह्मणस्यान्नं क्षत्रियान्नं पयः स्मृतम् ॥
वैश्यान्नमन्नमित्याहुः शूद्रान्नं रुधिरं स्मृतम् ॥१३॥
शूद्रान्नं शूद्रसंपर्कं शूद्रेण च सहासनम् ॥
शूद्रादन्नागमश्चैव ज्वलंतमपि पातयेत् ॥१४॥
अग्निहोत्री तु यो विप्रः शूद्रान्नान्न निवर्तते ॥
एते तस्य प्रणश्यंति आत्मा ब्रह्म त्रयोऽग्नयः ॥१५॥
शूद्रान्नेनोदरस्थेन ब्राह्मणो म्रियते यदि ॥
षण्मासाभ्यन्तरे विप्रः पिशाचः सोऽभिजायते ॥१६॥
शूद्रान्नेन द्विजो यस्तु अग्निहोत्रं जुहोति च ॥
चण्डालो जायते प्रेत्य शूद्राच्चैवेह दैवतः ॥१७॥
यस्तु भुञ्जति शूद्रान्नं मासमेकं निरन्तरम्॥
इह जन्मनि शूद्रत्वं मृतः शूद्रोऽभिजायते ॥१८॥
राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम्॥
आयुः सुवर्णकारान्नं यशश्चर्मावकर्तिनः ॥१९॥
कारुकान्नं प्रजा हन्ति बलं निर्णेजकस्य च ॥
गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति ॥२०॥
पूयं चिकित्सकस्यान्नं पुंश्चल्याश्चान्नमिन्द्रियम्॥
विष्ठा वार्धुषिकस्यान्नं शस्त्रविक्रयिणो मलम् ॥२१॥
सहस्रकृत्वस्त्वेतेषामन्ने यद्भक्षिते भवेत् ॥
तदेकवारं भुक्तेन कन्याविक्रयिणो भवेत् ॥२२॥
सहस्रकृत्वस्तस्यैव भुक्तेऽन्ने यत्फलं भवेत् ॥
तदन्त्यजानामन्नेन सकृद्भुक्तेन वै भवेत् ॥२३॥
तत्कथं मम विप्रेन्द्राश्चंडालस्याधमात्मनः ॥
धर्ममेवं विजानन्तो नूनमन्नं जिहीर्षथ ॥२४॥॥
 ॥ऋषय ऊचुः॥
जीवितात्ययमापन्नो योऽन्नमाद्रियते ततः ॥
आकाश इव पंकेन न स पापेन लिप्यते ॥२५॥
अजीगर्तः सुतं हंतुमुपसर्पन्बुभुक्षितः ॥
न चालिप्यत पापेन क्षुत्प्रतीघातमाचरन् ॥२६॥
भारद्वाजः क्षुधार्तस्तु सपुत्रो विजने वने ॥
बह्वीर्गा उपजग्राह बृहज्ज्योतिर्महामनाः ॥२७॥
क्षुधार्तो गीतमभ्यागाद्विश्वामित्रः श्वजाघनीम् ॥
चण्डालहस्तादादाय धर्माधर्मविचक्षणः ॥२८॥
श्वमांसमिच्छन्नर्तौ तु धर्मान्न च्ययते स्म सः ॥
प्राणानां परिरक्षार्थं वामदेवो न लिप्तवान् ॥२९॥
एवं ज्ञात्वा धर्मबुद्धे सांप्रतं मा विचारय ॥
ददस्वान्नं ददस्वान्नमस्माकमिह याचताम् ॥३०॥
 ॥चंडाल उवाच॥
यद्येवं भवतां कार्यमिदमंगीकृतं धुवम्॥
तदियं मत्सुता कन्या भवद्भिः परिगृह्यताम् ॥३१॥
भवतां योग्रणीर्ज्येष्ठः स चेमामुद्वहेद्ध्रुवम् ॥
दास्ये वर्षाशनं पश्चादीप्सितं भवतां द्विजाः ॥३२॥
 ॥ईश्वर उवाच॥
इत्युक्ता ऋषयो देवि लज्जयाऽऽनतकन्धराः ॥
प्रत्यालोच्य यथान्यायं वसिष्ठं समनूद्वहन् ॥३३॥
वसिष्ठोऽपि समाख्याय आपद्धर्मं महामनाः ॥
कालस्यानन्तरप्रेक्षी प्रोद्ववाहाऽन्त्यजाङ्गनाम् ॥
अक्षमालेति वै नाम्नीं प्रसिद्धा भुवनत्रये ॥३४॥
यदा स्वकीयतेजोभिरर्कबिंबमरुन्धत ॥
अरुंधती तदा जाता देवदानव वंदिता ॥३५॥
यादृशेन तु भर्त्रा स्त्री संयुज्येत यथाविधि ॥
सा तादृगेव भवति समुद्रेणेव निम्नगा ॥३६॥
अक्षमाला वसिष्ठेन संयुक्ताऽधम योनिजा ॥
शार्ङ्गीव मन्दपालेन जगाम ह्यर्हणीयताम् ॥३७॥
एवं कालक्रमेणैव प्रभासं क्षेत्रमागताः ॥
सप्तर्षयो महात्मानो ह्यरुंधत्या समन्विताः ॥३८॥
तीर्थानि प्रेषयामासुः सर्वसिद्धिप्रदानि ताम् ॥३९॥
एषामन्वेषमाणानां तव देवी ह्यरुंधती॥
अपश्यल्लिंगमेकं तु वृक्षजालांतरे स्थितम् ॥४०॥
तं दृष्ट्वा देवदेवेशमेवं जातिस्मराऽभवत् ॥
पूर्वस्मिञ्जन्मनि मया रजोभावांतरस्थया ॥४१॥
अज्ञानभावाद्देवेशो नूनं चात्रार्चितः। शिवः ॥
तस्मात्कर्मफलं प्राप्तमन्त्यजत्वं द्विजन्मना ॥४२॥
कस्तेन सदृशो देवः शंभुना भुवनत्रये ॥
राज्यं नियमिनामेवं यो रुष्टोऽपि प्रयच्छति ॥४३॥
इति संचिंत्य मनसा तत्रैव निरताऽभवत् ॥
पूजयामास तल्लिंगं दिव्याब्दानां शतं प्रिये ॥४४॥
एवं तस्य प्रभावेन दृश्यते गगनांतरे ॥
अरुंधती सती ह्येषा दृष्टा दुष्कृतनाशिनी ॥४५॥
अक्षमालेश्वरस्त्वेवं यथावत्कथितस्तव ॥
ततस्तु द्वापरस्यान्ते कलौ संध्यांशके गते ॥४६॥।
अंधासुरसुतश्चासीदुग्रसेन इति श्रुतः ॥
स प्रभासं समासाद्य पुत्रार्थं लिंगमेयिवान् ॥४७॥
अक्षमालेश्वरं नाम ज्ञात्वा माहात्म्यमद्भुतम् ॥
समाराध्य महादेवं नव वर्षाणि पंच च ॥
संप्राप्तवांस्तदा पुत्रं कंसासुरमिति श्रुतम् ॥४८॥
तत्कालान्तरमारभ्य उग्रसेनेश्वरोऽभवत् ॥
पापघ्नं सर्वजंतूनां दर्शनात्स्पर्शनादपि ॥४९॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः ॥
महान्ति पातकान्याहुर्नश्यंति तस्य दर्शनात् ॥५०॥
तत्रैव ऋषिपञ्चम्यां प्राप्ते भाद्रपदे शुभे ॥
अक्षमालेश्वरं पूज्य मुच्यते नारकाद्भयात् ॥५१॥
गोप्रदानं प्रशंसंति तत्रान्नमुदकं तथा ॥
सर्वपापविनाशाय प्रेत्यानंतसुखाय च ॥५२॥
इति ते कथितं देवि ह्यक्षमालेश्वरोद्भवम् ॥
माहात्म्यं पापशमनं श्रुतं दुःखनिबर्हणम् ॥५३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य उग्रसेनेश्वरमाहात्म्यवर्णनंनामैकोनत्रिंशदुत्तरशततमोऽध्यायः ॥१२९॥

N/A

References : N/A
Last Updated : January 10, 2025

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP